…
ज्येष्ठ-भ्रातृव्य-मातामहादीनां संस्कर्ता
षण्मासान् क्षौराभ्यङ्ग-ताम्बूल-मैथुनानि वर्जयेत् ।+++(4)+++
माता-पित्राचार्य–स्व-पत्नीनां यस्मिन् काले मरणं
तद्-ऊर्ध्वं परेद्युः तत्-कालात् पूर्वं
न भोजनं कुर्यात् ।
माता-पित्रोर् मृताहादि-वत्सरान्तं
स-पिण्डी-करणान्तं वा
तैलाभ्यङ्ग-ताम्बूल-क्षार-लवण–
मधु–कांस्य-भोजन–परान्नाध्वगमन–
दन्त-धावन–द्वि-भुक्ति–प्रतिग्रह-गन्ध-पुष्पाणि वर्जयेत् ।
वत्सरान्तम् अल्पाशनम् अधश्-शयनम्।
मैथुनम्
ऋतु-कालेऽपि (मैथुनम्) वर्जयेत् ।
मैथुने कृते पितरो रेतःकर्दमाब्धौ निमज्जन्ति ।
रेतः पिबन्ति च ।
+++(शुक्रोत्पत्ति-रहित-)+++मैथुने कृते कृच्छ्रं, शुक्रोत्पत्तौ कृच्छ्रत्रयं,
गर्भधारणे ब्रह्महत्याप्रायश्चित्तम्।
केश-धारणम्
इत्येतैः नियमैस् सह
पुत्राणां केश-धारणम् ।
ज्येष्ठस्यैवेत्येके ।
नियमैर् विनापीत्य् एके ।
…
आब्दिकाद् ऊर्ध्वं शुभ-मासे दिने च वापयेत् ।
ब्रह्मचारी
…
माता-पितृ-मातामह-मातामही,
ज्येष्ठ-भ्रातृ–पितृव्य-मातुलाचार्योपाध्यायेभ्यः
अन्येषां दाहादि–स-पिण्डी-करणान्त–प्रेत-कृत्य-करणे
ब्रह्मचारिणः पुनर् उपनयनम् ।
एक-देश-करणे कृच्छ्रम् ।
स-पिण्ड-मरणे ब्रह्मचारी नोदकं दद्यात् ।
समावर्तने कृते
तस्मिन् वत्सरे मृतानां सपिण्डानां त्रिरात्रम् अनुष्ठाय
उदकं दत्वा
अनन्तरम् उद्वाहं कुर्यात् ।
[[39]]
[[41]]
प्रयोगदर्पणं सम्पूर्णम्
प्रीयतां रामचन्द्रः
करकृतमपराधं क्षन्तुमर्हन्ति सन्तः
सोद-कुम्भ-श्राद्धम्
मृताहाद् एका-दशाहात् द्वा-दशाहाद् वा आरभ्य वत्सरान्तं
सोदकुम्भ-श्राद्धं प्रतिदिनं
स-पिण्डी-करणात् पूर्वम् एकोद्दिष्ट-विधानेन
तद्-ऊर्ध्वं त्रि-पुरुषोद्देशेन
सङ्कल्प-विधानेन
विश्वे-देव–विष्णु-वरणावाहन–
होम–स्वधा-निनयन–विकिर–पिण्ड-प्रदान–वर्जं कुर्यात् ।
[[65]]
अमुक-गोत्रस्य अमुक-शर्मणः प्रेत-लोक-वास-जनित-क्षुत्-तृष्णा-शान्त्य्-अर्थं
सोदक-कुम्भ-श्राद्धं
सङ्कल्प-विधानेन करिष्ये,
इति सङ्कल्प्य,
पितृ-पितामह-प्रपितामहार्थे ब्राह्मणं वृत्वा,
पाद-प्रक्षालन–भुक्ति-देश-संस्कार–गन्ध-पुष्पादि–पात्र-स्पर्शादि-सहितं भोजयित्वा
ताम्बूल-दक्षिणां जल-पूर्णं कुम्भं च दद्यात् ।
ऊन-मासिकादि
द्वितीया-सप्तमी-द्वादशीनां
भानु-भौम–शनैश्-चराणां
कृत्तिका–पुनर्वसूत्तरफल्गुनी–विशाखा-उत्तराषाढ–पूर्व-प्रोष्ठपदानां
तिथि-वार-नक्षत्राणां मध्ये द्वयोर् योगे द्विपुष्करः ।
त्रयाणां योगे त्रिपुष्करः ।
… मृताहादि-सप्त-विंशति-दिनेभ्य ऊर्ध्वं
त्रिषु त्रिषु दिनेषु ऊन-मासिकं,
चत्वारिंशद्-दिनेभ्य ऊर्ध्वं पञ्चसु दिनेषु त्रैपक्षिकं
सप्तत्य्-उत्तर-शत-दिनेभ्य ऊर्ध्वं दशसु दिनेषु ऊन-षाण्मासिकं
चत्वारिंशद्-उत्तर-त्रिंशत-दिनेभ्य ऊर्ध्वं पञ्च-दशसु दिनेषु ऊनाब्दिकं,
प्रथमा-षष्ठ्य्–एका-दशी–चतुर्-दशी–दर्श-
कृत्तिका–भृगु-वासर–त्रि-पुष्कर–द्वि-पुष्कर–व्यतिरिक्तेषु दिनेषु कुर्यात् ।
… मृताहात् चत्वारिंशद् दिनेभ्यः ऊर्ध्वं
पञ्चसु विषम-दिनेषु पञ्चसु विषम-दिनेषु त्रैपक्षिकं कुर्यात् ।
प्रतिमासं मृत-तिथौ द्वितीय-मासिकादीनि कुर्यात् ।
एकस्मिन् मासे तिथि-द्वय-सम्भवे
पूर्वं, द्वितीय-तृतीयादिकम् उत्तरम्।
अधिक-द्वितीयाधिक-तृतीयादिकं कुर्यात् ।
षोडश-श्राद्धानि
छन्दोगपरिशिष्टम् -
श्राद्धम् अग्निमतः कुर्य्यात्
दाहाद् एकादशेऽहनि ।
ध्रुवाणि तु प्रकुर्व्वीत प्रमिताहनि सर्वदा ।
द्वादश प्रतिमास्यानि,
आद्यं, +++(२)+++ षाण्मासिके तथा ।
सपिण्डीकरणञ् चैव
इत्येव श्राद्ध-स्स्स्स्षोडशम् ।
[[66]]
आब्दिकम्
एवं द्वादशसु मृततिथिषु गतेषु
त्रयोदश्यां मूत-तिथौ आब्दिकं कुर्यात् ।
प्रत्य्-अब्दं तन्-मास-मृत-तिथौ प्रत्य्-आब्दिकं कुर्यात् ।
तत्र तिथि-द्वय-सम्भवे
सङ्क्रान्त्य्-उपरागादि-दोष-रहितायां कुर्यात् ।
उभयोः दोष-राहित्ये दोष-दुष्टत्वे वा उत्तरतः कुर्यात् ।
मृत-मास-पक्ष-तिथ्य्-अज्ञाने प्रत्याब्दिकविषयः
मृत-मासे मृत-तिथ्य्-अभावे
पूर्वाब्द-मृत-तिथिम् आरभ्य द्वादशसु मृत-तिथिषु गतेषु
त्रयो-दश्यां मृत-तिथौ प्रत्य्-आब्दिकं कुर्यात् ।
मृत-मासाद्य्-अज्ञाने माघाषाढयोः अन्यतरस्मिन्
पक्षाज्ञाने कृष्ण-पक्षे
तिथ्य् अज्ञाने, तिथौ ज्ञाते दैवात् विघ्निते च,
कृष्णैकादश्याम् अमावास्यायां वा,
प्रस्थान-तिथ्य्-अज्ञाने
पूर्वोक्तयोः अन्यतरस्मिन् मासे,
प्रस्थान-तिथौ प्रस्थान-तिथ्य्-अज्ञाने
प्रस्थान-मासाज्ञाने - तस्मिन् मासे पूर्वोक्त-तिथ्योः अन्यतरस्यां+++(=??)+++
प्रस्थान-मास–प्रस्थान-तिथ्य्-अज्ञाने, मृति-श्रवण-मास-तिथ्योः
तयोः अज्ञाने पुनस्-संस्कार-मास-तिथ्योः
तस्मिन् मासि दर्शे वा
प्रत्याब्दिकं कुर्यात् ।
आशौचान्तरित-श्राद्धविषयः
सूतकाशौचाभ्यां विघ्नितम् आब्दिकं तद्-अन्ते कुर्यात् ।
तत्र प्रेत-कार्य-कर्ता द्वा-दश-दिने कुर्यात् ।
स-पिण्डी-करण-सावकाशत्वात् त्रयो-दश-दिने कुर्यात् ।
तत्रासम्भवे अमावास्यायां कुर्यात् ।
मासिकं तु उत्तर-मासिकेन सह तन्त्रेण कुर्यात् ।
[[67]]
रजस्वलाभर्तुः श्राद्धम्
रजस्वलायाः स्त्रिया भर्त्राद्य्-आब्दिकं पञ्चमेऽहनि कुर्यात् ।
आशौच-दिनान्तरितम् ऊन-त्रयं त्रैपक्षिकं च द्वा-दश-मासिकं च
कृष्णैकादश्याम् अमावास्यायां वा कुर्यात् ।
मात्रादीनां मासिकाब्दिकादिषु पित्रादीन् एव आवाहयेत् । तेभ्य एव जुहुयात् ।
इति प्रयोगदर्पणे चतुर्दशः खण्डः