कालः
[[48]]
द्वादशाहम् आरभ्य
सप्त-दश-पर्यन्तेषु षट्सु दिनेषु अन्यतमे दिने
त्रयोविंशति-दिने वा
सावन-मानेन मासाद् ऊर्ध्वं पञ्चदशसु दिनेषु अन्यतमे वा
तेनैव मानेन तृतीय-चतुर्थ-षष्ठ-+एकादशसु मासेषु अन्यतमे वा मासे
स-पिण्डी-करणं कुर्यात् ।
रोहिण्य्–उत्तर-प्रोष्ठ-पदा–रेवती-खण्ड-नक्षत्रेषु
चतुर्दश्यां रवि-भौम-गुरु-शुक्र-शनि-वासरेषु
स्व-नक्षत्रात् चतुर्विंश–सप्त-विंश-नक्षत्रयोः
स्वस्य स्त्री-पुत्रयोश् च जन्मसु च न कुर्यात् ।
तेषु +++(=१२-१७, २३, ३०+, ६०+, ९०+, १५०+, ३००+)+++ द्वा-दशसु कालेषु अकृतं चेत्
आब्दिकात् पूर्वस्मिन् दिने कुर्यात् ।
द्वा-दश-दिने दोष-युक्तेऽपि कुर्यात् ।
तस्मिन् शुक्रवासरश् चेत्
माता-पित्रोर् विना ऽन्येषां न कुर्यात् ।
वत्सरे ऽतीते
कर्कट-कुम्भयोः अन्यतरे
रोहिण्य्-आर्द्रा-हस्तानूराधेषु अन्यतमे कुर्यात् ।
तदा कृतान्य् अपि षोडश श्राद्धानि पुनः कृत्वा
सापिण्ड्यं कुर्यात् ।
तदा माता-पितृ-व्यतिरिक्तानाम् एकोद्दिष्ट-सोदकुम्भ-मासिक–स-पिण्डी-करणान्यतमेन+++(=??)+++ हिरण्येन वा कुर्यात् ।
दर्श-नियमः
एकादशाहे दर्शश् चेत्
यदि आहिताग्निः कर्ता
मध्याह्ने षोडश-श्राद्धानि सापिण्ड्यं च कृत्वा
अपराह्ने पितृयज्ञं कुर्यात् ।
मासिकादि
प्रतिमासं मृताहे द्वितीय-मासिकादीनि
सापिण्डयात् पूर्वम् एकोद्दिष्ट-विधानेन,
पश्चात् पार्वण-विधानेन कुर्यात् ।
आहिताग्नेः दहन-तिथौ
द्वितीय-मासिकम् अन्यानि मरण-तिथौ कुर्यात् ।
ऊन-मासिक–त्रैपक्षिके च
दाहादि-सप्त-विंशति-दिनात् चत्वारिंश-दिनाच् च ऊर्ध्वं कुर्यात् ।
द्वादशाहादिषु सापिण्ड्ये
तद्-ऊर्ध्व-भावीनि मासिकानि आकृष्य
सापिण्ड्यात् पूर्वं तस्मिन्न् एव दिने कुर्यात् ।
त्रि-पक्षादिषु+++(=??)+++ चेत्
पूर्वं मृताहे कुर्यात् ।
पुनश् च तत् तत् काले कुर्यात् ।
[[49]]
उत्सवेषु
कर्तुः पुंसुवन-सीमन्त–नाम-करणान्नप्राशनेषु प्राप्तेषु
तद्-ऊर्ध्व-भावीनि मासिकानि सापिण्ड्यात् पूर्वम् आकृष्य कृतान्य् अपि
पुनर् आकृष्य तत्-पूर्वस्मिन् दिने तत्-पूर्वं
मृत-तिथौ वा कुर्यात् ।
पुनश्च तत्तत्कालेषु कुर्यात् ।
माता-पित्रोः विना अन्येषाम्
उत्सवार्थम् आकृष्य कृतानि
पुनः तत्-तत्-काले न कुर्यात् इत्येके ।
सापिण्ड्यं च अकृतं चेत्
पूर्वस्मिन् दिने तत्-तत्-कृत्वा
परेद्युः पुंसुवनादि कुर्यात् ।
दिने कालः
…
स-पिण्डी-करणादिकं सर्वं पार्वण-श्राद्धं च
चतुर्दश-घटिकानन्तरम् आरभ्य
दशसु घटिकासु समापयेत् ।
अग्नि-निर्णयः
…
पित्रादीनां त्रयाणां
मातामहादीनां च त्रयाणां, तत्पत्नीनां च
सापिण्ड्यादि-श्राद्धे
पार्वणम् औपासनाग्नौ कुर्यात् ।
अन्येषां लौकिके ।
मातुलाचार्य-पितृव्याणां ज्येष्ठ-भ्रातुः सीमन्तस्याप्य् औपासनाग्नौ इत्येके ।
… विच्छिन्नस् तु कालान्तरे अग्निं सन्धाय, कुर्यात् ।
विभक्तेष्व् अपि पुत्रेषु
ज्येष्ठ एव सापिण्ड्यं कुर्यात् ।
तस्य अपत्नीकत्वे
सपत्नीकः अन्यः कुर्यात् ।
सर्वेषाम् अपत्नीकत्वे
ज्येष्ठ एव लौकिकाग्नौ कुर्यात् ।
कनिष्ठादीनां कृतं सापिण्ड्यं
ज्येष्ठः पुनः कृर्यात् ।
समानोदकादिना कृतं
पुनः सापिण्ड्यं कुर्यात् ।
… द्वादशाहादौ
पत्न्यां रजस्वलायाम् अपि
सापिण्ड्यं कुर्यात् ।
[[50]]
वत्सरान्त-सापिण्ड्य-मासिकाब्दिकादि तु
रजस्वलायाम् अपि निरवकाशत्वात्
दर्भैः भार्या-प्रतिनिधिं कृत्वा
अग्निं सन्धाय, कृत्वा, तम् अग्निं विसृजेत् ।
विज्ञापनादि
…
श्वः स-पिण्डी-करणं करिष्यमाणः
पूर्वेद्युः सायं होमं हुत्वा
अनश्नन्, भुक्तवद्भ्यः
अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
श्वः स-पिण्डी-करणं भविता।
तत्र भवद्भिः प्रसादः करणीयः
इति विज्ञाप्य,
पञ्च-दशैकोद्दिष्ट-श्राद्धानि
अनुज्ञा
श्वोभूतो(ते) ब्राह्मणान् आहूय
तेषां पुरतः यथाशक्ति दक्षिणां निधाय, प्रणम्य,
अशेषे हे परिषत् ...{Loading}...
स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य
अमुक-गोत्रस्य अमुक-शर्मणः अमुष्य प्रेतस्य स-पिण्डी-करणश्राद्धं करिष्यन्
ऊनमासिकादीनि ऊनाब्दिक-पर्यन्तानि पञ्च-दशैकोद्दिष्ट-श्राद्धानि
तत्-तत्-कालाद् आकृष्य कर्तुकामोऽस्मि,
तत्र मम अधिकार-सिद्धिम् अनुगृहाण।
“मासिकानि यथाकालम् अनुष्ठितानि भूयासुः” इति च अनुगृहाण
इति विज्ञाप्य,
तैः अनुज्ञातः,
आसनान्तम्
अमुक-गोत्रस्य अमुक-शर्मणः अमुक-प्रेतस्य द्वादशेऽहनि
स-पिण्डी-करण-श्राद्धं करिष्यन्
ऊन-मासिकादीनि ऊनाब्दिक-पर्यन्तानि पञ्च-दशैकोद्दिष्ट-श्राद्धानि
तन्त्रेण करिष्ये
इति सङ्कल्प्य,
ऊन-मासिकादिषु क्रमेण पञ्च-दश ब्राह्मणान् प्रेतार्थत्वावृत्ते कुण्डे पादान् प्रक्षाल्य,
कृसरादीनि दत्वा,
अग्नि-प्रतिष्ठादि अर्घ्यग्रहणं, भुक्ति-देश-संस्कारं, प्रेतावाहनानि एकोद्दिष्टवत् कृत्वा
होमः
दर्व्याम् उपस्तीर्य,
हविर् मध्यात् मेक्षणेन पञ्च-दशधा अवदाय,
अभिघार्य,
पूर्ववत् हुत्वा,
भोजनादि
पात्र-स्पर्श-पूर्वकं ब्राह्मणान् भोजयित्वा ताम्बूलदक्षिणां च दत्वा
[[51]]
अग्नेः दक्षिणतः दर्भेषु पञ्चदश-पिण्डान् दत्वा
शेषं पूर्ववत् सर्वं कुर्यात् ।
आमश्राद्धे
आमश्राद्धे तु
पञ्चदश एकोद्दिष्ट-श्राद्धानि
आम-रूपेण करिष्ये
इति सङ्कल्प्य,
वरण-पाद-प्रक्षालन-गन्ध-दानानि कृत्वा,
स-व्यञ्जनैः आम-रूपैः एभिः श्राद्धैः
प्रेत-रूपी भगवान् जनार्दनः प्रीयताम्
इति तिलोदकम् उत्सृज्य,
ताम्बूल-दक्षिणां च दत्वा
ब्राह्मणान् प्रस्थाप्य
ततः स-पिण्डी-करणं कुर्यात् ।
इति प्रयोगदर्पणे एकादशः खण्डः
मुख्य-श्राद्धम्
अमुक-गोत्रस्य अमुक-शर्मणः अमुष्य प्रेतस्य
स-पिण्डी-करणश्राद्धं करिष्ये,
इति सङ्कल्प्य,
विश्वेदेवार्थे द्वौ विप्रौ
पितृ–पितृ-पितामह–प्रपितामहार्थे त्रीन्,
द्रव्य-ब्राह्मणस्याभावे विश्वे-देवार्थम् एकं, पितुः पित्राद्य्-अर्थम् एकं,
प्रेतार्थम् एकं, विष्ण्व्-अर्थम् एकं वृणुयात् ।
निमन्त्रणादि
तेषां हस्तेषु अपः प्रदाय,
आसनार्थं दर्भान् वाम-भागे भूमौ दत्वा,
पुनर् अपः प्रदाय
विश्वेदेवाद्य्-अर्थे भवता क्षणः कर्तव्यः,
इति तेषां हस्तेषु दर्भान् दत्वा,
“ओं तथे"ति तैः प्रत्युक्ते,
[[57]]
“प्राप्नोतु भवान्” इति ब्रूयात्,
“प्राप्नवानी"ति ते प्रतिब्रूयुः ।
अथ औदुम्बरेण आयस-व्यतिरिक्तेन अन्येन वा शङ्कुना
उत्तरे चतुरश्रं,
मध्ये त्रिकोणं
दक्षिणे मण्डलं च त्रीन् कुण्डान्
आयाम-विस्तरान् तद्-अर्धं खातान् कृत्वा
गोमयेन उपलिप्य
दर्भान् संस्तीर्य
उत्तरे अक्षतैः
इतरयोः तिलैश् च अभ्यर्च्य,
उत्तरे विश्वेषां देवानां
मध्ये पितृणां,
दक्षिणे निमित्तस्य,
उत्तरे विष्णोश् च
पादान् प्रक्षाल्य
स्वस्य च पादौ प्रक्षाल्य, आचम्य,
आचान्तेषु आसनेषु उपविष्टेषु
कृसर-ताम्बूलानि दत्वा,
अभ्यज्य स्नात्वागतेषु
अग्नि-प्रतिष्ठा
अग्निं प्रतिष्ठाप्य
प्राक् तोयं निधाय,
“ये पार्थिवासः पितुः पितरः” इति जपित्वा,
अग्निं परिस्तीर्य,
दर्व्यादीनि सादयित्वा,
अर्घ्य-पात्रादि-सादनम्
उपवीती, अग्नेर् दक्षिणतः उदग्-अग्रान् दर्भान् सँस्तीर्य,
तेषु विश्वे-देवार्घ्यपात्रं या(य)वांश्च सादयित्वा,
प्राचीनावीती, तत्-पुरस्तात् दक्षिणाग्रान् दर्भान् सँस्तीर्य,
तेषु पित्रर्घ्य-पात्रं, पवित्राणि,
तिलान्, मधु-सिकतान्,
हविः-पात्र-द्वयम्, अहविः-पात्रद्वयम्,
औदुम्बरं मेक्षणं च एकैकशः सादयित्वा,
तत्-पुरस्तात् दक्षिणाग्रान् दर्भान् सँस्तीर्य,
तेषु प्रेतार्घ्यपात्रं सादयित्वा,
उपवीती विश्वे-देवार्घ्यपात्रोत्तरतः विष्ण्वर्घ्यपात्रं सादयित्वा,
प्राचीनावीती, पात्र-प्रोक्षणादि-दर्वी-संस्कारान्तं कृत्वा,
उपवीती पवित्रान्तर्हिते विश्वे-देवार्घ्य-पात्रे,
“शन्नो देवीरभिष्टये”, इति जलं निनीय,
[[58]]
वैश्वदेवार्घ्य-सिद्धिः
पवित्रम् उद्धृत्य,
यवोऽसि धान्यराजो ऽसि
वारुणो मधु-संयुतः ।
निर्णोदस् सर्व-पापानां
पवित्रम् ऋषिभिः स्मृतम् ॥
इति यवान् प्रक्षिप्य
पवित्रं निधाय,
‘मधु वाता ऋतायते’ इति मधु गुडं वा प्रक्षिप्य,
‘सोमस्य त्विषिरसि’ इति सर्वाभिः अङ्गुलीभिः अभिमृश्य,
“अवेष्टा दन्दशूकाः” इति तत्र पतितं तृणादिकम् आदाय,
‘निरस्तं नमुचेश्शिरः’ इति नैर्ऋत्यान् निरस्य
अप उपस्पृश्य,
“शन्नो देवीः” इत्यर्घ्यम् अभिमन्त्र्य,
गन्धादिभिः अभ्यर्च्य,
दर्व्या दर्भैश्च प्रच्छाद्य,
पित्रर्घ्य-सिद्धिः
प्राचीनावीती, पवित्रान्तर्हिते पित्रर्घ्यपात्रे,
आ म आगच्छन्तु पितुः पितरः
देवयानान् समुद्रान् सलिलान् सवर्णान्।
अस्मिन् यज्ञे सर्वकामान् लभन्ते
क्षीयमाणम् उपदुह्यताम्
इमां पितुः पितृभ्यो वो गृह्णामि
इति अर्घ्यं गृहीत्वा
तिलोऽसि सोम-देवत्यो
गो-सवो देव-निर्मितः,
प्रत्नवद्भ्यः प्रत्न स्वध एहि
पितुः पितॄन् इमान् लोकान्
प्रीणया हि नः स्वधा नमः
इति तिलान् निक्षिप्य,
मधु-प्रक्षेपाद्य्-आच्छादनान्तं पूर्ववत् कृत्वा ।
प्रेतार्घ्यग्रहणम्
प्रेतार्घ्यपात्रे
आ म आगच्छतु प्रेतो
देवयानान् समुद्रान् सलिलान् सवर्णान्।
अस्मिन् यज्ञे सर्वकामान् लभते
क्षीयमाणम् उपदुह्यताम्
इमां प्रेताय वो गृह्णामि
इति अर्घ्यं गृहीत्वा,
तिलोऽसि सोम-देवत्यो
गोसवो देव-निर्मितः । प्रत्नवद्भिः प्रत्न स्वध एहि प्रेतम्
इमान् लोकान् प्रोणया हि नः
स्वधा नमः,
इति तिल-प्रक्षेपादि पूर्ववत् कृत्वा ।
[[59]]
विष्ण्वर्घ्य-सिद्धिः
उपवीती - विश्वेदेवार्घ्य-ग्रहणवत् विष्ण्व्-अर्घ्यग्रहणं कुर्यात् ।
अर्घ्य-पात्राणि एक-जातीयानि भवेयुः ।
भुक्ति-स्थान-मार्जनम्
प्राचीना-वीती -
‘अपहता असुरा’ इति पित्रादि-भुक्तिस्थाने तिलान् सिकतांश्च प्रकीर्य,
उदीरताम् अवर’ इति अद्भिः अवोक्ष्य,
प्रेत-भुक्ति-स्थाने एकोद्दिष्टवत् कृत्वा,
होम-स्थानं गत्वा,
विश्वान् देवान्, पितुः पितॄन्, प्रेतं, विष्णुं,
पार्वणवत् एकोद्दिष्टवच् च आवाह्य
पूर्ववत् पाद-प्रक्षालनं च कृत्वा,
अर्घ्य-दानम्
उपवीती विश्वे-देव-हस्ते शुद्धोदकं पवित्रं निधाय,
या दिव्या आपः पयसा सम्बभूवुः,
या अन्तरिक्ष उत पार्थिवीर् याः
हिरण्यवर्णा यज्ञियास्
ता न आपश्शँ स्योना भवन्तु,
विश्वेभ्यो देवेभ्य इदं वो अर्घ्यम्
इत्य् अर्घ्यं दत्वा,
“अस्त्व् अर्घ्यम्” इति प्रत्युक्ते
पुनः शुद्धोदकं दत्वा,
पवित्रम् आदाय
अर्घ्यपात्रे निधाय,
दर्भैः दर्व्या च अर्घ्य-पात्रं प्रच्छाद्य,
प्राचीनावीती पितुः पित्रादीनां पूर्ववत् शुद्धोदकं पवित्रं च दत्वा
‘या दिव्या’ इति मन्त्रान्ते
अमुक-गोत्राय अमुक-शर्मणे पितुः पित्रे स्वधा नमः स्वाहा
इदं ते अर्घ्यम्,
अमुक-गोत्राय अमुक-शर्मणे पितुः पितामहाय स्वधा नमः स्वाहा,
इदं ते अर्घ्यम्
[[60]]
अमुक-गोत्राय अमुक-शर्मणे पितुः प्रपितामहाय
इदं ते अर्घ्यम्
इति वा
अमुक-गोत्रेभ्यः अमुक-शर्मभ्यः पितुः पितृ-पितामह-प्रपितामहेभ्यः स्वधा नमः स्वाहा,
इदं वो अर्घ्यम्
इति वा, अर्घ्यं दत्वा,
पुनः शुद्धोदक-दानानि आच्छादनान्तं कृत्वा,
निमित्त-हस्ते शुद्धोदकं पवित्रं च दत्वा,
“या दिव्या” इति मन्त्रान्ते
अमुक-गोत्राय अमुक-शर्मणे पित्रे प्रेताय स्वधा नमः स्वाहा,
इदं ते अर्घ्यम्
इत्य् अर्घ्यं दत्वा
पुनः शुद्धोदक-दानानि कृत्वा
उपवीती विष्णोः हस्ते शुद्धोदकं पवित्रं च दत्वा,
“या दिव्या” इति मन्त्रान्ते
श्राद्ध-संरक्षक-श्री-महा-विष्णवे स्वधा नमः स्वाहा,
इदं ते अर्घ्यम्
इति अर्घ्यं दत्वा
पुनः शुद्धोदकदानानि आच्छादनान्तं कृत्वा,
गन्ध-पुष्प-धूप-दीप-वस्त्र-भूषणानि गो-भू-हिरण्यानि च दत्वा,
निमित्ताय विशेषेण दत्वा,
पूर्ववत् “इयं ते स्वधा” इति अर्घ्यं दत्वा
होमः
प्राचीनावीती परिधि-निधान-प्रभृति–मुखान्तं कृत्वा,
“उद्ध्रियताम्” इत्यनुज्ञाप्य,
“यन्मे पितुर्माता” इत्यादिभिः अन्नाहुतीः
“स्वाहा पितुः पित्रे” इत्य्-आदिभिः आज्याहुतीश् च हुत्वा,
प्रेतार्थं पक्वम् अन्नं, व्यञ्जनं च पात्र-द्वयेनादाय
एकोद्दिष्टवत् हुत्वा
स्विष्ट-कृद्-आद्य्-अग्न्य्-उपस्थानान्तं कृत्वा
भोजनम्
भुक्ति-पात्रेषु तत् हुतम् अन्न-व्यञ्जनादिकं निधाय,
विश्वेषां देवानां पात्र-स्पर्शनं कृत्वा,
पितुः पित्रादीनाम्
“एष ते पितुस् तत” इत्य्-आदिभिः अन्नाभिमर्शनं पात्र-स्पर्शं
निमित्तस्य एकोद्दिष्टवत्
विष्णोश् च पात्र-स्पर्शं
“यज्ञेश्वरो हव्य-कव्ये”,
“एको विष्णुर्” इत्य्-आदिभिः तिलोदकम् उत्सृज्य,
[[61]]
परिषेचनापोशन-प्राणाहुतीः कारयित्वा,
भुञ्जानेषु पुरुष-सूक्तादीनि पितृ-सूक्त-वर्ज्य(जं) श्रावयित्वा,
भुक्तेषु विकिरं दत्वा,
आपोशनं कारयित्वा,
आचान्तेषु पूर्ववद् “इयं वस् तृप्तिः” इत्य् अर्घ्यं दत्वा,
“रोचयत” इति देवान्
“स्वदितम्” इति पितॄन् वाचयित्वा
ताम्बूल-दक्षिणां च दत्वा
प्रस्थापनम्
गो-भू-तिल-हिरण्य-वस्त्राद्य् अपि
हस्ति-दासी-दास-भूषण-
यव-व्रीहि-माष-तिल-
दण्डोपानच्-छत्र-कमण्डलु-
यानासन-शयनोपधानैः यथा-विभवं सम्पूज्य
स्वस्ति वाचयित्वा
हस्तेषु उदकं दत्वा,
“अक्षय्यम्” इत्युक्त्वा
“अस्त्व् अक्षय्यम्” इति तैः प्रत्युक्ते यथा-शक्ति दक्षिणां दत्वा,
“स्वधां वाचयिष्ये” इत्य् उक्त्वा,
“वाच्यताम्” इति तैः प्रत्युक्ते,
“ओं स्वधे"त्य् उक्त्वा,
“अस्तु स्वधा” इति तैः प्रत्युक्ते,
भूमौ किञ्चिज् जलं प्रस्राव्य,
अधो-मुखं पात्राणि विन्यस्य,
“विश्वेदेवाः प्रीयन्ताम्” इत्य् उक्त्वा,
“प्रीयन्तां विश्वे देवाः” इति प्रत्युक्ते,
“अन्न-शेषैः किं क्रियताम्” इति पृष्टे,
“इष्टैस् सह भुज्यताम्” इति विश्वेदेवैः प्रत्युक्ते,
“दातारो नोऽभिवर्धन्ताम्” इति प्रार्थ्य
“दातारो वोऽभिवर्धन्ताम्” इति तैः प्रत्युक्ते,
अधो-मुखं पात्रम् उत्तानं कृत्वा,
उपवीती ब्राह्मणान् प्रदक्षिणीकृत्य
उपचारान् उक्त्वा,
पादौ निपीड्य,
प्राचीना-वीती,
“वाजेवाजे” इति जपित्वा,
“उत्तिष्ठत पितरः” इति,
“उत्तिष्ठ प्रेत” इति
“उत्तिष्ठत विश्वेदेवाः” इति,
“उत्तिष्ठ विष्णो”, इति क्रमेण ब्राह्मणान् उत्थाप्य,
उपवीती आद्वारम् अनुव्रज्य,
प्रदक्षिणीकृत्य,
आगत्य,
[[63]]
पिण्डानि
प्राचीनावीती अग्नेर् दक्षिणतः त्रेधा दर्भान् सँस्तीर्य,
पूर्ववत् दर्भेषु “मार्जयन्तां मम पितुः पितरः” इत्यादिभिः पश्चिम-दर्भेषु
“मार्जयन्तां मम मातरः” इत्यादिभिश् च पित्रर्घ्य-जलम् उत्सृज्य
“एतत् ते पितुस् तत” इत्यादि-षड्भिः षट् पिण्डान् दत्वा,
मध्यम-दर्भेषु “मार्जयतां मम पिता प्रेत” इति प्रेतार्घ्य-जलम् उत्सृज्य,
अमुक-गोत्राय अमुक-शर्मणे प्रेताय
एतं पिण्डं ददामि
इति द्वादशाङ्गुलायामम् अश्व-खुर-स्थूलं पिण्डं दत्वा,
अमुक-गोत्र अमुक-शर्मन् प्रेत
एतं पिण्डम् उपतिष्ठ
इत्य् उपस्थाय,
ब्राह्मणान् अनुज्ञाप्य,
पिण्ड-संयोगः
“पिण्ड-संयोजनं करिष्ये” इति सङ्कल्प्य,
“समानो मन्त्रः, समानी व आकूतिः” इति द्वाभ्यां प्रेतार्घ्य-जलं
पितुः पित्राद्य्-अर्घ्य-पात्रे निनीय
प्रेत-पिण्डं त्रेधा विभज्य,
पित्रादि-पिण्डानां पुरतो निधाय,
वैतरणी-गोदानं करिष्ये इति सङ्कल्प्य,
यमद्वारे पुरे घोरे
तप्ता वैतरणी नदी ।
तां तर्तुं गां प्रदास्यामि
ब्रह्मलोकजिगीषया ।
इदं वैतरणीगोदानं तुभ्यम् अहं सम्प्रददे न मम
इति ब्राह्मणाय गां दत्वा,
“मधु वाता” इत्यादि “माध्वीर्गावो भवन्तु नः” इत्यन्तेन,
“सङ्गच्छध्वम्” इत्यादि, “यथा वस्सुसहासति” इत्यन्तेन च
पितुः पित्रादिपिण्डैः प्रेत-पिण्ड-भाग-त्रयं संसृज्य,
“ये समानाः” इत्यादि “शतं समा”, इत्यन्तेन पिण्डान् उपस्थाय,
संसृष्टेन अर्घ्यजलेन “मार्जयन्तां मम पितरः” इत्यादिभिः मार्जयित्वा,
“ये च वो ऽत्र” इत्यादि-ग्रास-प्राशनान्तं कृत्वा
पिण्डान् अप्सु प्रक्षिपेत् ।
[[63]]
न मध्यम-पिण्डं पत्न्यै दद्यात्,
स्नात्वा गृहं गत्वा
पुण्याहं वाचयेत्
इत्य् एके ।
इति प्रयोगदर्पणे त्रयोदशः खण्डः
मातृ-स-पिण्डी-करणम्
मातृसपिण्डने तु सङ्कल्पादौ “अमुक-गोत्राया अमुक-नाम्न्या” इत्यादि ब्रूयात् ।
पित्रादीन् एव वृणुयात् आवाहयेच् च ।
तेभ्य एव जुहुयात् ।
अर्घ्य-ग्रहणे तु “आ म आगच्छतु प्रेता देवयानान् … प्रेतायै ते गृह्णामि” इति
“तिलोऽसि … प्रेताम् इमान् लोकान् …”
“अपहता असुरा”
“यत्रास्या गतं मनः ।”
उदीर्ताम् अवरोत्परोन्मध्यमा प्रेता सौम्या ।
असुं येयाद् अवृकर्तज्ञा सा नोऽवतु प्रेता हवेषु
आ याहि प्रेते सोम्ये
गम्भीरैः पथिभिः पूर्व्यैः
प्रजाम् अस्मभ्यं ददती
रयिं च दीर्घायुत्वं च शत-शारदञ् च,
मार्जयतां मम माता प्रेता
अमुक-गोत्रायै अमुक-नाम्न्यै प्रेतायै एतं पिण्डं ददामि ।
अमुक-गोत्रे अमुक-नाम्नि प्रेते एतं पिण्डम् उपतिष्ठ
इत्य्-आदि-पिण्ड-भाग-त्रयं पितुर् मात्रादि-पिण्डैः संसृजेत् ।
अन्यत् सर्वं पूर्ववत् ।
अनुमरणे
अनुमरणे
अमुक-गोत्राय अमुक-शर्मणे
इति प्रेत-पिण्डं, तद्दक्षिणतः
अमुक-गोत्राया अमुक-नाम्न्या
इत्येकं प्रेतपिण्डं दत्वा
पत्न्यर्घ्यं पत्न्यर्थे निनीय
“तत् समानो मन्त्रस् समितिस् समानी,”
“समानीव आकूतिः” इति द्वाभ्यां पित्राद्यर्घ्ये निनीय,
पत्नीपिण्डं भर्तृपिण्डेन संसृज्य,
संसृष्टं तं त्रेधा विभज्य,
पूर्वोक्तमन्त्रैः पित्रादिपिण्डैः संसृजेत् ।
[[64]]
अन्यत् सर्वं पूर्ववत् कुर्यात् ।
अनुकरणे
कनिष्ठपुत्त्रादिना कृतस्य स-पिण्डी-करणे
ज्येष्ठ-पुत्त्रादिना पुनः-करणे
विश्वे-देवार्थे पितुः-पितृ-पितामह-प्रपितामहार्थे, पित्रर्थे, विष्ण्व्-अर्थे च
ब्राह्मणान् वृत्वा
प्रेत-वरणं प्रेत-शब्दं च विहाय
अर्घ्य-पिण्ड-संयोजन-रहितं पार्वण-श्राद्ध-विधिना सर्वं कुर्यात्।
अथवा विश्वेदेवार्थे पितृ-पितामह-प्रपितामहार्थे विष्ण्वर्थे च वृत्वा,
प्रेत-वरणं प्रेत-शब्द-पिण्डार्घ्य-संयोजन-रहितं पार्वण-श्राद्ध-विधिना सर्वं कुर्यात् ।
पिता-महादीनाम्
पिता-महादीनां तत्-पत्नीनां च स-पिण्डी-करणे
यन्मे पितुः पितुर्माता ।
स्वाहा पितुः पितुः पित्रे,
एष ते पितुः पितुस्तत ।
मार्जयन्तां मम पितुः पितुः पितरः,
एतत्ते पितुः पितुस्तत
इत्य्-आदि।
मातामहादीनां, तत्पत्नीनां “यन्मे मातुः पितुर्माता” इत्यादि ।
अतो ऽन्येषां पुंसां मातुलादीनां “यद् यज्ञशर्मणो माता” इत्य्-आदि।
पितृव्य–तत्-पत्न्योः “यन् मे पितुर् माता” इत्य्-आदि।
भ्रातृ–तत्-पत्न्योः भार्या-पुत्रयोः स्नुषायाश् च “यन् मे माता” इत्यादि।
भर्तुः “यन् मे भर्तुर् माता” इत्य्-आदि।
भगिनी–मातृ-ष्वसृ–पितृ-ष्वसृ–मातुलान्य्-आदीनां
“यच् छ्री-नाम्न्याः भर्तुः माते"त्यादि।