०९ दशम-दिन-कृत्यानि

प्रभूत-बलिः

अथ दशमेऽहनि
महती प्रेतस्य क्षुद् भवति ।+++(5)+++
तन्-निवृत्त्य्-अर्थं
नित्योदक-दानादेः पूर्वं प्रभूतबलिं
पश्चाद् वा कुर्यात् ।

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य महाक्षुन्निवत्त्यर्थं प्रभूतबलिप्रदानं करिष्ये,

इति सङ्कल्प्य
कुण्डस्य पश्चात् दक्षिणतः दर्भान् संस्तीर्य,
तेषु पूर्ववत् तिलोदकम् उत्सिच्य,
तेषु

अमुक-गोत्राय अमुक-शर्मणे प्रेताय एतं प्रभूतबलिं ददामि

इति एतानि नाना-व्यञ्जन-पृथुकापूप-फलानि +++(दत्वा)+++
‘उपतिष्ठ’ इत्य् उपस्थाय,

[[31]]

उत्थापनम्

तद्-उपरि पूर्ववत् तिलोदकम् उत्सृज्य (सिच्य)
तत् सर्वं पिण्डवत् अप्सु प्रक्षिप्य, स्नात्वा,

अमुक-गोत्र अमुक-शर्मन् प्रेत
अस्मात् पाषाणाद् उत्तिष्ठ

इति पाषाणम् उत्थाप्य
वस्त्रेणाच्छाद्य,
कुण्डे यवान् प्रक्षिप्य,
मृद्भिः पूरयित्वा
तीर-कुण्डे ऽप्य् एवं कृत्वा
पाषाण-द्वयं पिण्डवत् अप्सु प्रक्षिप्य
स्नायात् ।

सर्वाङ्ग-वपनादि

ततो ज्ञातयः कर्ता च सर्वाङ्ग-वपनं कुर्युः ।

शुक्रवारे वपननिषेधः

दशमेऽहनि शुक्रवासरश् चेत् ज्ञातयः पूर्वेद्युः
पुत्रास्तु तस्मिन्नेव दिने वापयेयुः ।

प्रतिदिनम् उदक-दानं कर्तुम् अशक्ताः ज्ञातयः
दशमेऽहनि कनिष्ठपूर्वं सर्वाङ्गवपनं कृत्वा
त्रिंशद्-वास-उदकानि,
पञ्च-सप्तति-तिलोदकानि च दद्युः ।

दशाहादौ पित्रोर् मरणे

मातुर्दशाहमध्ये तद्-दीक्षायां वा पितृमरणे न वपनम्।
पितुर् द्वा-दशाहमध्ये तद्-दीक्षायां वा मातृ-मरणे वपनं, मातृदीक्षान्तं केशधारणम् ।

शान्तिहोमः


दशमेऽहनि वपनानन्तरं
ग्राम-श्मशानयोर् मध्ये,
तत्रासम्भवे, यत्र कुत्रापि वृक्षमूले वा,
यज्ञोपवीती
“शान्तिहोमं करिष्ये” इति सङ्कल्प्य,
लौकिकाग्निं प्रतिष्ठाप्य,
प्राग्-उदगग्रैः दर्भैः परिस्तीर्य,

अग्नेः पश्चात् लोहितं चर्मानडुहं,
तद्-अभावे तदाकारं मृग-चर्म च (वा) आस्तीर्य,
तस्मिन् वेतस-मालिनः ज्ञातीन्, ‘आरोहतायुर् जरसम्’ इति कनिष्ठपूर्वम् आरोप्य,
‘यथाहान्य् अनुपूर्वम्’ इति तान् ज्येष्ठ-क्रमान् कल्पयित्वा

आज्यं वारण-दर्व्यौ च प्रतिलोमं संस्कृत्य,
तूष्णीं समन्तम् अप्रदक्षिणम् अग्निं परिषिच्य,

‘न हिते’ ‘अपनश् शोशुचद् अघम्’ इति द्वाभ्यां
चतुर्-गृहीतं दर्व्या मूलेन हुत्वा
(सकृत् गृहीत्वा) “अप नस् सुक्षेत्रिया”, “प्रयद्भन्दिष्ठः”, ‘प्रयदग्नेः’, ‘प्रयत्ते अग्ने’, ‘त्वँ हि’ द्विषो’ “नस्सनस्सिन्धुम् आपः”, “प्रवणाद् उद्वनाद् उदकानी"ति दशभिश्च+++(=??)+++ हुत्वा,
अत्र प्रतिस्वाहा-कारं कस्मिंश्चित् पात्रे हुतशेषम् आज्यं निनीय,
दर्व्यौ प्रहृत्य,
पूर्ववद् अग्निं परिषिच्य,

[[40]]

अग्नेर् उत्तरतः लोहितम् अनड्वाहं प्राङ्-मुखम् अवस्थापयेत् ।
ततो ज्ञातय कनिष्ठपूर्वम् ‘अनड्वाहम् अन्वारभामहे’ इत्य् अन्वारभ्य
“इमे जीवे” इत्येतया अनडुहा सह
प्राचीं दिशं गच्छेयुः ।

पश्चाद् गच्छन् कर्ता
वेतस-शाखाम् अप्य् एकां च सह गृहीत्वा,
ताभ्याम् अनडुह्-पदानि “मृत्योः पदम्” इति (एतया) मार्जयन् गत्वा
ज्ञातीन् प्रस्थाप्य

“जीवतां मृतानाम् अन्तरं भवेत्” इति मनसा ध्यात्वा
ज्ञातिभ्यो दक्षिणतः
“इमं जीवेभ्यः” इत्य् अश्मानं स्थापयित्वा,
पात्रस्थं सम्पाताज्यं ज्ञाति-स्त्रीणाम् अञ्जलिषु
“इमा नारीर्” इति निनयेत् ।
तास् तेन मुखे विमृज्य,
“यदाञ्जनम्” इत्य् अक्षिण्य् आञ्जनम्।

अथ कर्ता, “यथा त्वम् उद्भिनत्सी"ति
पृथिव्याम् ओषधी-स्तम्बं प्रतिष्ठाप्य, दीप-हस्ताः त्रिर् अग्रतः प्रस्थाप्य,

आनन्दहोमः

तत्र वा गृहोत्तर-पूर्व-देशे वा,
“आनन्द-होमं करिष्ये”, इति सङ्कल्प्य,
पूर्ववत् परिषेचनान्तं कृत्वा,

“आनन्दाय” “नवै तत्र”, इति द्वाभ्यां
वारण-दर्व्या अग्रेण चतुर् गृहीतं हुत्वा,
सर्व-प्रायश्चित्तम् “अनाज्ञातम्” इत्यादिभिश्च हुत्वा,
दर्व्यौ प्रहृत्य,
पूर्ववत् परिषिच्य,
अग्निम् उपस्थाय
पुण्याहं वाचयित्वा,

यवोदनं व्रीह्योदनं वा ज्ञातिभिस् सह “यवोऽसी"ति भुञ्जीत ।