०८ आ-दशम-दिन-कृत्यानि

वासउदक-तिलोदके

आवाहनान्तम्


नव-वासस् तिलान् दर्भान् कुम्भं च संस्कृत्य
तीर्थं गत्वा
हस्तौ पादौ च प्रक्षाल्य,
वस्त्रं संशोध्य
तीर्थ-तीरे कुण्डं खात्वा,

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
वासउदक-तिलोदक-प्रदानार्थं पाषाण-स्थापनं करिष्ये

इति सङ्कल्प्य
दर्भ-वेष्टितं पाषाणं कुण्डे निधाय
तस्मिन् “अमुक-गोत्रम् अमुक-शर्माणं प्रेतम् आवाहयामि”
इत्यावाहयेत् ।

ज्ञाति-वपन-स्नाने

ततो ज्ञातयः कनिष्ठ-प्रथमाः
कण्ठाद् उपरि वपनं कृत्वा स्नात्वा

उदक-दानानि

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य वासउदक-तिलोदक-प्रदानानि करिष्ये

इति सङ्कल्प्य
एक-वाससो दक्षिणाभि-मुखाः
सकृद् उपमज्य उत्तीर्य

[[23]]

अमुक-गोत्राय अमुक-शर्मणे प्रेताय एतद्-वास-उदकं ददामि

इति त्रिगुणीकृतं स-दर्भं नववासः सव्योत्तराभ्यां पाणिभ्यां पीडयित्वा
पुनरेव निमज्य
वासः पीडयित्वा
पुनरेव निमज्य
वासः पीडयेयुः ।
अशक्तौ युगपद् एव त्रिः निमज्य
वासः पीडयेयुः ।

अमुक-गोत्राय अमुक-शर्मणे प्रेताय
एतत्तिलोदकं ददामि

इति त्रिस्त्रिः तिलोदकाञ्जलीन् दद्युः ।

अथ कर्ता पूर्वोक्त-प्रकारेण सङ्कल्प्य
वास-उदक-तिलोदकानि दद्यात् ।

एवम् अहर् अहः आ-दशाहाज् ज्ञातयः कर्ता च
त्रिः वास-उदकं दत्वा
पूर्व-दिनात् उत्तरोत्तर-दिनेषु एकैकाधिकान् तिलोदकाञ्जलीन् दद्युः ।

दशाह-मध्ये दर्श-सङ्क्रान्ति-विषयः

… दशाह-मध्ये दर्श-सङ्क्रान्त्योः अन्यतर-सम्भवे
पुत्रेतरः दशाहान्तः-कर्तव्योदक-पिण्डैकोत्तर-वृद्धि-श्राद्धान्य् आकृष्य
दर्शान्त्य-यामात् पूर्वं, सङ्क्रान्ति-समयात् पूर्वं वा कुर्यात् ।

त्रयोदशी-कला-मात्र-युक्त-दिने मरणे ऽप्य् एवं,
दिनद्वये दर्शसम्भवे मध्याह्न-व्याप्त-दर्श-युक्त-दिने वा
दर्शश्राद्धदिने वा कुर्यात् ।
दर्शात् पूर्वम् एव पुत्राः तद्-इतरे च सञ्चयनं कुर्युः ।

दर्शात् सङ्क्रान्तेः परं वा आरभ्य कुर्यात् ।

दर्शात् पूर्व-समापने ऽपि
प्रभूत-बलि–पाषाणोत्थापने दशम-दिन एव कुर्यात् ।

[[34]]

नव-श्राद्धानि तत्-तद्-दिनेष्व् एव कुर्यात् ।

पुत्रस् तु दशाहम् एव कुर्यात् ।
ज्ञातयस् तु दर्श-सङ्क्रमयोर् एव उदकं दद्युः ।
सर्वत्र वपन-पूर्वकम् एव उदक-दानं कुर्युः ।+++(4)+++

पिण्ड-बलि-प्रदानम्

… अथ कर्ता स्नात्वा
जलपूर्णं कुम्भम् आदाय
गृहं गत्वा,
स्वयं चरुं श्रपयित्वा, अभिघार्य, उद्वास्य, पुनर् अभिघार्य,

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
वास-उदक-पिण्ड-बलि-प्रदानार्थं
पाषाणस्थापनं करिष्ये

इति सङ्कल्प्य,
पूर्व-खानिते कुण्डे
दर्भ-वेष्टितं पाषाणं निधाय
तस्मिन् पूर्ववत् प्रेतम् आवाह्य
त्रिर् वास-उदकं दत्वा,

[[25]]

अमुक-गोत्रस्य, अमुक-शर्मणः प्रेतस्य पिण्ड-बलि-प्रदानं करिष्ये,

इति सङ्कल्प्य
कुण्डस्य दक्षिणतः पश्चाद् वा, दर्भान् संस्तीर्य,
तेषु, “मार्जयतां मम पिता प्रेत” इति तिलोदकम् उत्सृज्य,
फल-मूल-गुड-शाक-दधि-क्षीर-घृतेषु यद्-दश-दिनं लभ्यते, तेन सह
तिल-मिश्रम् अश्व-खुर-प्रमाणं पिण्डम्,
अङ्गुष्ठ-पर्व-मात्रं बलिं च

अमुक-गोत्राय अमुक-शर्मणे प्रेताय +एतं पिण्डं ददामि

इत्य्

एतं बलिं ददामि

इति दर्भेषु दत्वा
उत्थाय, अञ्जलिं बद्ध्वा,

अमुक-गोत्र अमुक-शर्मन् प्रेत
एतं पिण्डम् उपतिष्ठ,
एतं बलिम् उपतिष्ठ

इत्य् उपस्थाय
गन्ध-पुष्प-धूप-दीपान् दत्वा

चरु-स्थालीं प्रक्षाल्य,
तिल-मिश्रेणोदकेन पिण्डम् अ-प्रदक्षिणं परिषिच्य
शेषं पिण्डोपरि पूर्ववद् उत्सृज्य

अन्येन अन्नेन वायसेभ्यः बलिं दत्वा
अप्सु दक्षिणा-मुख आकाशे ऊर्ध्वं पिण्डम् उत्क्षिप्य,

एकोत्तर-वृद्धि-श्राद्धम्

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
एकोत्तर-वृद्धि-श्राद्धानि आम-रूपेण करिष्ये

इति सङ्कल्प्य,

अमूनि आमरूपाणि एकोत्तर-वृद्धि-श्राद्धानि
श्रोत्रियेभ्यः ब्राह्मणेभ्यः सम्प्रददे

इति तिलोदकम् उत्सृज्य
त्रीणि श्राद्धानि स-दक्षिणानि ब्राह्मणेभ्यो दद्यात् ।

एवम् अहर् अहः आ-दशाहात्
द्वादश-उदक-पिण्ड-बलि-प्रदानं,
यस्मिन् दिने यावन्ति तिलोदकानि
तस्मिन् दिने श्राद्धानि दद्यात् ।

नव-श्राद्धम्

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य नवश्राद्धम् आमरूपेण करिष्ये,

इति सङ्कल्प्य,

एतन्नवश्राद्धं यस्मै कस्मै श्रोत्रियाय सम्प्रदद

इति तिलोदकम् उत्सृज्य,
प्रथम-दिनाद्येकादश-दिनान्तेषु षट्सु विषमदिनेषु
एकैकं नव-श्राद्धं दद्यात् ।

[[26]]

स्नानीय-पानीये

कुण्डोपरि शिक्ये+++(=कुम्भ-रक्षा-पाशे)+++
मृण्मये पात्र-द्वये

अमुक-गोत्रामुक-शर्मन् प्रेत स्नाहि

इति
“जलं पिब” इति क्षीरं च
पृथक् प्रतिदिनं प्रथमदिने वा स्थापयेत् ।

पिण्डादि-परिष्काराः

काकादिपक्षिस्पृष्टे विदीर्णे वा पिण्डे ।

काकादिपक्षिस्पृष्टे विदीर्णे वा पिण्डे पुनः पिण्डं दद्यात् ।

शुना शूद्रेण वा स्पृष्टे पिण्डे

शुना शूद्रेण तद्व्यतिरिक्तजन्तुभिर्वा स्पृष्टे कृच्छ्रत्रयं कृत्वा पुनः पिण्डं दद्यात् । फलमूलादिकं प्रथमदिने यत् द्रव्यं तेनैव आदशाहं पिण्डं दद्यात् ।

चरुपात्रविपर्यासे

द्रव्याभावे चरुपात्रविपर्यासे वा पूर्वदत्तपिण्डबलीन् पुनः दद्यात् ।

वासोविपर्यासे

वासोविपर्यासे पूर्वदत्तवासउदकानि ।

कुम्भविपर्यासे

कुम्भविपर्यासे पूर्वदत्ततिलोदकानि ।

तीर्थ-तीर-कुण्ड-विपर्यासे

तीर्थतीरकुण्डविपर्यासे पूर्वदत्तवासउदकानि ।

[[27]]

गृह-द्वार-कुण्ड-विपर्यासे

गृहद्वारकुण्डविपर्यासे पूर्वदत्तवासउदकपिण्डबलिश्राद्धानि दद्यात् ।

कर्तृ-विपर्यासे

कर्तृ-विपर्यासे पूर्व-दत्त-वास-उदकादि-श्राद्धान्तानि पुनः दद्यात् ।

तीर्थ-तीर-कुण्ड-स्थापितस्य पाषाणस्य नाशे
अन्यं पाषाणम् ‘आयातु देवः सुमताभिः’ इति कुण्डे स्थापयित्वा,
‘यमाय सोमं’ इति लोकिकाग्नौ हुत्वा पूर्वदत्तवासउदकानि श्राद्धान्तानि पुनः दद्यात् ।

गृहद्वारस्थापितस्य पाषाणस्य नाशे

पूर्ववत् पाषाणान्तरस्थापनं होमं च कृत्वा पूर्ववत् दत्तवासउदकादीनि पुनर्दद्यात् ।

पाषाणान्तरे स्थापिते नष्ट-पाषाण-दर्शने

“यमे इव यतमाने” इति
तच्च तत्रैव स्थापयेत्।

देशविप्लवे

देशविप्लवे स्थापितं पाषाणं गृहीत्वा
देशान्तरं गत्वा
तत्र तत् स्थापयित्वा
पूर्वदत्त-वास-उदकादीनि श्राद्धान्तानि पुनः दद्यात् ।

अथवा दशाहान्त-कृत्यम् आकृष्य, समाप्य, देशान्तरं गच्छेत् ।

मध्ये पितृ-मरणे

मध्ये पितृ-मरणे
पितुः द्वादशाहे
मातुः त्रिपक्षे च
स-पिण्डी-करणं कुर्यात् ।

[[28]]