ज्ञाति-स्नानम्
ततो ज्ञातयः
‘उद्वयं तमसस्परि’ इति “तरणिः” इत्यनुवाकेन च आदित्यम् उपस्थाय,
श्मशानम् अनवेक्षमाणा उदकान्तं गत्वा
केशान् प्रकीर्य,
मूर्धसु अंसेषु च पांसून् प्रक्षिप्य
‘धाता पुनातु सविता पुनातु’, इत्येतया
‘ईयुष्टे ये’ इत्य् अनुवाकेन च
प्रवाहोदकेन स्नानं कुर्युः ।
[[20]]
प्रेत-वहन-प्रायश्चित्तम्
यदि अज्ञातयः प्रेतं वहेयुः
ते सभां प्रदक्षिणीकृत्य, प्रणम्य, अनुज्ञाप्य,
दिवा चेत् आ नक्षत्रोदयात्,
रात्रौ चेत् आसूर्योदयात्
ग्रामाद् बहिः वसित्वा+++(=उषित्वा)+++,
पञ्चगव्यं प्राश्य
कृच्छ्रं पादं चरेयुः ।
ज्ञातयश् चेत् बहिर्-वास-मात्रं कुर्युः ।
शृङ्गि-दंष्ट्र्य्-आदिभिः मारित-शव-स्पर्श-वहन-दहन-कर्तारः ज्ञातयः कृच्छ्रम्,
अज्ञातयः कृच्छ्रत्रयं च कुर्युः ।
पर्युषित-सूतिका-रजस्वला-गर्भिणी-प्रेत-वहने
ब्राह्मणान् अनुज्ञाप्य
पञ्चगव्यं प्राश्य गोग्रासं दत्वा,
यथाशक्ति गायत्रीं जपित्वा,
पुण्याहं वाचयित्वा,
तेन जलेन आत्मानं प्रोक्ष्य,
नूतनम् उपवीतं धृत्वा
पुरातनं परित्यजेत् ।
बहिर् वासः उभयोः समानः ।
यतीन्द्रानाथ-प्रेत-वहने
सद्यश्-शुद्धिः महाफलं च ।+++(5)+++
दर्शन-प्रत्यागमनादौ स्नानादि
अनुगन्तारः वाहकाश् च
त्रयोदश-वारं निमज्य
अग्निं स्पृष्ट्वा
घृतं प्राश्य
शुष्क-वस्त्रं परिधाय
पुनः स्नात्वा
प्राणायामान् कुर्युः ।
घृताग्न्य्-अभावे
अनाथानुपनीतानूढानां वहने
ऽनुगमने वा
स-व्याहृत्या गायत्र्या दशवारम् अभिमन्त्रित-चुलक-मात्र-जलं पिबेयुः ।
स्त्रीषु स्नात्वा ग्रामं प्रविष्टासु
दाहकेन विना ग्रामं प्रविशेयुः ।
कपाल-दहनात् परं सपिण्डानां,
धूम-दर्शनात् परम् अनुगन्तॄणाम्
इति तेषां समाप्ते कर्मणि
प्रणम्य अनारब्धे वां स्नानम् ।
श्मशानं गता
अ-स्नात्वा ग्रामं न प्रविशेयुः ।+++(5)+++
अलङ्कृतस्य उह्यमानस्य वा द्विज-प्रेतस्य दर्शने
सचेल-स्नानम् ।
[[21]]
शूद्र-प्रेतस्य दर्शने त्व् आचमनम् ।
शव-स्पृष्टी यदा विण्-मूत्रे विसृजेत्,
तदा श्रोत्राचमनं कृत्वा
स्नानानन्तरम् आचामेत् ।
मृतस्य बन्धुभिस् सह परिदेवने अनुगमने वा कृते,
तद्-अहोरात्रं श्राद्ध-भोजनं जप-होमादीन् न कुर्यात् ।+++(4)+++
दिवा सूर्यं, रात्रौ चेत् चन्द्रं दृष्ट्वा
घृतं प्राश्य
पुनः स्नात्वा
कर्म कुर्यात् इत्य् एके ।
तथापि देवताराधनं श्राद्धभोजनं च वर्जयेत् ।
सञ्चयनात्-पूर्वं परिदेवने स्नायात् ।
तद्-ऊर्ध्वम् आ-दशाहात् आचामेत् ।
वपनम्
रात्रौ नव-नाडिकासु ब्राह्मणेभ्यो यथाशक्ति दत्वा,
प्रणम्य, अनुज्ञाप्य, दाहोदक-पिण्डदानं वपनं च कुर्यात् ।
पुत्रेतरे परेद्युः वापयेयुः ।
इति पञ्चमः खण्डः
नग्न-प्रच्छादन-श्राद्धम्
…
अथ कर्ता त्रयोदश-वारं निमज्ज्य
घृत-प्राशनादि–पुनः-स्नानान्तं कृत्वा
कण्ठात् उपरि वापयित्वा
स्नात्वा,
आर्द्रवासाः कनिष्ठपूर्वं ग्रामं प्रविश्य
गृहद्वारे नग्न-प्रच्छादन-श्राद्धं संस्कार-दिन एव कुर्यात् ,
न दिनान्तरे ।
अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
नग्नप्रच्छादनश्राद्धं करिष्ये
इति सङ्कल्प्य, दश-दिन-पर्याप्त-तण्डुल-पूर्णं वस्त्र-वेष्टितं कुम्भं
तद्-उपरि घृत-पूर्णं स-हिरण्यं कांस्य-पात्रं निधाय,
जल-पात्र-दीप-पात्र-दक्षिणा-ताम्बूल-सहितम्
इदं नग्नप्रच्छादनश्राद्धं तुभ्यम् अहं सम्प्रददे
इति कुलीनाय दरिद्राय श्रोत्रियाय दत्वा
गृहप्रवेशः
निम्ब-पत्त्राणि विदश्य, आचम्य,
अग्निम् उदकं गोमयं गौर-सर्षपं गां दूर्वां प्रवालम् अक्षतान् तैल-श्मशानमृदं च स्पृष्ट्वा,
गोमयोपलिप्तं सु-संमृष्टं सदीपं गृहं प्रविश्य,
यस्मिन् देशे प्राण अत्क्रान्ताः
तं देशं गोमयेन उपलिप्य,
तत्र दूर्वाक्षत-तण्डुलान् उदक-मिश्रान् प्रकीर्य
‘स्वस्त्यस्तु वो गृहाणां शेषं शिवं वो अस्तु’
इति तद् एवम् अभिमृश्य,
[[29]]
पाषाण-स्थापनम्
गृह-द्वारस्य दक्षिणे वामे वा पार्श्वे कुण्डं खात्वा
प्रत्यग्-द्वारां दक्षिण-द्वारां वा कुटीं कृत्वा
अलङ्कृत्य ,
सञ्चयनम्
कालः
दहन-दिनात् परेद्युः
मृताहात् दहनाद्वा चतुर्थदिने वा
दशाहात् सपिण्डी-करणाद् वा पूर्वं विषम-दिने वा
अस्थि-सञ्चयनं कुर्यात् ।
अवोक्षणं होमश्च
क्षीरम् उदुम्बर-शाखाम् आज्यं बृहती-फलं नील-लोहित-सूत्रे अश्मनः सिकताः कुम्भौ पालाशशाखे च सङ्गृह्य
ज्येष्ठ-क्रमेण श्मशानं गत्वा
अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य अस्थि-सञ्चयनं करिष्ये
इति सङ्कल्प्य,
क्षीर-मिश्रेण उदकेन उदुम्बर-शाखया
‘यन्ते अग्निम् अमन्थाम’ इति पञ्चभिः
प्रतिमन्त्रम् अस्थीनि अवोक्ष्य,
दहन-देशात् दक्षिणतः अङ्गारान् निरूह्य, प्रज्वाल्य, परिस्तीर्य,
आज्यं दर्वीं च संस्कृत्य,
परिषिच्य
वारणेन अन्येन वा पर्णेन
‘अवसृज पुनर् अग्ने सङ्गच्छस्व यत् ते कृष्ण’ इति त्रिभिः प्रतिमन्त्रं हुत्वा,
अयुग्मैः उदकुम्भैर् एकेन वा कुम्भेन
अशेषाणि अस्थीनि अवोक्षेत् ।
कुम्भे निधानम्
अथ यस्याः पुनः प्रसूतिः न स्यात्
सा विधवा स-धवा वा
प्रेतस्य पत्नी वा
सव्ये हस्ते नील-लोहित-सूत्राभ्यां बृहती-फलं बद्ध्वा
सव्येन पदा अश्मानम् आस्थाय
सव्यानामिकाङ्गुष्ठाभ्यां दन्तास्थि शिरोऽस्थि च
‘उत्तिष्ठातस् तनुवम्’ इत्य् आदाय
कुम्भे निधाय
[[30]]
अंसास्थि बाह्वस्थि च ‘इदं त एकम्’ इत्यादाय निधाय
पार्श्वास्थि श्रोण्यस्थि च ‘पर ऊत एकम्’ इत्यादाय निधाय
ऊर्वस्थि जङ्घास्थि च ‘तृतीयेन ज्योतिषा संविशस्व’ इत्यादाय निधाय,
पादास्थि ‘संवेशनस् तनुवै चारुरेधि प्रिया देवानां परमे सधस्थे’ इत्यादाय निदध्यात् ।
सर्वत्र नेत्रे उन्मील्य, अस्थीनि आदाय, उन्मील्य कुम्भे निदध्यात् ।
कुम्भ-निक्षेपः
ततः कर्ता सर्वाणि अस्थीनि आदाय
कुम्भे निधाय
भस्माभिसमूह्य
शरीराकृतिं कृत्वा,
प्रेतस्य क्षुन्-निवृत्त्य्-अर्थं पञ्च भक्ष्याणि दत्वा,
‘उत्तिष्ठ प्रेहि’ इत्य् अस्थिकुम्भम् आदाय
पालाश-मूले शमी-मूले वा गज-प्रमाणं पुरुष-प्रमाणं वा गर्तं खात्वा,
आज्येन गन्ध-तोयेन अस्थीनि सेचयित्वा,
गर्ते कुम्भं निधाय,
मृद्भिर् गर्तं पूरयेत् ।
अथवा वस्त्रेण, कुश-रज्ज्वा वा कुम्भं दृढं बद्ध्वा
गङ्गा-कावेर्य्-आद्यासु महा-नदीषु
प्रभासादिषु पुण्य-तीर्थेषु च प्रक्षिप्य,
कुम्भ-मज्जन-काले अघमर्षण-सूक्तं जपेत् ।
कुम्भ-निधान-देशात् दक्षिणत उत्तरतः
दीर्घान् त्रीन् गर्तान् खात्वा इत्यादि
स्नानान्तं प्रथम-दिनवत् कुर्यात् ।
अस्थीनां नाशे अस्पृश्य-स्पर्शे वा
श्व-गर्दभ-चण्डाले अस्थि-स्पर्शे
शुना शव-देह-भस्म-स्पर्शे च
पञ्च-गव्येन प्रक्षाल्य कृच्छ्र-त्रयं कुर्यात् ।
यदि अस्थि प्रवाह-गतं स्यात्
तद्-भस्म वा तद्-देशीयां मृदं वा अस्थि-स्थाने कृत्वा
सञ्चयनं कुर्यात् ।
स देशो वा नदी वा ह्रदो वा स्यात् -
तत्र गत्वा सञ्चयन-मन्त्रान् जपेत् ।
[[31]]
अग्नि-नष्ट-प्रायश्चित्तम्
यदि श्मशानाग्निः नष्टः स्यात्,
तदा
अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य श्मशानाग्निसन्धानं करिष्ये
इति सङ्कल्प्य,
‘अपहता असुराः’ ‘शन्नो देवीः’ इति द्वाभ्यां तद् भस्म प्रोक्ष्य,
‘अयन्ते योनिर् ऋत्वियः’ इति समिधि-भस्म समारोप्य,
‘आजुह्वान’ ‘उद्बुध्यस्व’ इति द्वाभ्यां लौकिकाग्नौ तां समिधम् आधाय,
प्रज्वाल्य परिस्तीर्य
आज्यं दर्वीं च संस्कृत्य, परिषिच्य,
‘अयाश्चाग्नेऽसि’ इत्येतया,
‘अग्निर्होता’ इत्यनुवाकेन एकाम् आहुतिं,
‘ब्राह्मण एकहोता’ इति दशभिः,
‘मनो ज्योतिः’, ‘यन्म आत्मनो मिन्दा’, ‘पुनरग्निः’ इति त्रिभिः,
‘भूर् अग्नये भूर् अन्नम् अग्नये भूर् अग्नये च’ इति द्वादशभिः व्यस्ताभिः
समस्ताभिः व्याहृतीभिः,
अनाज्ञातम् इत्यादिभिश्च हुत्वा,
पूर्ववत् परिषिच्य सञ्चयनं कुर्यात् ।
प्रेत-कार्याणि सर्वाणि मध्याह्ने कुर्यात् ।
पुनर्-दाहः
…
गृह्याग्नौ विद्यमानेऽन्ये ऽनाग्निना विधिवत् दाहे,
गृह्याग्निनापि अमन्त्रवद् दाहे, अङ्ग-वैकल्य-दाहे,
चण्डालादि-हते,
सञ्चयनम् अकृत्वा दशाहोदक-पिण्डासमापने,
एकादशाहे एकोद्दिष्टाकरणे च,
अस्थिभिः पुरुषाकृतिं कृत्वा
गृह्याग्निना श्मशानाग्निना वा
पुनर्दाहः कार्यः (संस्कारं कुर्यात्) ।
उभयोः अभावे अग्निम् उत्पादयेत् ।
अस्थ्य्-अभावे पालाश-वृन्तैः दर्भैः वा पुरुषाकृतिं कृत्वा
चत्वारिंशता शिरः, दशभिः ग्रीवां,
विंशत्योर-त्रिंशतोदरं,
पञ्चाशता पञ्चाशतैकैकं बाहुं, तेष्वेव पञ्चभिः पञ्चभिः अङ्गुलीः,
सप्तत्या एकैकं पादं, तेष्वेव पञ्चभिः पञ्चभिः अङ्गुलीः,
अष्टाभिः शिश्नं, द्वादशभिः वृषणं च कल्पयित्वा,
ऊर्णासूत्रेण सन्धिषु संवेष्ट्य,
अमुक-गोत्रम् अमुक-शर्माणं प्रेतम् अस्यां प्रतिकृतौ आवाहयामि
इत्यावाह्य,
स्नापयित्वा अलङ्कृत्य,
अग्निम् उत्पाद्य,
सङ्कल्प्य, पितृमेधं सर्वं कृत्वा,
तद्भस्म अस्थिस्थाने कृत्वा,
सद्यः-सञ्चयनं कृत्वा,
तद् भस्म जले प्रक्षिपेत् ।
[[38]]