०६ दाहः

श्मशान-देश-व्यवस्था

ततः कर्ता प्रत्येत्य

ऊषरामेध्यान्य-दाह-रहितं श्मशानदेशम्
आर्द्रया पलाश-शाखया शमी-शाखया वारण-शाखया वा
तासाम् अभावे बहु-पर्णया यया कयाचित् शाखया
‘अपेत वीत’ इति संहिता-पाठान्तं (त) संमृज्य
दक्षिणतः शाखां निरस्य

चितिर् अग्निश् च

अप उपस्पृश्य, उद्धत्य, अवोक्ष्य, हिरण्यशकलम् अवधाय,
दर्भान् संस्तीर्य,
दक्षिणाग्रैः याज्ञियैः काष्ठैः तुलसी-काष्ठ-संयुक्तैः शकृद्-एधोभिश् च
दक्षिणा-प्राचीं चितिं कृत्वा,

तत्-पुरस्ताद् अग्निं निधाय
अग्नि-चितिं च सह वा पृथग् वा परिस्तीर्य
अग्नेः दक्षिणतो दर्भान् संस्तीर्य,
तेषु दर्वीम्, आज्यस्थालीं, प्रोक्षणी-पात्रं च
दक्षिणा-प्राच्योर् (प्राञ्चि) एकैकशः सादयित्वा

शरीर-निधानादि

रज्जूः छित्वा
आसन्द्या एकैकं वंशम् अपनीय
यथा रज्जुषु प्रेतः शयीत, तथा कृत्वा

एक-पवित्रेण प्रोक्षणीः उत्पूय,

अङ्गुष्ठ-बन्धन-सूत्रे छित्वा,
प्रेतं पात्राणि चितिं च प्रत्येकं प्रोक्ष्य

आज्यं दर्वीं च संस्कृत्य,

‘सुवर्णं हस्तात्’ इति ‘देवस्य त्वा’ इत्यनुवाकेन च
सप्त-दशभिर् अनुषङ्गैः प्रत्यनुषङ्गं सुवर्णेन प्रेतस्य हस्तौ संमृज्य -

(तत्-प्रकारस् तु - ‘देवस्य त्वा’ इत्यादि “देवि दक्षिण” इत्यन्ते
“अग्नये हिरण्यम्” इत्यादि ।
द्वितीये तु

देवि दक्षिणे सोमाय वासः, ग्नास्त्वा कृन्तन्नपसस्त्वा तन्वत वरूत्रयस्त्वा वयम् । तेनामृतत्वमश्याम्

इत्यादि, अन्त्ये अनुषङ्गे तु
“देवि दक्षिणे वैश्वानराय रथं, वैश्वानरः प्रत्नथा नाकमारुहत्” इति वाक्यचतुष्टयान्ते
“तेनामृतत्वमश्याम्” इत्यादि “प्रतिगृह्णातु” इत्यन्तं सर्वत्र समानम् ।)

[[18]]

ततः प्रेतं दक्षिणा शिरसम् उत्तानं चितौ समारोप्य,

सप्त व्याहृतीं मनसा ध्यायन्,
सुवर्ण-शकलान् आज्य-बिन्दून् वा
आस्य-नेत्र-श्रोत्र-घ्राणेषु दक्षिण-सव्येषु
क्रमात् निक्षिपेत् ।

“सुवर्णं घर्मम्” इत्यास्ये

“ब्रह्मेन्द्रम्” इति दक्षिणे नेत्रे
“शतं नियुतः” इति सव्ये,

“सुवर्णं कोश” इति दक्षिणे कर्णे
“इन्द्रो राजा” इत्यनुवाक-शेषेण सव्ये,

“पुनश्च इन्द्रो राजे"ति दक्षिणे घ्राणे
तेनैव सव्ये घ्राणे च निक्षिपेत् ।

अथवा “सुवर्णं घर्मम्” इत्याद्यनुवाकान्तम् उक्त्वा
पूर्वोक्त-स्थानेषु क्रमात् निक्षिपेत्।

पितृमेधे तु सप्त व्याहृतीः ध्यायन्
पूर्वोक्तस्थानेषु तूष्णीं निक्षिपेत् ।

अथाज्यं मुखे निनीय
पादप्रभृति मुखपर्यन्तं सन्ततं शेषं निनीय
दक्षिणतः पात्रं निरस्य
दधि-मधु-घृत-तण्डुलान् आस्ये दत्वा,

ज्वालनम्

आदित्याभि-मुखः स्थित्वा,
“मैनम् अग्ने विदह”, “शृतं यदा” इति द्वाभ्यां
“ज्योतिष्मतीं त्वा सादयामि” इत्यनुवाकेन च
ज्वलद्-उल्के(मुके)न उरसि दहेत् ।

ततो निरवशेषम् अग्निम्
अप्रदक्षिणं प्रागादि-क्रमेण निक्षिप्य,

“सूर्यन्ते चक्षुः” इति,
“सहस्रशीर्षा”, “अद्भ्यः सम्भूत” इत्य् अनुवाकाभ्यां च
प्रेतम् उपस्थाय

उरस्-स्थम् अग्निं याज्ञियैः काष्ठैः तुलसी-काष्ठैश् च प्रज्वाल्य
चितेः पश्चात् प्राङ्-मुखः स्थित्वा
‘य एतस्य पथो गोप्तारः’ इति नवभिः ‘प्रयासाय स्वाहा’ इति द्वादशभिश् च
प्रति-स्वाहाकारं हुत्वा,
आज्य-स्थालीं दर्वीं च अग्नौ प्रहरेत् ।

[[19]]

नग्नं दहेत् ।
श्मशान-वासि-चण्डाल-म्लेच्छादिभ्यः शव-वस्त्रैकदेशं परित्यजेत् ।

अथ अग्नेः पश्चात् प्राङ्-मुख उपविश्य
‘प्रकेतुना’ इति नवभिः ऋग्भिः
“हरिँ हरन्तम्” इत्य् अनुवाकेन षड्भिश्च अर्धर्चैः अवसाय
ऋगन्तस्याचः तत्परयोर् व्यञ्जन-विसर्जनीययोश् च स्थाने त्रिमात्रं प्रणवम् उक्त्वा,
तेन उत्तरार्धर्चं सन्धाय (एकस्वरेण) शंसेत् ।

गर्तानि

ततः चितेः पश्चात् दक्षिणत उत्तरतो दीर्घान् त्रीन् गर्तान् खात्वा,
तेषु अश्मनः सिकताश् च प्रकीर्य,
कुम्भजलेन पूरयित्वा,
तेषु ज्ञातयः कनिष्ठपूर्वाः,
“अश्मन्वती रेवतीः” इत्य् अवतीर्य,
‘आप्यायस्व मदिन्तम’ इत्य् अनुवाकेन च अवगाह्य
गर्तानां पश्चात् पलाश-शाखे शमी-शाखे वा दक्षिणोत्तरे प्रतिष्ठाप्य
तयोः अग्रे दर्भमयेनाबलेन रज्जुना तोरणवत् बद्ध्वा
तयोः मध्ये “यद्वै देवस्य” इति निर्गच्छेयुः ।

पश्चात् गच्छन् कर्ता
“यद्वै देवस्य” इति मन्त्रं जपित्वा
‘या राष्ट्रात् पन्नात्’ इति भूमौ प्रतिष्ठिते शाखे उत्क्षिप्य
रज्जुं छित्वा
दक्षिणस्यां नैऋऋत्यां च दिशि पृथक् पृथक् परित्यजेत् ।

अनुमरणम्

अनुमरणे तु पत्नी स्नात्वा
ब्राह्मणेभ्यः यथाशक्ति दक्षिणां दत्वा,
तैर् अनुज्ञाता, प्रीता सिग्-वातैः उपवीज्य,
श्मशानं गत्वा,
चिति-गतं भर्तारं प्रदक्षिणीकृत्य,
प्रणम्य, चितिम् आरुह्य,
भर्तुः दक्षिणपार्श्वे शयीत ।

ततः कर्ता तां,
‘इयं नारी पतिलोकम्’ इति शाययित्वा,
आस्यादिषु हिरण्य-शकल-निधानादि-क्रियाः कुर्यात् ।