०५ दाहात् प्राक्

अग्निः

आत्मारूढाग्निमरणे

आत्मारूढाग्निमरणे (कर्ता) प्रेतस्य दक्षिणं हस्तं लौकिकाग्नौ अभितप्य

21 उपावरोह जातवेदᳶ ...{Loading}...

उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन्न् ।
आयु॑ᳶ प्र॒जाꣳ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।

इत्युपावरोहमन्त्रं जपित्वा, ‘उपघातप्रायश्चित्तं करिष्ये’ इति सङ्कल्प्य, परिस्तीर्य, आज्यं दर्वीञ्च संस्कृत्य ‘पुनस्त्वादित्याः’ इत्यग्निं प्रज्वाल्य सर्वप्रायश्चित्तम् अनाज्ञातत्रयेण (त्रयं च) हुत्वा संस्कुर्यात् ।

समित्समारोपणे

समित्समारोपणे च ‘आजुह्वान’ ‘उद्बुध्यस्व’ इति द्वाभ्यां लौकिकाग्नौ तां समिधम् आधाय पूर्ववत् उपघातप्रायश्चित्तं जुहुयात् ।

प्रेताग्निसन्धानम्

एवं कालद्वयहोमानतिक्रमे । तदूर्ध्वं प्रेताग्निसन्धानम् । विच्छिन्नाग्नेः तत्पत्न्या वा मरणे ‘प्रेताग्निसन्धानं करिष्ये’ इति सङ्कल्प्य, द्वादशगृहीतेन आज्येन सर्वप्रायश्चित्तं जुहुयात् । (हुत्वा) ‘अथाश्चाग्नेऽसि’ इत्येतया अनाज्ञातत्रयेण हुत्वा अतीतकालानुगुणं कृच्छ्रप्रतिनिधिद्रव्यं होमद्रव्यं च ब्राह्मणेभ्यः दत्वा सायमारभ्य आहुतिचतुष्टयं हुत्वा संस्कुर्यात् । पतितायां रोगिण्यामनिच्छन्त्यां प्रतिकूलायां वा भार्यायां दर्भैः भार्याप्रतिनिधिं कृत्वा प्रेताग्निसन्धानं कुर्यात् ।

[[4]]

भार्या-द्वय-मरण-विषयः

अथ यस्य द्वे भार्ये,
तस्य वा ज्येष्ठ-भार्याया (वा)
अग्नि-संसर्गात् परं मरणे
तेन संसृष्टाग्निना दाहः कार्यः ।

कनिष्ठ-पत्नी-मरणे
प्रयोग-चन्द्रिकोक्त-संसृष्टाग्नि-विभाग-प्रकारेण अग्निं द्वेधा विभज्य
दक्षिण-भागस्थं ज्येष्ठ-भार्याया
उत्तर-भागस्थं कनिष्ठायाश् च विनिर्दिश्य
पृथक् पृथक् पूर्णाहुतिं हुत्वा
ज्येष्ठाया अग्निं शमयित्वा
कनिष्ठाया अग्निना तां दहेत् ।

युग-मरणे चैवं विभज्य तत्तदग्निना तां तां दहेत् ।

अग्नि-संसर्गात् पूर्वं तस्य मरणे
पूर्वोक्त-भार्या-द्वयाग्नि-संसर्ग-प्रकारेण अग्नि-संसर्गं कृत्वा
तेन दाहः कार्यः ।
ज्येष्ठाया अग्नौ कनिष्ठा विवाहहोंमे कृते त्रयाणामपि तेनैव दाहः कार्यः । विव हशेषहीमयी मध्ये दम्पत्योः अन्यतरमरणे, युगपत् मरणे वा तदैव शेषहीमान्तं कृत्वा तेनैवाग्निना दाहः कार्यः ।

विधुराद्य्-अग्नि-निर्णयः

यति-भार्या–विधुर-विधवा-कन्यानुपनीतोपनीतानाम्
अकृत-विवाहस्य स्नातकस्य च उत्तपनाग्निः,
यति-भार्यायाः प्रेताग्नि-सन्धानं वा
कन्या-बालकयोः तुषाग्निर् वा ।

ब्रह्मचारि–यति-भार्येतरेषां लौकिको वा ब्रह्मचारिणः कपालाग्निर्वा । दर्भमुष्टित्रयेण क्रमात्प्रज्वलितः (प्रवर्तितः) उत्तपनाग्निः । तप्तकपालनिक्षिप्ततुषाज्जातः तुषाग्निः । कपालदहनात् जातः कपालाग्निः,

[[7]]

एवम् अग्नीन् उत्पाद्य प्रेतस्य दक्षिणपार्श्वे निधाय, ‘अयाश्चाऽसि’ इत्येतया, पुरुषसूक्तेन व्याहृतिभिश्च द्वादशगृहीतेन आज्येन हुत्वा, ततः संस्कुर्यात् ।

मरण-विशेषेषु कृत्यानि

प्रोषित-प्रायश्चित्तम्

प्रोषित-भार्यस्य प्रोषित-भर्तृकाया वा मरणे
प्रेताग्नि-सन्धानं सङ्कल्प्य
“अयाश्च"होमान्ते “सप्तते अग्ने”, सप्त-व्याहृतयः
‘पूर्वं देवा अपरेण’ ‘प्राणापानौ चक्षुः’ “मात्वा वृक्षौ सं बाधिष्टां”,
‘मा त्वा वृक्षौ सम्बाधेथाम्’, अग्नेऽभ्यावर्तिन्, अग्ने अङ्गिरः,
‘पुनरूर्जा निवर्तस्व सह रय्या निवर्तस्व’ इत्येताभिः
चतुर्गृहीतं हुत्वा
अनाज्ञात-त्रय-होमाद्य्-औपासनान्तं कृत्वा संस्कुर्यात् ।

रजस्वला-सूतिका-तद्-भर्तृ-मरण-प्रायश्चित्तम्

रजस्वलासूतिकयोः भर्तृमरणे प्रेताग्निसन्धानं सङ्कल्प्य अयाश्च होमान्तं कृत्वा ‘जातवेदसे सुनवाम, मनो ज्योतिर्जुषताम्’ इत्येताभ्यां ‘भूरग्नये च’ इति चतुर्भिः ‘तन्तुं तन्वन्’ ‘उद्बुध्यस्व’ ‘त्रयस्त्रिँशत्तन्तवः’ इत्येताभिः व्यस्ताभिः समस्ताभिः व्याहृतिभिः ‘अप पाप्मानं भरणीः’ ‘यस्मिन् नक्षत्रे’ इत्येताभ्यां चतुर्गृहीतं हुत्वा, अनाज्ञातम् इत्यादि पूर्ववत् कृत्वा संस्कुर्यात् ।

इति प्रयोगदर्पणे प्रथमः खण्डः ।

[[6]]

पर्युषित-प्रायश्चित्तम्

दिवा पञ्चविंशति-घटिकासु मृते तम् अस्तमयात् परं प्रेते स्थिते, ब्राह्ममुहूर्तात् पूर्वं मृते उदयात् परं स्थिते कृच्छ्रत्रयं कृत्वा, पञ्चगव्येन प्रक्षाल्य, पवमानेन अभिषिच्य,

यमो दाधार पृथिवीं यमाद्यामुतस्सूर्यः । यमः सर्वमृतुस्तेन प्राणानां वायुनाँ स्वाहा । उशन्तस्त्वा निधीमहि उशन्तस्समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवे स्वधा नमस्स्वाहा । विश्वे देवस्य नेतुः मर्तो वृणीत सख्यं विश्वे राय इषुद्ध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा

इत्येताभिः,

[[8]]

व्यस्ताभिः समस्ताभिः व्याहृतीभिश्च तिलैः जुहुयात् ।

मरणसमये भयादिना जलमलोत्सर्गे पूतिगन्धे

मरण-समये भयादिना जल-मलोत्सर्गे(ण) (आर्द्री-)भूते
रोगादिना पूति-गन्धे वा
गोमय-वारिणा स्नापयित्वा
शुद्धजलेन प्रक्षाल्य
गन्धोदकेन सेचयित्वा
ब्राह्मणान् अनुज्ञाप्य
कृच्छ्रत्रयं कुर्यात् ।

क्रिम्युत्पत्तौ मशकदूषिते

क्रिम्युत्पत्तौ मशकदूषिते च मध्वाज्यगोमयवारिभिः स्नापयित्वा, शुद्धोदकेन प्रक्षाल्य, गन्धोदकेन सेचयित्वा गोदानं कृच्छ्रत्रयं कुर्यात् ।

दक्षिणायनकृष्णपक्षरात्रिमरणे

दक्षिणायने कृष्णपक्षे रात्रौ वा मरणे ता सूर्याचन्द्रमसा, उभावन्तौ, पती द्युमत्, विश्ववपरी, अस्य श्रवः, पूर्वापरम्, इत्येतैः षड्भिः चतुर्गृहीतप्रतिनिमित्तं जुहुयात् ।

सर्पाहते प्रायश्चित्तम्

सर्पाहते,
‘नमो अस्तु सर्पेभ्यः ये दोरोचने दिवः, या इषव’,
इति तिसृभिः चतुर्गृहीतं हुत्वा,
सुवर्णम् आर+++(=पित्तल)+++-कृत-सर्प-प्रतिमां गां च श्रोत्रियाय दद्यात् ।

[[8]]

पशुभिर् हते प्रायश्चित्तम्

पशुभिः हते आ गावो अग्मन्, इन्द्रो न इति द्वाभ्यां चतुर्गृहीतं जुहुयात् ।

दंष्ट्रिभिर् हते प्रायश्चित्तम्

‘दँष्ट्राभ्यां मलिम्लू जम्भ्यै, ये जनेषु मलिम्लवः’ इति द्वाभ्यां चतुर्गृहीतं जुहुयात ।

अप्सु मृते प्रायश्चित्तम्

अप्सु मृते ‘इमं मे वरुण’ ‘तत्त्वायामि’ इति द्वाभ्यां चतुर्गृहीतं जुहुयात् ।

अशनिहते प्रायश्चित्तम्

अशनिहते, ‘मूर्धानं दिवो अरतिम्’ इति चतुर्गृहीतं जुहुयात् ।

श्व-सूकर-सृगाल-कुक्कुट-गर्दभ-चण्डाल-सूतिकोदक्य्-आशौचादि-स्पृष्टस्य मरणे

श्व-सूकर-सृगाल-कुक्कुट-गर्दभ-चण्डाल-
सूतिकोदक्य्-आशौचादि-स्पृष्टस्य मरणे
पञ्चगव्यैः कुशोदकेन च स्नापयित्वा
प्रोक्षणैः प्रोक्ष्य
त्रीन् पञ्च षड्वा कृच्छ्रान् स्पृष्ट्य्-अनुगुणं कुर्यात् ।

मण्टप-गोपुरादिषु अकाम-मरणे

मण्टप-गोपुर-प्रासाद-हर्म्य-खट्वा-शय्यादिषु
अ-काम-मरणे कृच्छ्र-द्वयं,
बुद्धिपूर्वे कृच्छ्र-चतुष्टयं च कुर्यात् ।

[[10]]

मार्ग-वन-तटाकादिषु मरणे

मार्गवनतटाकनदीतीराङ्कणनिष्कुटाद्यनावृतप्रदेशे मरणे कृच्छ्रदशकं गोदानं ब्राह्मणभोजनं नारायणबलिं च कुर्यात् ।

शृङ्ग्य्-आदिभिर् अबुद्धिपूर्वमरणे

शृङ्गिदंष्ट्रिचोरान्त्यविद्युदशनिसर्पजलाग्निकुड्यक्रोधोद्वन्धनजनसंमर्दनाद्यबुद्धिपूर्वमरणे कृच्छ्रदशकं गोदानं ब्राह्मणभोजनं नारायणबलिं च कुर्यात् ।

शृङ्ग्य्-आदिभिः बुद्धिपूर्वमरणे

शृङ्ग्यादिभिः बुद्धिपूर्वमरणे अशीतिकृच्छ्रं नारायणबलिं च कृत्वा त्र्यहेण प्रेतक्रियाः कुर्यात् । एवम् उपनीतानाम् ऊढानां च प्रतिनिमित्तं प्रायश्चित्तं कृत्वा ततः संस्कुर्यात् ।

इति प्रयोगदर्पणे द्वितीयः खण्डः

गर्भिणी-मरणे

गर्भिण्याः षण्मासात् ऊर्ध्वं मरणे,
तां श्मशानं नीत्वा
हस्तसंमार्जनान्तं कृत्वा
तस्या उदरं वामतः स्वधितिना ‘हिरण्यगर्भः समवर्तताग्रे’ इत्युल्लिख्य गर्भम् उद्धृत्य,

यदि जीवति शिशुः ‘जीवतु मम पुत्रः दीर्घायुत्वाय वर्चसे’ इति तम् अभिमन्त्र्य
हिरण्यशकलम् अन्तर्धाय,
जलेन अभिषिच्य
ग्रामं नीत्वा,
‘यस्ते स्तनश्शशयो य’ इति मन्त्रेण स्तनं प्रदाप्य
सुरक्षितं कृत्वा

श्मशानं गत्वा
तदुदरे ‘शतायुधाय’ ‘ये चत्वारः’ ‘ग्रीष्मो हेमन्तः’ “इदुवत्सराय’ ‘भद्रान्नश्रेयः’ इति पञ्चभिः
‘प्रयासाय स्वाहा’ ‘प्राणाय स्वाहा’ ‘पूष्णे स्वाहा’ इत्यनुवाकत्रयेण
प्रतिस्वाहाकारं, षड्विंशतिभिश्च हुत्वा,
सूच्या सूत्रेण जठरं सन्धाय,
मृद्भस्मकुशगोमूत्रसहितैः जलैः संस्नाप्य
वस्त्रेण, आच्छाद्य चितिम् आरोप्य
अष्टकाधेनुं नीलधेनुं भूमिधेनुं च दत्वा
उत्तरं कर्म कुर्यात् ।

यदि शिशुः मृतः स्यात्
गोघृतेनाभ्यज्य अलङ्कृत्य
तस्याः पादप्रदेशे व्याहृत्या निरवनेत् ।

रजस्वला-सूतिकयोः मरणे

रजस्वलासूतिकयोः मरणे, ब्राह्मणान् अनुज्ञाप्य, शुद्धजलैः

[[12]]

पञ्चगव्येन कुशोदकैश्च पृथक् पृथक् स्नापयित्वा
‘यदति यच्चे’त्यादिभिः सप्तभिः, ‘कयानश्चित्र’ ‘अपो अस्मान्’ इति द्वाभ्याम्
‘आपो हिष्ठेति तिसृभिः’, ‘हिरण्यवर्णाम्’ इति चतसृभिः
पवमान इत्यनुवाकेन,
‘उदुत्तमम्’ इति वरुणसूक्तेन, पुरुषसूक्तादिभिश्च
अभिमन्त्रितेन कुम्भजलेन च स्नापयित्वा
पञ्चगव्येन योनिं प्रक्षाल्य,
वस्त्रान्तरेण आच्छाद्य,
प्राजापत्यकृच्छ्रं वारुणकृच्छ्रं तीर्थकृच्छ्रं च कृत्वा,

‘जातवेदसे सुनवाम’ ‘तामग्निवर्णाम्’ ‘अग्ने त्वं पारय’ ‘विश्वानि नः’ ‘पृतनाजितम्’ इति पञ्चभिः, ‘मनोज्योतिः’ इत्येतया गायत्र्या, ‘भूरग्नये चे’ति चतुर्भिः, ‘योस्य कौष्ठ्य’, ‘यमं गाये’ति द्वाभ्यां च हुत्वा संस्कुर्यात् ।

॥ इति प्रयोगदर्पणे तृतीयः खण्डः ॥

अथ ब्रह्म-मेध-प्रयोगः॥

कर्णे जपः

प्राण-संशये कर्ता गोमयेन उपलिप्तायां भूम्यां
दक्षिणाग्रान् दर्भान् संस्तीर्य
तेषु मुमूर्षुं दक्षिणा-शिरसं शाययित्वा,
‘आयुषः प्राणं सन्तनु’ इत्य् अनुवाकं तस्य दक्षिणे कर्णे जपेत् ।+++(5)+++

०७ सन्तत्याख्येष्टकामन्त्राः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

अग्निचयनशेषा इष्टकोपधानमन्त्राः, तत्र सन्तत्याख्येष्टकामन्त्राः

भास्करोक्त-विनियोगः

1-12 अतः परं द्वावनुवाकाव् अग्निकाण्डम् अग्न्यार्षेयम् । तत्र प्रथमायां चितौ द्वादश-संततीर् उपदधाति आयुषः प्राणं इत्याद्याः ॥

विश्वास-प्रस्तुतिः

आयु॑षᳶ प्रा॒णꣳ सन्त॑नु ।

मूलम्

आयु॑षᳶ प्रा॒णꣳ सन्त॑नु ।

भट्टभास्कर-टीका

आयुषो वयसो ऽवस्थितत्वाद्धेतोः प्राणं संतनु, संततमविच्छिन्नं कुरु । सति ह्यायुषि प्राणास्सन्तन्यन्ते तस्मादायुरेव तावत्संतनु ततः प्राणादिकमिति गम्यते ।

विश्वास-प्रस्तुतिः

प्रा॒णाद् अ॑पा॒नꣳ सन्त॑नु ।

मूलम्

प्रा॒णाद् अ॑पा॒नꣳ सन्त॑नु ।

भट्टभास्कर-टीका

सत्यपि प्राणे निश्शेषनिष्क्रमणभयादपानाविच्छेदः प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

अ॒पा॒नाद् व्या॒नꣳ सन्त॑नु ।

मूलम्

अ॒पा॒नाद् व्या॒नꣳ सन्त॑नु ।

भट्टभास्कर-टीका

तदुभयसद्भावे रसव्यापनाय व्यानप्रार्थना, अन्यथा शरीरधारणासिद्धेः ।

विश्वास-प्रस्तुतिः

व्या॒नाच् चख्षु॒स् सन्त॑नु ।

मूलम्

व्या॒नाच् चख्षु॒स् सन्त॑नु ।

भट्टभास्कर-टीका

ध्रियमाणेऽपि शरीरे चक्षुः प्रधानं करणमिति प्रार्थ्यते रूपग्रहणार्थम् ।

विश्वास-प्रस्तुतिः

चख्षु॑ष॒श् श्रोत्र॒ꣳ॒ सन्त॑नु ।

मूलम्

चख्षु॑ष॒श् श्रोत्र॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

नामग्रहणार्थं श्रोत्रप्रार्थना ।

विश्वास-प्रस्तुतिः

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाच॒ꣳ॒ सन्त॑नु ।

मूलम्

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाच॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

एतेष्ववस्थितेष्वपि वाङ्मनसाधीना व्यवहारस्थिति रिति प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

वा॒च आ॒त्मान॒ꣳ॒ सन्त॑नु ।

मूलम्

वा॒च आ॒त्मान॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

सर्वेषामेषामवस्थितौ आत्मा तन्त्रं इत्यत्र तस्य सन्तानप्रार्थना ।

विश्वास-प्रस्तुतिः

आ॒त्मन॑ᳶ पृथि॒वीꣳ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑ख्ष॒ꣳ॒ सन्त॑नु ।

मूलम्

आ॒त्मन॑ᳶ पृथि॒वीꣳ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑ख्ष॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

तस्य सन्ततस्य उपकारकत्वात् पृथिव्यादिसन्तानं प्रार्थयते ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑ख्षा॒द् दिव॒ ꣳ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

मूलम्

अ॒न्तरि॑ख्षा॒द् दिव॒ ꣳ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

भट्टभास्कर-टीका

एतेषां सर्वेषां उपकाराय सुवः आदित्यः प्रवर्तत इति तत्संतानमिति प्रार्थयते । देवानामपि संसारित्वात् । एवं अयं जीवादिरादित्यपर्यन्तः संसारप्रवाहोऽविच्छेदेन प्रवर्ततामिति प्रार्थयते ॥

इति पञ्चमे सप्तमोऽनुवाकः ॥

ब्रह्म-मेधे तु “ब्रह्म-विद् आप्नोति परं”, “भृगुर्वै वारुणिः” इत्यनुवाकौ च जपेत् ।

सङ्कल्पान्तम्

मृते ज्ञातयः केशान् विप्रकीर्य
स्वमूर्धसु अंसेषु च पांसून् प्रक्षिप्य
तर्जनी-मध्यमानामिकाभिः मूर्धसु अपहृत्य
प्रेतं घृतेन अभ्यज्य, संस्नाप्य
भगवद्-उपयुक्त-वस्त्र-गन्ध-पुष्पाद्यैः अलङ्कुर्युः ।

अथ कर्ता स्नात्वा
संस्कार-करणे स्वयोग्यता-सिद्ध्यर्थं सप्त पञ्च त्रीणि वा कृच्छ्राणि कृत्वा
मृतस्य पापानुगुणं ब्रह्म-दण्ड-द्रव्यं सभायां निधाय,+++(4)+++
प्रदक्षिणीकृत्य, प्रणम्य, तैः अनुज्ञातः,

अमुक-गोत्रम् अमुक-शर्माणम् अमुक-ं प्रेतम्
अमुक-ाग्निना पैतृ-मेधिक-विधिना / ब्रह्म-मेध-विधिना वा संस्करिष्यामि

इति सङ्कल्प्य

होमः

दक्षिणापवर्गम् उल्लिख्य
अग्निं प्रतिष्ठाप्य,
प्रज्वाल्य परिस्तीर्य

[[15]]

आज्यं दर्वीं च संस्कृत्य
प्रदक्षिणं परिषिच्य
अग्नेः पश्चात् दर्भेषु ‘सर्वस्य प्रतिशीवरी’ इति दक्षिणा-शिरसं प्रेतं शाययित्वा,
प्रेतान्वारब्धः ‘परे युवाँसम्’ इति, ‘चित्तिस्स्त्रक्’ इत्यादिभिः षड्भिः अनुवाकैश्च प्रति-स्वाहा-कारं हुत्वा,

शव-व्यवस्था

हस्ताङ्गुष्ठौ पादाङ्गुष्ठौ च पृथक् पृथक् श्वेत-सूत्राभ्यां बद्ध्वा
शिरसि नलद-मालाम् आबध्य,
(औदुम्बर्या) आसन्द्याम् उत्तानं प्रेतं निपात्य
‘इदं त्वा वस्त्रम्’ इति वस्त्रेण पत्तो-दशेनाखण्डितेन नवेन आच्छाद्य
प्रेतस्य पूर्वधृतं वस्त्रम् ‘अपैतदूह’ इति धृत्वा आचामेत् ।
तद्-वस्त्रम् आजरसम् अहश्-शेषं रात्रि-शेषं वा वसीत।

शवादि-वाहनम्

पूर्व-प्रतिष्ठिते ऽग्नौ जीव-तण्डुलान्(लं?) चरुं श्रपयित्वा
‘इमौ युनज्मि’ इति वाहकान् अनुमन्त्र्य,
तैः आदीयमानं प्रेतं ‘पूषा त्वेतश्त्त्यावयतु’ इति ‘भर्ता सन्’ इत्य् अनुवाकेन च अनुमन्त्रयेत् ।

अग्रे अग्निं प्रस्थाप्य
तत्-पश्चात् मुक्त-शिखः कर्ता गच्छेत् ।

ततः तिलान्, तण्डुलान्, चरुं, पालाश-शाखां, लोष्टान्, हिरण्य-शकलान्, आज्य-पात्राणि, दर्भान्, मेक्षणम्, अश्मनस्, सिकताः, उदकुम्भं च प्रस्थापयेत् ।
ततो वाहकाः निवीतिनः मौनिनश् च ग्रामानभि-मुखं प्रेतं निर्हरेयुः ।
ज्ञातयः ज्येष्ठ-क्रमेण पश्चात् गच्छेयुः ।
अन्ये च यथेष्टं पश्चाद् एव गच्छेयुः,
नाग्रे पार्श्वयोश् च ।

प्रेताग्नि-सम्भार-तृण-काष्ठानि ब्राह्मणैर् एव हारयेत् - न शूद्रैः ।

ग्राम-श्मशानयोः अन्तर्मा(रं मा)र्गं चतुर्धा कृत्वा
तत्राद्यं चतुर्थांशं गत्वा
दक्षिणा-शिरसं प्रेतं निधाय,
तस्य दक्षिणतः लोष्टेषु चरुं प्रतिष्ठाप्य
सर्वे ज्ञातयः द्वेधा केशान् विभज्य
दक्षिणान् केशान् आबध्य,+++(4)+++
सव्यान् विस्रस्य
दक्षिणान् ऊरून् आघ्नानाः
अधो-वस्त्राण्य् अवधून्वन्तः

[[17]]

कनिष्ठ-पूर्वम् ‘अपनश् शोशुचदघम्’ इति प्रेतं त्रिर् अप्रदक्षिणं परीत्य
सव्यान् केशान् आबध्य,

दक्षिणान् विस्रस्य
सव्यान् ऊरून् आघ्नानाः
अनवधून्वन्तः प्राचीनावीतिन एव ‘अपनश्शोशुचदघम्’ इति प्रेतं त्रिः प्रदक्षिणं कुर्युः ।

ततः मेक्षणेन चरोः तृतीयांशं लोष्टेषु सकृद् एव प्रक्षिप्य
मेक्षणेन लोष्टानि चरुं च त्रिः मिश्रयेत् ।
ततः वाहकाः प्रेतं निर्हरेयुः।

तैः आदीयमानं प्रेतं ‘पूषेमा आशाः’ इति, ‘भर्ता सन्’ इति च अभिमन्त्र्य,
अवशिष्टांश-त्रयस्य मार्गस्य चतुर्थांशं गत्वा
प्रेत-निधानादि पूर्ववत् कृत्वा
तत आदीयमानं प्रेतम् ‘आयुर् विश्वायुः’ इति ‘भर्ता सन्’ इति च अनुमन्त्रयेत् ।

पुनः अवशिष्टांश-त्रयस्य मार्गस्य चतुर्थांशं गत्वा
प्रेतनिधानादि पूर्ववत् कृत्वा

चरुस्थालीं कपालेषु यथोदकं न तिष्ठेत् तथा भित्वा
तत आदीयमानं प्रेतम् ‘आयुर्विश्वायुः’ इति ‘भर्ता सन्’ इति च अनुमन्त्रयेत् ।

ततो वाहकाः प्रेतं श्मशानं नीत्वा
दहन-देशस्य पश्चाद्-भागे निधाय
कर्त्रा सह उदीचीं दिशं गच्छेयुः ।

ग्राम-श्मशानयोः मध्ये शवाग्निपतने
ग्राम-श्मशानयोः मध्ये शवाग्न्योः अन्यतरस्य, उभयोः वा पतने
प्राजापत्यं कृच्छ्रं कृत्वा
‘परे युवाँसम्’ इति प्रेताहुतिम् आरभ्य पुनः कर्म कुर्यात्।
एक-देश-पतने तु तद् उद्धृत्य योजयेत् ।

इति प्रयोगदर्पणे चतुर्थः खण्डः

[[18]]