श्रीवैकुण्ठं गमिष्यन्तं पित्रादिं
शन्नो देवीः, आपो वा इदं द्रुपदादिव, आपो हिष्ठा मयोभुवः, ऋतं च सत्यं च, इत्येतैः मन्त्रैः संस्नाप्य
शुद्ध-वस्त्रोर्ध्वपुण्ड्र-पद्माक्ष-तुलसी-मालाः धारयित्वा
महद्-अवलोकनं कारयित्वा
तत्-पादोदकं सालग्राम-तीर्थं च प्राशयित्वा
शिरसि च प्रोक्ष्य
तुलसीं धारयित्वा
तत्-पापानुगुणं द्वादशाब्द-कृच्छ्रं षड्-अब्द-कृच्छ्रं त्र्यब्द-कृच्छ्रम् अब्द-कृच्छ्रम्
इति क्रमेण षष्ट्य्-उत्तर-शत-त्रयम् अशीत्य् अधिकशतं नवतिः त्रिंशद्
इत्य् एतेषां प्रतिनिधिं प्रतिकृच्छ्रं गोदानं
तन्-मूल्यं विंशति-माष-परिमाण-स्वर्ण-दानं
दश-माष-परिमाण-स्वर्णदानं वा पञ्चमाषपरिमितिस्वर्णदानं वा
षष्टि-ब्राह्मण-भोजनं चतुर्विंशति-ब्राह्मण-भोजनं वा द्वादश-ब्राह्मण-भोजनं वा
तावत्-पर्याप्तम् आमं (धान्यदानं) वा
तन्-मूल्य-दानं वा
अयुत-गायत्री-जपं वा
गायत्र्या तिल-होम-सहस्त्रं वा
प्राणायामशतद्वयं (अनशन) वेदपारायणम्
अहोरात्रम् उपवासं
द्वियोजन-तीर्थ-यात्रां
पुण्यतीर्थे द्वादश-वारम् अनार्द्र-वस्त्र-सशिरस्क-स्नानं
समुद्र-ग-नदी-स्नानं वा
कालानुगुणं शक्त्य्-अनुगुणं वा यत्किञ्चित्
(परिषद्)-अनुज्ञापूर्वकं कारयेत् ।
[[2]]
अशक्तौ स्वयं वा कुर्यात् ।
अत्यन्तासन्न-मरण-समये तु
भगवन्-नाम-कीर्तनम् एव कुर्यात् ।
न प्रायश्चित्तम् उपदिशेत् ।
उपदेशे तु मुमूर्षुः मनोव्याकुलतया हरि-कीर्तनं त्यजति;
तद्-उपदेष्टुश् च महान् दोषो भवति ।
तस्मात् भगवन्-नाम-सङ्कीर्तनम् एव कारयेत् ।
ततः गौः सवत्सा भोजन-पर्याप्ता भूमिः द्रोण-द्वय-परिमाणाः तिलाः,
निष्कत्रय-परिमाणं स्वर्णम्, आढक-परिमाणम् आज्यं,
सूक्ष्म-वस्त्र-द्वयं, सार्ध-रवारि+++(=४-द्रोणं)+++ धान्यं,
षष्टि-पलं गुडं, निष्क-चतुष्टय-परिमाणं रौप्यं, सार्ध-रवारि लवणम्
इत्येतानि दश दानानि
अन्न-पानाश्व-सालग्राम-दानानि शक्त्य्-अनुसारेण कारयेत् कुर्याद् वा ।
पुण्य-सूक्त–पुण्य-मन्त्राष्टाक्षर-द्वादशाक्षर–श्रीराम-षड्-अक्षर–प्रणवोपनिषदः पठेत् जपेच् च ।
मृतस्य पुनर्जीविते
…
प्राणवायौ केनचित् दोषेण नासाग्रवर्तिनि सति मृतवत् भविष्यति ।
तस्मात् न शीघ्रं प्रेतकर्म उपक्रमेत ।
यामं यामद्वयं वा अवलोक्य, पश्चाद् उपक्रमेत ।
अन्यथा ब्रह्म-हत्या भवति ।
तथा निश्चिते न विलम्बेत ।
शीघ्रं निर्हरेत् ।
स निर्हरणात् प्राक्
यदि जीवति
अग्नय आयुष्मते स्थालीपाकं कुर्यात् ।
आहिताग्निश् चेत् अग्नय आयुष्मते पुरोडाशम् अष्टाकपालं निर्वपेत् ।
यदि मार्गे श्मशाने वा जीवति
तत्-पित्रादिः तं घृत-कुम्भे निमज्ज्य
जात-कर्मादि कुर्यात् ।