नैयग्रोधौदुम्बराश्वत्थ-प्लाक्षेषु अन्यतम-दण्डं गन्ध-पुष्पालङ्कृतं वाससा सूत्रेण वा परिवेष्टितं निधाय, तस्मिन् विश्वावसु-गन्धर्वम् आवाह्य अभ्यर्च्य, दम्पत्योः शयन-कटे तयोर् मध्ये निदद्ध्यात् ।