१२ चौलम्

अथ चौलम्

स्नातं शुद्धकौपीनवस्त्रधरं धृतोर्ध्वपुण्ड्रं सुप्रक्षालितपाणिपादं स्वाचान्तं कुमारं दक्षिणत उपवेश्य, अङ्कुरार्पणप्रतिसराभ्युदयपुण्याहवाचनानि कृत्वा, अमुक-गोत्रममुकशर्माणं कुमारं चौलकर्मणा संस्करिष्यामीति सङ्कल्प्य, क्षारलवणवर्जं कुमारं भोजयित्वा, अग्निप्रतिष्ठादिपात्रप्रयोगान्ते शीतोष्णजले यवान् द्वादशदर्भान् आनडुहं शकृत्पिण्डं क्षुरं शलल्यादींश्च सादयित्वा आज्यभागान्ते कुमारेणान्वारब्धः, “धाता ददातु नो रयिं” “यस्त्वा हृदा” इति चाष्टावाहुतीः हुत्वा, जयाद्यग्न्युपस्थानान्ते अग्नेः पश्चात् प्राङ्मुखं कुमारमुपवेश्य, शलल्यादिना तस्य शिखार्थान् वप्तव्यांश्च केशान् पृथग्विभज्य, शलल्यादीन् पश्चान्निरस्याप उपस्पृश्य, “उष्णेन वायवुदकेनेह्यदितिः केशान् वपतु” इति उष्णजलं शीतजले निनीय,

आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे ।
ज्योक्च सूर्यं दृशे

इति कुमारस्य वप्तव्यान् केशान् तेन जलेन प्रागादिप्रदक्षिणं सेचयित्वा, त्रीन् दर्भान् पुरस्तात् केशेष्वन्तर्धाय,

येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदमस्यायुष्मान् जरदष्टिर्यथासदयं कृष्णशर्मा

इति सकेशान् दर्भान् छिनत्ति,

[[77]]

वपन्तमाचार्यं कश्चित् ब्रह्मचारी कुमारस्य माता वा दक्षिणत उपविश्य,

यत्क्षुरेण मर्चयता सुपेशसा वप्त्रा वपसि केशान् ।
शुन्धिशिरो मास्यायुः प्रमोषीः ।

इत्यनुमन्त्रयते अथाचार्यः सदर्भान् केशान् तद्धस्ते प्रदाय, दक्षिणतो दर्भान्केशेष्वन्तर्धाय

येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चायुषे वपत् ।
तेनास्यायुषे वप सौश्लोक्याय स्वस्तये ॥

इति दक्षिणतः केशान् छित्वा तद्धस्ते प्रदाय, पश्चात् केशेषु दर्भानन्तर्धाय,

येन भूयश्चरात्यसौ ज्योक्च पश्चाति सूर्यम् ।
तेनास्यायुषे वप सौश्लोक्याय स्वस्तये ।

इति छित्वा, तद्धस्ते प्रदाय, उत्तरतः केशेषु दर्भानन्तर्धाय

येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चायुषे वपत् ।
तेन ते वपामि शर्मन् आयुषा वर्चसा यथा ज्योक्सुमना असाः ॥

इति छित्वा प्रदाय, अप उपस्पृशेत् । ब्रह्मचारी माता वा तान्सर्वान् आनडुहे शकृत्पिण्डे यवान्विते निधाय,

उप्त्वाय केशान् वरुणस्य राज्ञो बृहस्पतिस्सविता सोमो अग्निः ।
तेभ्यो निधानं बहुधान्वविन्दन अन्तरा द्यावापृथिवी अपः सुवः

इत्युदुम्बरमूले दर्भस्तम्बे वा छादयेत् । ततः क्षुरं प्रक्षाल्य निदद्ध्यात्, तेन त्रिदिनं कर्म न कार्यम्, अथ नापितेनोप्तकेशं कुमारं संस्नाप्य, दक्षिणत आसीनाय ब्राह्मणाय गां दद्यात् । पितुरन्यश्चौलकर्ता चेत् तस्मै दद्यात् ॥