०६ जातकर्म

जाते पुत्रे दिवा नक्तं वा पिता सचेलः स्नात्वा, अमुक-गोत्रममुकनक्षत्रे जातं कुमारं जात(कर्म)कर्मणा संस्करिष्यामीति सङ्कल्प्य, वात्सप्रेणाभिमृशति ।

[[66]]

दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परिजातवेदाः ।
तृतीयमफ्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ।
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद्विद्मातमुथ्सं यत आजगन्थ ।
समुद्रे त्वा नृमणा अफ्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
तृतीये त्वा रजसि तस्थिवाँसमृतस्य योनौ महिषा अहिन्वन् ।
अक्रन्ददग्निः स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधस्समञ्जन् ।
सद्यो जज्ञानो विहीमिद्धो अख्यदारोदसी भानुना भात्यन्तः ।
उशिक्पावको अरतिस्सुमेधा मर्तेष्वग्निरमृतो निधायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छ्रुक्रेण शोचिषा द्यामिनक्षत् ।
विश्वस्य केतुर्भुवनस्य गर्भ आरोदसी अपृणाज्जायमानः ।
वीडुञ्चिदद्रिमभिनत्परायञ्जनायदग्निमयजन्त पञ्च ।
श्रीणामुदारो धरुणो रयीणाम्मनीषाणां प्रार्पणस्सोम गोपाः ।
वसोस्सूनुस्सहसो अफ्सु राजा विभात्यग्र उषसामिधानः ।
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्रतन्नय प्रतरां वस्यो अच्छाभिद्युम्नं देवभक्तं यविष्ठ ।
आ तं भज सौश्रवसेष्वग्न उक्थउक्थ आभज शस्यमाने ।
प्रियस्सूर्ये प्रियो अग्ना भवात्युञ्जातेन भिनददुञ्जनित्वैः ।
त्वामग्ने यजमाना अनुद्यून् विश्वा वसूनि दधिरे वार्याणि ।
तया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो विवव्रुः ।
दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतो अभवद्वयोभिर्यदेन्द्यौरजनयत्सुरेताः ।

इति कुमारमभिमृश्य, “अस्मिन्नहँ सहस्रं पुष्याम्येधमानः स्वे वशे” इति कुमारमङ्के निधाय,

अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्र नामासि स जीव शरदश्शतम् ।
अश्मा भव परशुर्भव हिरण्यमस्तृतं भव ।
पशूनां त्वा हिङ्कारेणाभिजिघ्रामि । नक्षत्र

इति द्वाभ्यां तममभिमन्त्र्य,

[[67]]

ताभ्यामेव तस्य मूर्धन्यवघ्राय, ते एव तस्य दक्षिणकर्णे जपेत् । अत्रासौ शब्दे अभिमन्त्रणावघ्राणजपेषु कुमारो यस्मिन्नक्षत्रे जातः तन्नक्षत्रनाम रहस्यं निर्दिशेत् - आश्वयुज-आपभरण-कृत्तिक-रौहिण-मार्गशीर्ष-आर्द्रक-पुनर्वसो-पुष्य-आश्रेष-माघ-पूर्वफाल्गुन-उत्तरफाल्गुन-हस्त-चैत्र-स्वाते-विशाख-अनूराध-ज्येष्ठ-मूलक-पूर्वाषाढ-उत्तराषाढ-श्रवण-धनिष्ठ-शतभिषक्-पूर्वप्रोष्ठपाद-उत्तरप्रोष्ठपाद-रैवत-इति । मधु घृतं च संसृज्य, तस्मिन् दर्भेण शिखाबन्धवत् सरन्ध्रेण ग्रन्थिना हिरण्यमवधाय, तेन तदादाय,

मेधां ते देवस्सविता मेधां देवी सरस्वती ।
मेधां ते अश्विनौ देवावाधत्तां पुष्करस्रजा ।
त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु,
त्वयि मेधां त्वयि प्रजां त्वयीन्द्र इन्द्रियं दधातु,
त्वयि मेधां त्वयि प्रजां त्वयि सूर्यो भ्राजो दधातु

इत्येतैः कुमारं प्राशयित्वा, “क्षेत्रियै त्वे”ति पञ्चभिः स्नापयित्वा,

क्षेत्रियै त्वा निर्ऋत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे ।
शन्ते अग्निस्सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः ।
शमन्तरिक्षँसह वातेन ते शन्ते चतस्रः प्रदिशो भवन्तु ।
या दैवीश्चतस्रः प्रदिशो वातपत्नीरभिसूर्यो विचष्टे ।
तासां त्वा जरस आदधामि प्रयक्ष्म एतु निर्ऋतिं पराचैः ।
अमोचि यक्ष्माद्दुरितादवर्त्यै द्रुहः पाशान् निर्ऋत्यै चोदमोचि ।
अहा अवर्तिमविदथ्स्योनमप्यभूद्भद्रे सुकृतस्य लोके ।
सूर्यमृतं तमसो ग्राह्या यद्देवा अमुञ्चन्नसृजन्व्येनसः ।
एवमहमिमं क्षेत्रियाज्जामि शँसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्

इति स्नापयित्वा दधि घृतं कांस्यपात्रे संसृज्य भूः स्वाहा, भुवः स्वाहा, सुवः स्वाहा, ओँ स्वाहा इति प्राशयित्वा, शेषमद्भिस्संसृज्य, अन्येन गोष्ठे निनीय्य,

[[68]]

अङ्कस्थं कुमारं

मा ते कुमारँ रक्षोवधीन्मा धेनुरत्यासारिणी ।
प्रिया धनस्य भूया एधमाना स्वे गृहे

इति कुमारं मातुरङ्के निधाय,

अयं कुमारो जरां धयतु दीर्घमायुः ।
यस्मै त्वँस्तन प्रप्यायायुर्वर्चो यशो बलम् ॥

इति तस्या दक्षिणं स्तनं पाययित्वा,

यद्भूमेर्हृदयं दिवि चन्द्रमसि श्रितम् ।
तदुर्विपश्यं माहं पौत्रमधँरुदम् ।
यत्ते सुसीमे हृदयं वेदाहं तत्प्रजापतौ ।
वेदामतस्य ते वयं माहं पौत्रमधँरुदम् ।

इति पृथिवीमभिमृश्य, अभिमृष्टायां पृथिव्यां तूष्णीं कुमारं संवेशयेत् । संविष्टं कुमारं -

नामयति न रुदति यत्र वयं वदामसि यत्रचाभिमृशामसि ।

इत्यभिमृश्य

आपस्सुप्तेषु जाग्रत रक्षाँसि निरितो नुदध्वम्

इति कुमारस्य शिरःप्रदेशे उदकुम्भं निधाय ॥