अथ जातकर्म
जाते पुत्रे दिवा नक्तं वा पिता सचेलः स्नात्वा अमुक-गोत्रम् अमुक-नक्षत्रे जातं कुमारं जातकर्मकर्मणा संस्करिष्यामीति सङ्कल्प्य ‘दिवस्परि’ इत्यनुवाकान्ते कुमारमभिमृश्य ‘अस्मिन्नह’मित्येतेन तमङ्के निधाय ‘अङ्गादङ्गात्’ इति द्वाभ्यामभिमन्त्र्य ताभ्यामेव तस्य मूर्धन्यवघ्रायते ताभ्याम् एव तस्य दक्षिणे कर्णे जपेत् । अत्रासावित्यस्य स्थाने अभिमन्त्रावघ्राणजपेषु कुमारः यस्मिन्नक्षत्रे जातः तन्नक्षत्रनाम रहस्यं निर्दिशेत् । आश्वयुज-आपभरण-कृत्तिक-रौहिण-मार्गशीर्ष-आर्द्रक-पुनर्वसो-पुष्य-आश्रेष-माघपूर्वफल्गुनी- उत्तरफल्गुनी-हस्त-चैत्र-स्वाती-विशाख-अनूराध-ज्येष्ठ-मूलक-पूर्वाषाढ-उत्तराषाढ-श्रावण-श्रविष्ठ-शातभिषज-पूर्वप्रोष्ठपाद-उत्तरप्रोष्ठपादरैवतेति ।
[[13]]
मधु घृतं च संसृज्य तस्मिन् दर्भेण शिखाबन्धवत् सरन्ध्रेण ग्रन्थिना बद्धं हिरण्यमवधाय तेनादाय ‘मेधां ते देवस्सविता’ इत्येतैः कुमारं प्राशयित्वा ‘क्षेत्रियै त्वा निरृत्यै त्वा’ इति पञ्चभिः स्नापयित्वा दधि घृतं च कांस्यपात्रे संसृज्य तेनैव पात्रेण ‘भूःस्वाहा, भुवः स्वाहा, सुवः स्वाहा, ओँ स्वाहा’ इति प्राशयित्वा शेषमद्भिः संसृज्य अन्येन गोष्ठे निनीय स्वाङ्कस्थं कुमारं ‘मा ते कुमारम्’ इत्येतया मातुरङ्के निधाय ‘अयं कुमार’ इत्येतया दक्षिणं स्तनं पाययित्वा ‘यद्भूमेः हृदयम्’ इत्येताभ्यां पृथिवीमभिमृशेत् । तस्यामभिमृष्टायां पृथिव्यां माता कुमारं संवेशयेत् । संविष्टं कुमारं ‘नामयति न रुदती’त्यनेन अभिमृश्य ‘आपः सुप्तेषु जाग्रत’ इत्यनेन कुमारस्य शिरःप्रदेशे उदकुम्भं निधाय अग्निं प्रतिष्ठाप्य परिस्तीर्य दर्वीवदञ्जलिं संस्कृत्य परिषिच्य फलीकरणमिश्रान् सर्षपान् ‘अयं कलिम्’ इत्यादिभिः अष्टाभिः प्रतिमन्त्रं स्वाहात्रयसहितं प्रतिस्वाहाकारम् अञ्जलिना चतुर्विंशतिवारं हुत्वा परिषिच्याग्निम् उपस्थाय तमग्निं सुरक्षितं कृत्वा सूतिकागृहस्य प्रवेशे प्रवेशेऽस्मिन् अग्नौ फलीकरणमिश्रान् सर्षपानञ्जलिना प्रक्षिपतेति सूतिकगृहपालकान् जनान् प्रेषयेत्, कालातिक्रमे नेदं सम्प्रेषणं नाग्निसंरक्षणं च ॥
॥ इति प्रयोगचन्द्रिकायाम् अष्टमः खण्डः ॥