०५ सीमन्तम्

अथ सीमन्तम्

संस्करिष्यामीति अमुक-गोत्राम् अमुक-नाम्नीं सीमन्तोन्नयनकर्मणा सङ्कल्प्य अग्निप्रतिष्ठादिपात्रसादनकाले त्रिषु प्रदेशेषु शुक्लवर्णां शललीं पिशाचोदुम्बरस्तबकं त्रीन् दर्भपुञ्चलान् सूत्रग्रथितान् विरूढान् यवांश्च सादयित्वा आज्यभागान्ते पूर्ववत् प्रधानाहुतीः हुत्वा जयाद्यग्न्युपस्थानान्ते अग्नेः पश्चात् प्राङ्मुखीं पत्नीमुपवेश्य प्रत्यङ्मुखस्तिष्ठन् शलल्यादीन् सह गृहीत्वा तैः पत्न्या शिरोमध्यरेखां ‘भूर्भुवस्सुवः’ ‘राकामहं’ ‘यास्ते राके’ इति द्वाभ्यामुल्लिख्य पश्चान्निरस्याप उपस्पृश्य ‘गायत’मिति वीणागाथिनौ सम्प्रेषयेत् । तौ च ‘सोम एव नो राजा’ इति गायेताम् । अत्र असावित्यस्य स्थाने यस्या नद्यास्तीरे वसन्ति तन्नाम सम्बुद्ध्या निविशेताम् । अथ सूत्रग्रथितान् यवान् पत्न्याश्शिरस्याबध्य आनक्षत्रोदयात् मौनी स्यात् । नक्षत्रेषूदितेषु प्राचीमुदीचीं वा दिशं गत्वा वत्समभिमृश्य व्याहृतीर्जपित्वा मौनं विसृजेत् ॥

कर्त्रन्तरम्

गर्भिण्या स्त्रिया
भर्तरि देशान्तरं लोकान्तरं वा गते पतिते वा
तस्याः पिता भ्राता वा अन्यो बन्धुः
श्रोत्रियागाराद् आहृते ऽग्नौ
पुंसुवनं सीमन्तं च कुर्यात् ।