०४ पुंसुवनम्

अथ पुंसुवनम्

पत्न्यां गर्भिण्यां द्वितीये तृतीये वा मासे पुंसुवनं, चतुर्थे षष्ठेऽष्टमे वा मासे सीमन्तेन सह वा पुंसुवनं कुर्यात् । प्रतिसरं बद्ध्वा अमुक-गोत्राममुकनाम्नीं भार्यां पुंसुवनकर्मणा संस्करिष्यामि इति सङ्कल्प्य अग्निप्रतिष्ठादिपात्रसादनकाले न्यग्रोधस्य या प्राच्युदीची वा शाखा तत आहृतं फलद्वयसहितम् अङ्कुरं दृषत्पुत्रद्वयं नवं वासश्च सादयित्वा आज्यभागान्ते पत्न्यान्वारब्धः ‘धाता ददातु नो रयिम्’ इति चतुर्भिः, ‘यस्त्वा हृदा कीरिणे’ति चतुर्भिः हुत्वा जयाद्यग्न्युपस्थानान्ते यस्याः रजःप्रादुर्भावः न स्यात् तया कन्यया न्यग्रोधाङ्कुरं दृषत्पुत्रे न्यस्य दृषत्पुत्रेण पेषयित्वा वस्त्राञ्चलेन पवयित्वा अग्नेः पश्चात् प्राक्शिरसमूर्ध्वमुखीं पत्नीं शाययित्वा स्वयं प्राङ्मुखः स्थित्वा दक्षिणाङ्गुष्ठेन तस्याः दक्षिणे नासिकाछिद्रे तद्रसं पुँसुवनमसीति निनयेत् । सा तद्रसं निर्गिरेत् ॥

[[12]]