अतो ऽन्येष्व् अनाम्नातेषु पाहित्रयोदशकं जुहुयात् +++(अत्रेक्षताम्)+++।
सर्वत्र कर्मणाम् आदाव् अन्ते च
भगवत्-स्मरणं तन्-नाम-सङ्कीर्तनं च कुर्यात् ।
महद्-अनुग्रहं च कारयेत् ।
एतद् एव सर्वप्रायश्चित्तमिति विज्ञायते ॥+++(5)+++
॥ इति प्रयोगचन्द्रिकायां सप्तमः खण्डः ॥