०९ निमन्त्रितैर् जपाः

१. दोग्ध्री जपः -

१८ ...{Loading}...
भास्करोक्त-विनियोगः

1अथ ब्रह्मवर्चसं उपजुहोति - आ ब्रह्मन्नित्यादि ॥

मूलम् (संयुक्तम्)

आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒न्दोग्ध्री॑ धे॒नुर्वोढा॑ऽन॒ड्वाना॒शुस्सप्ति॒ᳶ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठास्स॒भेयो॒ युवाऽस्य यज॑मानस्य वी॒रो जा॑यतान्निका॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताय्ँ योगख्षे॒मो न॑ᳵ कल्पताम् ॥ [44]

विश्वास-प्रस्तुतिः

आ ब्रह्म॑न् +++(जातौ)+++ ब्राह्म॒णो ब्र॑ह्म-वर्च॒सी जा॑यताम् ।
आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श् शूरो॑ महार॒थो जा॑यताम् ।
दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ , पुर॑न्धि॒र् योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।
नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।

मूलम्

आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यताम् ।
आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श् शूरो॑ महार॒थो जा॑यताम् ।

भट्टभास्कर-टीका

ब्रह्मन् ब्रह्मणि ब्राह्मणजातौ अस्य यजमानस्य सम्बन्धी सर्वो ब्राह्मणो ब्रह्मवर्चसी आजायताम् । अस्मिन्राष्ट्रे यजमानस्य सम्बन्धी राजन्यः सर्वोपि क्षत्रः इषव्यः इष्वादिषु साधुः शूरः महावीरः महारथः रथचर्यायां प्रकृष्टश्च आजायताम् । ‘राजश्वशुराद्यत्’ ‘राज्ञोपत्ये जातिग्रहणम्’ ।

विश्वास-प्रस्तुतिः

दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ , +++(सुन्दर-)+++पुर॑न्+++(=कायं)+++-धि॒र् योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।

मूलम्

दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ , पुर॑न्धि॒र्योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।

भट्टभास्कर-टीका

दोग्ध्री बहुक्षीरा सुदोहा च धेनुराजायतां अस्य यजमानस्य । साधुकारिणि तृन् । वोढा साधुवाही अनड्वानाजायताम् । आशुश्शीघ्रगतिः सप्तिराजायताम् । पुरन्धिः रूपवती पुरं शरीरं धीयतेऽस्यामिति । ‘कर्मण्यधिकरणे च’ इति किः । पूर्वपदस्याम्भावश्छान्दसः । दासीभारादिः । पुरुभिर्वा ध्यातव्या पुरन्धिः । पृषोदरादिः । ईदृशी योषा योषित् अस्य यजमानस्य आजायताम् । जिष्णुः जयशीलः रथेष्ठाः रथे स्थातुं शक्तः । रथे तिष्ठति सङ्ग्रामेष्विति ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, वचनव्यत्ययः । सभेयः सभायां साधुः रूपवत्तया, ‘डश्छन्दासि; इति डः । युवा तरुणः । वीरः विक्रान्तः । एवं जिष्ण्वित्यादिगुणयुकः पुरुषोस्य यजमानस्य आजायताम् ।

विश्वास-प्रस्तुतिः

नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।

मूलम्

नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।

भट्टभास्कर-टीका

निकामेनिकामे इच्छायां नः अस्माकं पर्जन्यो वर्षतु ।

विश्वास-प्रस्तुतिः

फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताम् ।

मूलम्

फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताम् ।

भट्टभास्कर-टीका

फलिन्यः बहुफला ओषधयः अस्माकं राष्ट्रे पच्यन्ताम् । कर्मकर्तरि यत् ।

विश्वास-प्रस्तुतिः

यो॒ग॒ख्षे॒मो न॑ᳵ कल्पताम् ॥ [44]

मूलम्

यो॒ग॒ख्षे॒मो न॑ᳵ कल्पताम् ॥ [44]

भट्टभास्कर-टीका

योगसहितः क्षेमः योगक्षेमः । शाकपार्थिवादित्वादुत्तरपदलोपी समासः । इतरेतरयोगद्वन्द्वे वा वचनव्यत्ययः । समाहारद्वन्द्वे वा लिङ्गव्यत्ययः ।

योगश्च क्षेमश्चास्मिन् राष्ट्रे प्रजानां कल्पतां सम्पद्यताम् । अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये सप्तमे काण्डे पञ्चमे प्रश्ने अष्टादशोनुवाकः ॥

२. नियोगानन्तरं निषङ्गिणी

नियोगानन्तरं २. निषङ्गिणी

[[105]]

०३ नमः॒ सह॑मानाय ...{Loading}...
विश्वास-टिप्पनी

निषङ्गिणी।

सायण-टीका

द्वितीयानुवाक उभयतोनमस्काराणि कानिचिद्यजूंष्य् उक्तानि ।
अथावरणि तथाविधान्येव तृतीयेऽस्पष्टार्थानि द्वादश यजूंष्य् उच्यन्ते ।

विश्वास-प्रस्तुतिः

नमः॒ सह॑मानाय निव्या॒धिन॑
आव्या॒धिनी॑नां॒ पत॑ये॒ नमः॑

मूलम्

नमः॒ सह॑मानाय निव्या॒धिन॑
आव्या॒धिनी॑नां॒ पत॑ये॒ नमः॑

भट्टभास्कर-टीका

तत्र प्रथमं यजुराह- नमः सहमानायेति । सहमानो विरोधिनोऽभिभवन् । नितरां विरोधिनो विध्यतीति निव्याधी, तादृशाय रुद्राय नमः ।
आ समन्ताद्दिष्यन्तीत्य् आव्याधिन्यः शूराः सेनास्तासां पालकाय नमः ।

विश्वास-प्रस्तुतिः

नमः॑ ककु॒भाय॑+++(=महते)+++ निष॒ङ्गिणे॑
स्ते॒नानां॒ पत॑ये॒ नमः॑

मूलम्

नमः॑ ककु॒भाय॑ निष॒ङ्गिणे॑
स्ते॒नानां॒ पत॑ये॒ नमः॑

सायण-टीका

अथ द्वितीयं यजुराह- नमः ककृभायेति।
ककुभाय ककुभ-सदृशाय प्रधानभूतायेत्यर्थः।
निषङ्गी खष्ट्गहस्तस्तस्मै नमः।
स्तेना गुप्तचोरास्तेषां पालकाय नमः।
रुद्रो हि लीलया नट इव तत्तद्वेषं धत्ते।
यद्वा तस्य सर्वजगदात्मकत्वाद्ये यत्र यथा वर्तन्ते तत्र तथारूपेण रुद्रो वर्तत इति रुद्रस्य सार्वात्म्यमनुसंधातुं मन्त्रेरेवमुच्यते।
स्तेनादिशरीरेषु रुद्रो द्वेधा वर्तते जीवरूपेणेश्वररूपेण च।
तत्र च यज्जीवरूपं तत्स्तेनादिशब्दानां वाच्योऽर्थः।
स एव शास्त्रेषु निन्द्यः।
यत्त्वीश्वररूपं तत्स्ते नादिशब्दैरुपलक्ष्यते।
तदनुसंधानं तु पापक्षय-हेतुत्वेन परमपुरुषार्थ इति लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुज्यन्त इति द्रष्टव्बम्।
उपलक्षकवाच्यार्थद्वारेण लक्ष्यार्थो मुग्धैरपि सहसा सम्यग्बोद्धुं शक्यते।
यथा शाखाग्रे चन्द्र इत्यत्र।
तस्माल्लक्ष्यार्थस्यैव विवक्षायामपि सुखावबोधद्वारत्वेन मुख्यार्थवाचकाः शब्दाः प्रयोक्तव्याः

विश्वास-प्रस्तुतिः

नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒
तस्क॑राणां॒ पत॑ये॒ नमः॑

मूलम्

नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमः॑

सायण-टीका

अथ तृतीयं यजुराह— नमो निषङ्गिण इति।
धनुषि संधातुं हस्ते घृतो बाणो निषर्ङ्गः।
पृष्ठे वद्धो बाणाधार इषुधिः तदुभययुक्ताय नमः।
तस्काराः प्रकटचोरास्तेषां पालकाय नमः।

[[2119]]

विश्वास-प्रस्तुतिः

नमो॑ वञ्‍च॑ते परि॒वञ्‍च॑ते
स्तायू॒नां+++(←स्तै वेष्टने)+++ पत॑ये॒ नमः॑

मूलम्

नमो॑ वञ्‍च॑ते परि॒वञ्‍च॑ते
स्तायू॒नां पत॑ये॒ नमः॑

भट्टभास्कर-टीका

अथ चतुर्थं यजुराह— नमो वञ्चत इति।
स्वामिन आप्तो भूत्वा तदीय-क्रय-विक्रयादि-व्यवहारेषु
यत्र क्वापि यत्-किंचित्-तद्द्रव्यापह्नवो वञ्चनम्
सर्वेष्वपि व्यवहरिष्वपह्नवः परिवञ्चनं, तदुभयरूपाय नमः।
गुप्तचोरा द्विविधाः-
दूराद् आगत्य रात्राव् अज्ञाताः सन्तः
कपाटोद्घाटनेन ये द्रव्यापहर्तारस्ते स्तेनाः
स्वकीया एव भूत्वा
रात्राव् अह्नि वाऽन्यैर् अज्ञाताः सन्तो
ऽपहर्तारो ये ते स्तायव
तेषां स्तायूनां पालकाय नमः।

विश्वास-प्रस्तुतिः

नमो॑ निचे॒रवे॑+++(←चर्)+++ परिच॒रायार॑ण्यानां॒ पतये॒ नमः॑

मूलम्

नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पतये॒ नमः॑

सायण-टीका

अथ पञ्चमं यजुराह— नमो निचेरव इति।
स्वामिगृह एव कदाऽपहरिष्यामीत्यनया बुद्ध्या
सावधानो निरन्तरं चरणशीलो
निचेरुः परित आपणवीथिप्रवाटिकादावपहारबुद्ध्या चरणशीलः परिचरस्तदुभयरूपाय नमः।
मार्गे गन्तुर्द्रव्यापहारेण बाधितृ निरन्तरमरण्ये वर्तमानाश्चोरा अरण्यास्तेषां पालकायनमः।

विश्वास-प्रस्तुतिः

नम॑ सृका॒विभ्यो॒+++(←सृक=बाणः)+++ जिघा॑ꣳसद्‍भ्यो
मुष्ण॒तां पत॑ये॒ नमः॑

मूलम्

नम॑ सृका॒विभ्यो॒ जिघा॑ꣳसद्‍भ्यो
मुष्ण॒तां पत॑ये॒ नमः॑

सायण-टीका

अथ षष्ठं यजुराह— २१२१
नमः सृकाविभ्य इति।
सृकशब्दो वज्रवाची।
तेन स्वशररिमवन्ति रक्षन्तीति सृकाविनः, प्राणिनो हन्तुमिच्छन्तश्चोरा जिघांसन्तस्तदुभयरूपाय नमः।
कृषिकाः सन्तः स्वामिघान्यानामपहर्तारो मुष्णन्तस्तेषां पालकाय नमः।

विश्वास-प्रस्तुतिः

नमो॑ऽसि॒मद्‍भ्यो॒ नक्तं॒ चर॑द्‍भ्यः
प्रकृ॒न्तानां॒ पत॑ये॒ नमः॑

मूलम्

नमो॑ऽसि॒मद्‍भ्यो॒ नक्तं॒ चर॑द्‍भ्यः
प्रकृ॒न्तानां॒ पत॑ये॒ नमः॑

सायण-टीका

अथ सप्तमं यजुराह— नमोऽसिमद्भ्य इति।
असिमन्तः खड्गधारिणश्चोराः।
ये रात्रौ चरन्तो वीथ्यां निर्गतान्प्राणिनो वाधमानाश्चोरास्ते नक्तं चरन्तः।
तदुभयरूपाय नमः।
हत्वैवापहरन्तः प्रकृन्तास्तेषां पालकाय नमः।

विश्वास-प्रस्तुतिः

नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑
कु-लु॒ञ्‍चानां॒ पत॑ये॒ नमः॑

मूलम्

नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑
कु-लु॒ञ्‍चानां॒ पत॑ये॒ नमः॑

सायण-टीका

अथाष्टमं यजुराह— नम उष्णीषिण इति।
शिरोवेष्टनवानुष्णीषी।
ग्राम्यजनवदुष्णीषेण शिरो वेष्टयित्वा तन्मध्ये प्रविश्य वर्तमानश्चोर उष्णीषी, गिरौ काष्ठादिसंपादकानां वस्त्रादिकम-पहर्तुं चरतीति गिरिचरस्तदुभयरूपाय नमः।
कुं भूमिं गृहक्षेत्रादिरूषां लुञ्चन्त्य् अपहरन्तीति कुलुञ्चास् तेषां पालकाय नमः।

विश्वास-प्रस्तुतिः

नमः॒ इषु॑मद्‍भ्यो
धन्वा॒विभ्य॑श् च वो॒ नमः॑

मूलम्

नमः॒ इषु॑मद्‍भ्यो धन्वा॒विभ्य॑श्च वो॒ नमः॑

सायण-टीका

अथ नवमं यजुराह– नम इषुमद्भ्य इति।
भीषयितुं हस्ते बाणधारिण इषुमन्तः।
तथा भीषयितुं हस्ते धनुर्धारिणो धन्वाविनः।
तदुभयरूपा हे रुद्रा वो युष्मभ्यं नम इति विशेषणद्वयेन वाक्यं भेत्तुं द्विर्नमस्कारः।

विश्वास-प्रस्तुतिः

नम॑ आतन्वा॒नेभ्यः॑
प्रति॒दधा॑नेभ्यश्‍च नमः॑

मूलम्

नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्‍च नमः॑

सायण-टीका

अथ दशमं यजुराह— नम आतन्वानेभ्य इति।
धनुषि ज्यामारोपयन्त आतन्वानास्तद्रूपेभ्यो युष्मभ्यं रुद्रेभ्यो नमः।
धनुषि बाणं संदधानाः प्रतिदधानास्तद्रूपेभ्यो बुष्मभ्यं नमः।

विश्वास-प्रस्तुतिः

नम॑ आ॒यच्छ॑द्‍भ्यो विसृ॒जड्भ्य॑श्‍च वो॒ नमः॑

मूलम्

नम॑ आ॒यच्छ॑द्‍भ्यो विसृ॒जड्भ्य॑श्‍च वो॒ नमः॑

सायण-टीका

अथैकादशं यजुराह— नम आयच्छद्भ्य इति।
ज्याकर्षणं कुर्वन्त आयच्छन्तो वाणं मुञ्चन्तो विसृजन्तः।
शेषं पूर्वद्व्याख्येयम्।

विश्वास-प्रस्तुतिः

नमोऽस्य॑द्‍भ्यो॒ विध्य॑द्‍भ्यश्‍च वो॒ नमः॑

मूलम्

नमोऽस्य॑द्‍भ्यो॒ विध्य॑द्‍भ्यश्‍च वो॒ नमः॑

सायण-टीका

अथ द्वादशं यजुराह— नमोऽस्यद्भ्य इति।
मुक्तस्य बाणस्य लक्ष्यपर्यन्तं नमनमसनं तरय कर्ता-रोऽस्यन्तः।
लक्ष्यसमीपं गतस्य बाणस्य लक्ष्ये प्रवेशो वेधस्तस्य कर्तारो विध्यन्तः।

विश्वास-प्रस्तुतिः

नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमः॑

मूलम्

नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमः॑

सायण-टीका

अथ त्रयोदशयजुरारभ्य सप्तदशयजुःपर्यन्तानि स्पष्टार्थानि यजूंष्याह-नम आसीनेभ्य इति।

विश्वास-प्रस्तुतिः

नमः॒ स्व॒पद्‍भ्यो॒ जाग्र॑द्‍भ्यश्‍च वो॒ नमः॑

मूलम्

नमः॒ स्व॒पद्‍भ्यो॒ जाग्र॑द्‍भ्यश्‍च वो॒ नमः॑

विश्वास-प्रस्तुतिः

नम॒स् तिष्ठ॑द्‍भ्यो॒ धाव॑द्‍भ्यश्‍च वो॒ नमः॑

मूलम्

नम॒स् तिष्ठ॑द्‍भ्यो॒ धाव॑द्‍भ्यश्‍च वो॒ नमः॑

विश्वास-प्रस्तुतिः

नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्‍च वो॒ नमः॑

मूलम्

नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्‍च वो॒ नमः॑

विश्वास-प्रस्तुतिः

नमो॒ अश्‍वे॒भ्योऽश्‍वपतिभ्यश्‍च वो॒ नमः॑ [ २ ] ।।

मूलम्

नमो॒ अश्‍वे॒भ्योऽश्‍वपतिभ्यश्‍च वो॒ नमः॑ [ २ ] ।।

०७ नमो॑ दुन्दु॒भ्या॑य ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

अग्निर्ऋषिः

सायण-टीका

(अथ चतुर्थाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
षष्ठेऽनुवाकि यान्य् अन्यतरतोनमस्काराणि यजूंष्युक्तानि
तेभ्योऽन्यानि कानिचिद् यजूंषि सप्तमेऽभिधीयन्ते।
तत्र विद्यमानानि षोडश यजूंष्याह— नमो दुन्दुभ्यायेति।

मूलम् (संयुक्तम्)

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒ख्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒स्स्रुत्या॑य च॒ पथ्या॑य च॒ नम॑ᳵ का॒ट्या॑य च नी॒प्या॑य च॒ नम॒स्सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च [15] नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ [16]

विश्वास-प्रस्तुतिः

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य +++(शब्दाय)+++ च ।

मूलम्

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च ।

सायण-टीका

दुन्दुभौ भेर्यां भवः शब्दो दुन्दुभ्यः।
आहन्यते ताड्यतेऽनेत्याहननं दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनरूपेणोत्पन्न आहनन्यः।

विश्वास-प्रस्तुतिः

नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च ।

मूलम्

नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च ।

सायण-टीका

घृष्णुर्युद्धे पलायनरहितः।

प्रमृशः परसैन्यवृत्तान्तपरामर्षकः।

विश्वास-प्रस्तुतिः

नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च ।

मूलम्

नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च ।

सायण-टीका

दूतस्तद्वृत्तान्तज्ञापनकुशलः।

प्रहितः स्वामिना प्रेषितः पुरुषः।

विश्वास-प्रस्तुतिः

नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च ।

मूलम्

नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च ।

सायण-टीका

निषङ्गी खड्गयुक्तः।

इषुधि मान्बाणाधारयुक्तः।

विश्वास-प्रस्तुतिः

नम॑स्ती॒ख्ष्णेष॑वे चायु॒धिने॑ च ।

मूलम्

नम॑स्ती॒ख्ष्णेष॑वे चायु॒धिने॑ च ।

सायण-टीका

तीक्ष्णा इषवो यस्यासौ तीक्ष्णेषुः।

बहून्यायुधानि यस्य सन्तीत्यायुधी।

विश्वास-प्रस्तुतिः

नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च

मूलम्

नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च

सायण-टीका

शोभनमायुधं त्रिशूलरूपं यस्यासौ स्वायुधः।

शोभनं धन्वपिनाकरूपं यस्यासौ सुधन्वा।

विश्वास-प्रस्तुतिः

नम॒स्स्रुत्या॑य च॒ पथ्या॑य च ।

मूलम्

नम॒स्स्रुत्या॑य च॒ पथ्या॑य च ।

सायण-टीका

स्रुतिः पादसंचारमात्रयोग्यः क्षुद्रमार्गस्तमर्हतीति स्रुत्यः।

पन्या रथाश्वादिसंचारक्षमः प्रौढो मार्गस्तमर्हतीति पथ्यः।

विश्वास-प्रस्तुतिः

नम॑ᳵ का॒ऽट्या॑य च नी॒प्या॑य+++(←नीपः = जलपातस्थलम्)+++ च ।

मूलम्

नम॑ᳵ का॒ट्या॑य च नी॒प्या॑य च ।

सायण-टीका

कुत्सितम् अटति जलमत्रेति काटोऽल्पप्रवाहयोग्यः कुल्याप्रदेशस्तत्र जलरूपेण भवः काट्यः।

यस्मिंन्प्रदेशे पर्वताग्राज् जलं न्यग्भावेन पतति स प्रदेशो नीपस्तत्र जलरूपेणावस्थितो नीप्यः

विश्वास-प्रस्तुतिः

नम॒स् सूद्या॑य+++(←सूदः=कर्दम-प्रदेशः)+++ च सर॒स्या॑य च +++(जलाय)+++ ।

मूलम्

नम॒स् सूद्या॑य च सर॒स्या॑य च।

सायण-टीका

सूदः कर्दमप्रदेशस्तत्रत्यजलरूपः सूद्यः।

सरः प्रसिद्धं, तत्रत्य जलरूपः सरस्यः।

विश्वास-प्रस्तुतिः

नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ +++(←अल्पसरो वेशन्तः)+++ च +++(जलाय)+++

मूलम्

नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च

सायण-टीका

नदीगतजलरूपो नाद्यः।

अल्पसरो वेशन्तस् तत्रत्यजलरूपो वैशन्तः।

विश्वास-प्रस्तुतिः

नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च ।

मूलम्

नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च ।

सायण-टीका

कूपस्थजलरूपः कूप्यः।

अवटस्थजलरूपोऽवट्यः।

विश्वास-प्रस्तुतिः

नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।

मूलम्

नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।

सायण-टीका

वर्षजलरूपो वर्ष्यः।

वर्षनिरपेक्षजलरूपोऽवर्ष्यः।

विश्वास-प्रस्तुतिः

नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च ।

मूलम्

नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च ।

सायण-टीका

मेघेषु स्थितो मेघ्यः ।

विद्युता सह चरतीति विद्युत्यः।

विश्वास-प्रस्तुतिः

नम॑ ई॒ध्रिया॑य+++(←इध्)+++ चात॒प्या॑य च ।

मूलम्

नम॑ ई॒ध्रिया॑य चात॒प्या॑य च ।

सायण-टीका

ईध्रं निर्मलत्वेन दीप्यमानं शरदभ्रं तत्र भव ईध्रियः।

आतपेन सह दृष्ट आतप्यः।

विश्वास-प्रस्तुतिः

नमो॒ वात्या॑य च॒ रेष्मि॑याय+++(←रिष्)+++ च

मूलम्

नमो॒ वात्या॑य च॒ रेष्मि॑याय च

सायण-टीका

वातेन सह वृष्टो वात्यः।

रिष्यन्ति विनश्यन्ति भूतान्यत्रेति रेष्मः प्रलयकालस्तत्र भवः शर्करापाषाणादिसहितो वृष्टिजलविशेषो रेष्मियः।

विश्वास-प्रस्तुतिः

नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।

मूलम्

नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।

सायण-टीका

वस्तु धनं(न)गवाश्वदिपदार्थरूपं तत्र तत्कार्यरूपेण वा स्थितो वास्तव्यः।

गृहनिर्माणार्था भूमिर्वास्तु तत्पालको वास्तुपः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः॥ ७ ॥

३. परिवेषणकाले ब्रह्मोद्यम्

(परिवेषणकाले) 1 3. ब्रह्मोद्यम्

१८ ब्रह्मोद्यम् ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

१-४ अनुष्टुप् ५-६ त्रिष्टुप् विश्वेदेवा ऋषयः

विश्वास-टिप्पनी

अथ होतुः प्रश्नाः ब्रह्मणः प्रतिवचानानि।
मुक्तसमये तत्त्वज्ञानं खलु विमृशेयुर् यागेष्व् इति शिष्टाः।

द्यव्य् अश्वावी
विश्वास-प्रस्तुतिः

किꣵ स्वि॑द् आसीत् पू॒र्व-चि॑त्ति॒ᳶ+++(=ज्ञानम्)+++,
किꣵ स्वि॑द् आसीद् बृ॒हद् वयः॑+++(=पक्षी)+++ ।
किꣵ स्वि॑द् आसीत् पिशङ्गि॒ला+++(=नानावर्णा)+++ ,
किꣵ स्वि॑द् आसीत् पिलिप्पि॒ला+++(=प्रीणयित्री)+++ ।

मूलम्

किꣵ स्वि॑दासीत्पू॒र्वचि॑त्ति॒ᳵ किꣵ स्वि॑दासीद्बृ॒हद्वयः॑ । किꣵ स्वि॑दासीत्पिशङ्गि॒ला किꣵ स्वि॑दासीत्पिलिप्पि॒ला ।

भट्टभास्कर-टीका

1अथ होतुः प्रश्नाः ब्रह्मणः प्रतिवचानानि - किं स्विदासीदित्यादीनि आनुष्टुभस्सर्वोनुवाकः । पृच्छामीति द्वे त्रिष्टुभौ । तत्र प्रथमा ‘किं स्वित्’ इति प्रश्नः । किमिति सामान्यविवक्षया नपुंसकत्वम् । स्विदिति वितर्के । किन्नु पूर्वचित्तिरासीत् पूर्वा प्रथमा चित्तिः ज्ञानमस्याः किन्नु इदमेव श्रेष्ठमिति प्रथमं चिन्त्यत इत्यर्थः । उत्तरापेक्षया स्त्रीलिङ्गता । यद्वा - पूर्वे देवाः त एव चित्तयश्चेतयितारो यस्याः । कर्मणि क्तिन्, कर्तरि बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्रा न्तोदात्तत्वं छान्दसम् । किन्नु खलु बृहत् महत् वयः अन्नमयमासीत् । यदन्नं लब्ध्वा पुनरन्यदन्नं न मृग्यं भवति तन्महत् ।

किं वा नु खलु पिशङ्गिलाऽऽसीत् । पिश अवयवे रौधादिकः । इगुपधलक्षणः कः । पिशशव्देन रूपादीन्युच्यन्ते । तानि गिरति छादयतीति छान्दसः कः, करणं वा ‘घञर्थे कविधानं’ इति कः । पचाद्यचि वा ‘बहुलं छन्दसि’ इति कित्वम, ‘अचि विभाषा’ इति लत्वं पर्वूपदस्याम्भावः । यद्वा - पिशङ्गो नानावर्णः तेन तद्वती पिशङ्गिला तुन्दादिलक्षणा इलच् । केन रूपादिकं छाद्यते केन वा प्रकाश्यते इत्यहोरात्राभिप्रायेण प्रश्नः । नानावर्णता चाहर्मिश्रत्वात् । किं वा स्वित् पिलिप्पिला आसीत् अत्यर्थं प्रीणयित्री पिलिप्पिला । पृ प्रीतौ, यङ्लुगन्तात्परिपर्तेः पचाद्यचि गुणे उपधाया इत्त्वं उभयत्र लत्वं पकारोपजनः, अभ्यासस्य चेत्वं छान्दसम् । पिलिप्पिलेति धात्वन्तरमौज्ज्वल्यवाचीति केचित् । ततः पचाद्यच् । का स्वित् उज्ज्वलयित्री प्रजानामिति ॥

परिहाराः
विश्वास-प्रस्तुतिः

द्यौर् आ॑सीत् पू॒र्व-चि॑त्ति॒र् ,
अश्व॑+++(=दधिक्रावा प्रोषपदासु)+++ आसीद् बृ॒हद् वयः॑+++(=सूर्यः)+++ ।
रात्रि॑र् आसीत् पिशङ्गि॒ला,
ऽवि॑र्+++(=मेषराशिः)+++ आसीत् पिलिप्पि॒ला ।

मूलम्

द्यौरा॑सीत् पू॒र्वचि॑त्ति॒र् , अश्व॑ आसीद् बृ॒हद् वयः॑ ।
रात्रि॑रासीत् पिशङ्गि॒लाऽवि॑रासीत् पिलिप्पि॒ला ।

विश्वास-टिप्पनी
  • सूर्योऽश्वः, बृहद् वयोऽपि। अवतीत्य् अविः। आदित्यप्रभवा श्रीर्वा सा। ‘श्रीर्वै पिलिप्पिला’ इति च ब्राह्मणम्।
  • If the horse (दधिक्रावा - say pegasus) was the big bird (sun), it might make nearby aviH (meSha) “pilappila” at sandhyA.
भट्टभास्कर-टीका

2अथ उत्तराणि - द्यौरित्यादीनि ॥ द्यौः पूर्वचित्तिः चित्यानां मुख्यत्वात् देवैर्ज्ञातव्यत्वाच्च । तस्य च साधनं अश्वो बृहद्वयः । तेन हि सकृदिष्ट्वा वरामुच्छ्रितिं प्राप्य पुनरन्यत्स्थानं भोगार्थमिच्छतीति तस्य निमित्तकारणम् । रात्रिः पिशङ्गिला सा हि रूपाणां छादयित्री स्वयं च प्रकाशाप्रकाशव्यामिश्ररूपा, तारकाभिरन्धकारेण च समन्वितत्वात्, अहर्मिश्रत्वाद्वा । अथ तस्याप्यभिवृद्धिकारणं अविः पिलिप्पिला अवति विश्वमित्यविः वृष्टिः । आदित्यप्रभवा श्रीर्वा । सा हि जगत् भृशं प्रीणयति ज्वलयति च ‘श्रीर्वै पिलिप्पिला’ इति च ब्राह्मणम् ॥

सूर्यचन्द्राग्नि-भूमयः
विश्वास-प्रस्तुतिः

कस् स्वि॑द् एका॒की च॑रति॒ ,
क उ॑ स्विज् जायते॒ पुनः॑ ।
किꣵ स्वि॑द् हि॒मस्य॑ भेष॒जङ् ,
किꣵ स्वि॑द् आ॒वप॑नम् म॒हत् ।

मूलम्

कस्स्वि॑द् एका॒की च॑रति॒ , क उ॑ स्विज् जायते॒ पुनः॑ ।
किꣵ स्वि॑द् हि॒मस्य॑ भेष॒जङ् , किꣵ स्वि॑द् आ॒वप॑नम् म॒हत् ।

भट्टभास्कर-टीका

3’किं स्विदासीत्’ इत्यादयः प्रश्नाः उक्तान्य् आदित्य-व्यापार-जानि प्रश्न-प्रतिवचनानि । इदनीम् आदित्यम् आरभ्य प्रश्नाः क्रियन्ते -
को नु खलु एकाकी असहायश् चरति;
सामर्थ्यात् सर्वदेति गम्यते ।
सर्वो हि कदाचिद् एकाकी चरति । प्रकृतत्वाच्च वृष्टेः प्रवर्तयिता एकाकी चरतीति । क एव खलु पुनर्जायते अत्रापि सामर्थ्यात् पुनःपुनरिति गम्यते । सर्वोपि हि मृत्वा पुनर्जायते । प्रकृतत्वाच्चादित्यवशात् पुनःपुनर्जायत इति । किं नु खलु हिमस्य शैत्यस्य भेषनं निवर्तकं प्रकृतत्वाच्च चन्द्रमसोत्पादितस्य । किन्नु खलु महदावपनं आवापस्थानं उप्यन्ते अस्मिन्नित्यावपनम्॥

विश्वास-प्रस्तुतिः

सूर्य॑ एका॒की च॑रति ,
च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर् हि॒मस्य॑ भेष॒जम् ,
भूमि॑र् +++(ओषध्यादीनां)+++ आ॒वप॑नम् म॒हत् ।

मूलम्

सूर्य॑ एका॒की च॑रति , च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर् हि॒मस्य॑ भेष॒जम् ,
भूमि॑र् आ॒वप॑नम् म॒हत् ।

भट्टभास्कर-टीका

4अथोत्तराणि - सूर्य इत्यादीनि ॥ सूर्योऽसहायः सर्वदा दिवि चरति । सेनान्यादीनामनुपलम्भात् असहायत्वं मन्यन्ते । चन्द्रमाः पुनःपुनरादित्याज्जायते । तदुत्पादितस्य हिमस्याग्निर्भेषजम् । तत्सृष्टानामोषध्यादीनां भूमिरावपनमिति ॥

विश्वास-प्रस्तुतिः

पृ॒च्छामि॑ त्वा॒ पर॒म् अन्त॑म् पृथि॒व्याᳶ ,
पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म् ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतᳶ॑ ,
पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्ँ व्यो॑म ।

मूलम्

पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म् पृथि॒व्याᳶ ,
पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म् ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑ᳶ , पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्ँ व्यो॑म ।

भट्टभास्कर-टीका

5एवं भूम्यन्तानि प्रश्नप्रतिवचनानि । अधुना भूमेर् आरभ्य प्रश्नाः क्रियन्ते -
पृच्छामीत्याद्याः ॥
हे ब्रह्म त्वां पृच्छामि पृथिव्याः परमन्तं यत्र सर्वा पृथिवी समाप्ता । अथ तत्र प्रतिष्ठितां भुवनस्य नाभिं पृच्छामि यत्र प्रतिबद्धं सर्वं जीवति स नाभिः ‘नहोभश्च’ इतीङ्प्रत्ययः । हेतुं च पृच्छामि तस्य वृष्णो वर्षितुरश्वस्य व्यापकस्य किं रेतः यतस्सर्वं जायते । अथ तच्च पृच्छामि वाचो वेदात्मिकायाः ऋगादेः तस्य रेतसो विधात्र्याः किं परमं व्योम प्रकृष्टं रक्षास्थानं सर्गप्रतिसर्गनिबन्धनं व्योमेति । विपूर्वादवतेः मन्प्रत्ययः, ‘ज्वरत्वरस्रिव्यविमवाम्’ इत्यादिना ऊठि गुणः ॥

विश्वास-प्रस्तुतिः

वेदि॑म् आहु॒ᳶ पर॒म् अन्त॑म् पृथि॒व्या ,
य॒ज्ञम् आ॑हु॒र् भुव॑नस्य॒ नाभि᳚म् ।
सोम॑म् आहु॒र् वृष्णो॒ अश्व॑स्य॒ रेतो॒ ,
ब्रह्मै॒व वा॒चᳶ प॑र॒मव्ँ व्यो॑म ॥ [46]+++(5)+++

मूलम्

वेदि॑माहु॒ᳶ पर॒मन्त॑म् पृथि॒व्या , य॒ज्ञमा॑हु॒र् भुव॑नस्य॒ नाभि᳚म् ।
सोम॑माहु॒र् वृष्णो॒ अश्व॑स्य॒ रेतो॒ , ब्रह्मै॒व वा॒चᳶ प॑र॒मव्ँ व्यो॑म ॥ [46]

भट्टभास्कर-टीका

6अथोत्तराणि वेदिमित्यादीनि ॥
पृथिव्याः परमन्तं वेदिमाहुः ब्रह्मवादिनः
‘सा वा इयं सर्वैव वेदिः’ इति च स्तूयते ।
तत्र निवर्त्यं यज्ञमाहुः भुवनस्य सर्वस्य भूतजातस्य नाभिः
तस्य वृष्णः अश्वस्य यज्ञस्य रेतः सोममाहुः सर्वस्य बीजं यागद्वारेण वृष्ट्याद्युत्पत्तिहेतुत्वात् ।
अश्वस्यैव वा वर्षितुः सोमो रेतः सर्वलोकजीवनोदकहेतुभूतसोमसाधनत्वात् ।
तत्फलं वाचः परमं व्योम ब्रह्मैव परमात्मैव प्राप्यत इति ॥

इति सप्तमे चतुर्थे अष्टादशोनुवाकः ॥


  1. हुतशिष्टान्नातिरिक्तवस्तुपरिवेषणे इत्यर्थः ↩︎