०५ भोजनम्

आसनम्

उपवीती

वैश्वदेविकहस्ते जलं दत्वा

…. गोत्रस्य …. शर्मणः पितुः श्राद्धे
पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानाम् इदम् आसनम्

इति सयवम् ऋजु-दर्भ-द्वयं दक्षिण-पार्श्वे दत्वा,
पुनरपो दत्वा,

…. गोत्रस्य…. शर्मणः पितुः प्रत्याब्दिकश्राद्धे
विश्वदेवार्थे भवता क्षणः कर्तव्यः

इति दक्षिणेन दक्षिण-हस्तं निर्-अङ्गुष्ठं गृहीत्वा
ऋजु-दर्भ-द्वयं दत्वा निमन्त्र्य,
“ओं तथा” इति प्रत्युक्ते,
‘प्राप्नोतु भवान्’ इति वदेत् -
‘प्राप्नवानि’ इति प्रतिवचनम् ।

प्राचीनावीती -
एवं पित्रादीन् भुग्न-दर्भ-दान-पुरस्सरं वृणुयात् ॥

पाद-प्रक्षालनम्

मण्डले

गृह-द्वार-समीपतो भवनस्य अग्रतः
संमार्जितायां गोमयेनोपलिप्तायां भूमौ
गोमय-सहित-गोमूत्रेण
+उत्तरे देवानां पाद-प्रक्षालनार्थं
चतुर्-अश्रं वितस्ति-प्रमाणं उदक्-प्लव-मण्डलं कृत्वा,

मध्ये षड्-अङ्गुलम् अन्तरालं विहाय,
दक्षिणे पितॄणां पाद-प्रक्षालनार्थे
वर्तुलं वितस्ति-प्रमाणं दक्षिणाप्लव-मण्डलं कृत्वा,

दर्भैः साक्षतैः सतिलैश् च क्रमेण,
मण्डलयोः परिस्तरणं कुर्यात् ।

देवतार्थं सर्वम् उपवीती -
पित्र्यं सर्वं प्राचीनावीती कुर्यात् ।

प्रक्षालनम्

उत्तरे साक्षतान् पूर्वाग्रान् युग्मान् कुशान् बहून्,
दक्षिणे सतिलान् दक्षिणग्रान् भुग्नान्
आसनार्थं नाम-गोत्रोच्चारण-पूर्वकं विन्यस्य,

उत्तरे सपुष्पगन्धैः अक्षतैरभ्यर्च्य,
दक्षिणे गन्ध-तिलैर् अभ्यर्च्य,

दैविक-ब्राह्मणं मण्डल-समीपत उपवेश्य,
आदित्याभिमुखम् आसने उपविश्य,
गो-घृत-मिश्र-गोमयेन पाद-पृष्ठम् अनुलिप्य,

…{Loading}…

शं᳓ नो देवी᳓रभि᳓ष्टय
आ᳓पो भवन्तु पीत᳓ये ।
शं᳓ यो᳓र्+++(=[अ]मिश्रणाय)+++ अभि᳓ स्रवन्तु नः ॥ ०४॥

इति मन्त्रेण,
स-पुष्पाक्षत–स-दर्भाग्राभिर् अद्भिः

[[120]]

1 ‘विश्वे देवाः !
इदं वः पाद्यं स्वाहा’

इति देवानां पाद्यं समर्प्य,

ओं
समस्त-सम्पत्-समवाप्ति-हेतवः
समुत्थितापत्-कुल-धूम-केतवः ।
अपार-संसार-समुद्र-सेतवः
पुनन्तु मां ब्राह्मण-पाद-पांसवः ॥

इति पादौ गुल्फ-पर्यन्तं मण्डले प्रक्षालयेत्।

कराव् अपि कूर्पर-पर्यन्तं क्षालयित्वा
हस्तौ प्रक्षाल्य,

प्राचीनावीती -
दक्षिणे पित्रर्थं ब्राह्मणं पूर्ववत् उपवेश्य,
गोमयेन अनुलिप्य

…{Loading}…

शन् नो॑ दे॒वीर् अ॒भिष्ट॑ये ।
आपो॑ भवन्तु पी॒तये॑ ।
शय्ँयोर् अ॒भि स्र॑वन्तु नः ।

इति मन्त्रेण,
स-तिल-पुष्पादर्भाग्र+++(नञ् विवक्षितम्??)+++-गन्धाभिर् अद्भिः पूर्ववत्

गोत्रादियुक्तस्य श्राद्धे …. गोत्राः …. शर्मणः
…. रूपाः
पितृपितामहप्रपितामहाः इदं वः पाद्यं
स्वधा

इति पितृतीर्थेन समर्प्य
पूर्ववत् प्रक्षाल्य,

उपवीति विश्वे देववत्
विष्णोर् अपि कुर्यात्।

पित्र्यं सर्वम् उपचारम्
आसीनः, सव्यं जान्व् आच्य (आसन-व्यतिरिक्ते),
मन्त्रान्ते स्वधा-शब्दम् अपि +उक्त्वा कुर्यात् ।

दैवं सर्वम्
आसीनः, दक्षिणं जान्व् आच्य +++(आसन-व्यतिरिक्ते)+++
स्वाहान्तं कुर्यात् ।

आचमनात् पूर्वम् अनर्हत्वात्
नात्र पादोदक-ग्रहणम् ॥

आसन-दानम्

पादौ प्रक्षाल्य,
मण्डलोत्तरे आचम्य
तान् अपि आचामय्य

[[121]]

प्राचीनावीती

…{Loading}…

अप॑हता॒ असु॑रा॒ रक्षाँ॑सि
पिशा॒चा ये क्षय॑न्ति पृथि॒वीम् अनु॑ ।
अ॒न्यत्रेतो॑ गच्छन्तु॒ यत्रैषां॑ गतं॒ मनः॑ ॥

…{Loading}…

उ᳓द् ईरताम् अ᳓वर उ᳓त् प᳓रास
उ᳓न् मध्यमाः᳓ पित᳓रः सोमिया᳓सः
अ᳓सुं य᳓ ईयु᳓र् अवृका᳓ ऋतज्ञा᳓स्
ते᳓ नो अवन्तु पित᳓रो ह᳓वेषु

इति भुक्ति-देशे तिलान् सिकतांश्च प्रकीर्य -

उपवीती - वैश्वदेविकहस्ते जलं दत्वा,

.. गोत्रस्य … शर्मणः …. पितुः श्राद्धे
पुरूरवाद्रसंज्ञकानां विश्वेषां देवानां भोजनस्थाने
इदम् आसनम्

इति +आसनार्थं सयवम् ऋजु-दर्भ-द्वयं दत्वा,

आसनं सव्येन अभिमृश्य
दक्षिणेन ब्राह्मण-जानु +अवलम्ब्य
‘आस्यताम्’ इत्युक्त्वा उपवेशयेत् ।

(देवान् प्राङ्मुखान्,
पितॄन् उदङ्मुखान् प्राग्-अपवर्गान्
+++(पश्चान्मुखान्?)+++ दक्षिणापवर्गान् वा +उपवेशयेत्, आचारात् ॥)

अर्चनम्

…{Loading}…

अ᳓र्चत प्रा᳓र्चत᳓ +++(नराः)+++
प्रि᳓यमेधासो +++(=प्रियमेध-सम्बद्धाः)+++ अ᳓र्चत ।
अ᳓र्चन्तु पुत्रका᳓ उत᳓
पु᳓रं᳓ न᳓ धृष्णु᳓ +++(=धर्षणशीलः)+++ +अर्चत ।।

इति मन्त्रेण ‘इदं वो अर्चनं’

(देवानां दक्षिणपादे, सव्यपादे,
दक्षिणजानुनि, सव्यजानुनि,
दक्षिणांसे, सव्यांसे,
मूर्ध्नि च, क्रमेण अर्चयेत् ।)

गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

[[122]]

… गोत्रस्य … शर्मणः पितुः प्रत्याब्दिकश्राद्धे पुरूरवार्द्रव-संज्ञक-विश्वेदेवाः !
यथा-भागशः अमी वः सकुङ्कुम-कर्पूरागरु-चम्पक-पद्मक-मिश्रा गन्धाः

इति दद्यात् ।

(देवब्राह्मणोपचारं सर्वम् उदङ्मुखः कुर्यात् ।
पित्र्यं दक्षिणामुखः कुर्यात् ।)

…{Loading}…

ओष॑धयः॒ प्रति॑मोदध्वम्
एनं॒ पुष्पा॑वतीः सुपिप्प॒लाः ।
अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑
प्र॒त्नँ स॒धस्थ॒म् आस॑दत् ॥

इति मन्त्रेण
पूर्ववत् ‘इमानि पुष्पाणि, श्रीतुलसीदलानि च’ इति दद्यात् ॥

…{Loading}…

धूर्+++(=धूस्स्थ हिंसको ऽग्निः)+++ अ॑सि ।
+++(‘एष वै धुर्योग्निः’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम्)+++

धूर्व॒+++(=नाशय)+++ धूर्व॑न्त॒म्+++(=हिंसकं)+++।
धूर्व॑+++(=नाशय)+++ तं यो॑ ऽस्मान् धूर्व॑ति।
तन् धू॑र्व॒ यव्ँ व॒यन् धूर्वा॑मः । त्वन् दे॒वाना॑मसि ।

घ्राण-तृप्त्य्-अर्थम् अयं वो धूपः ।

…{Loading}…

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूँश्च॒ मह्य॒म् आव॑ह॒
जीव॑नञ् च॒ दिशो॑ दिश ॥

‘अवलोकनार्थम् अयं वो दीपः’

…{Loading}…

यु᳓वा सुवा᳓साः प᳓रिवीत +++(यूप)+++ आ᳓गात्
स᳓ उ श्रे᳓यान् भवति जा᳓यमानः ।
तं᳓ धी᳓रासः कव᳓य उ᳓न्नयन्ति
स्वाध्यो३᳓+++(=सु+आ+धियः)+++ म᳓नसा देवय᳓न्तः+++(=देवकामाः)+++ ॥

आच्छादनार्थम् इदं वस्त्रं
(अभावे यज्ञोपवीतं, दर्भान् वा)
पवित्रार्थम् इमौ दर्भौ ।
‘शेषोपचारार्थे इमे अक्षताः’ इति पूर्ववद् अर्चयेत् ॥

प्राचीनावीती -
(एवमेव पितॄणाम् आसनार्थे भुग्न-दर्भान्,
मूर्ध्नि, सव्यांसे, दक्षिणांसे च
सव्यजानुनि, दक्षिणजानुनि,
सव्यपादे, दक्षिणपादे च
तिलैर् अर्चनम् । )

[[123]]

गन्ध॑द्वा॒राम् इत्यादि सर्वं पूर्ववत्॥

उपवीती -

विश्वेदेववत् विष्णोर् अर्चनम्।

पात्रस्थापनम्

आचम्य,
घृत-मिश्रेण गोमयेन, प्रणवेन चतुर्-अश्र-मण्डलं कृत्वा,
पात्रेषु जलं निस्राव्य,
हस्तेन संमृज्य,
पुनः प्रक्षाल्य,
‘इदं भोजन-पात्रासनम्’ इति दर्भान् निधाय,

मण्डलेषु देवादि-क्रमेण पात्राणि, उपपात्राणि च निधाय
(प्रधानपात्रे उपपात्रम् आज्य-पात्रादिकं च न निक्षिपेत्)

परिवेषणम्

पात्रेषु आज्यम् उपस्तीर्य,
प्रथमं हुत-शिष्टम् अन्नं पितृपात्रे प्राचीनावीती -
देवतीर्थेन परिविष्य,

(ततः क्रमेण सर्वत्र +उपवीत्य् एव
देवानाम् उदङ्मुखः, पितॄणां दक्षिणामुखः)

पितॄन् ध्यायन्,
अन्न-पायस-सूपापूप-क्रमेण दर्व्य्-आदि-द्वारा स-पवित्र-हस्ताभ्यां परिविष्य,

उपवीति -

‘रक्षोघ्नमन्त्रपठनं करिष्ये’ इति सङ्कल्प्य,

…{Loading}…

भास्करोक्त-विनियोगः

तैत्तिरीयारण्यकम् ॥
अथ द्वितीयः प्रपाठकः ॥
अथ स्वाध्यायब्राह्मणं काठकशेषमारभ्यते ।
उक्तं च -

स्वाध्यायब्राह्मणं काण्डं
काठके पठितो विधिः ।

इति ।

ऋषिर्ब्रह्मा स्वयम्भूर् नाम ।
तत्र “स्वाध्यायोऽध्येतव्यः” इत्यादौ यज्ञोपवीतविधानार्थो ऽयम् अनुवाकः[दः] ।
एतेनैव सिद्धे “निवीतं मनुष्याणां” इत्यादि-विधानं
तद्-भ्रेषे श्रौतप्रायश्चित्तार्थम् ।

विश्वास-प्रस्तुतिः

सह॒ वै दे॒वाना॒ञ् चासु॑राणाञ् च य॒ज्ञौ प्रत॑ताव् आस्ताव्ँ,
“व॒यँ स्व॒र्गल्ँ लो॒कम् ए॑ष्यामो, व॒यम् ए॑ष्याम॒” इति।

मूलम्

सह॒ वै दे॒वाना॒ञ् चासु॑राणाञ् च य॒ज्ञौ प्रत॑ताव् आस्ताव्ँ,
“व॒यँ स्व॒र्गल्ँ लो॒कम् ए॑ष्यामो, व॒यम् ए॑ष्याम॒” इति।

भट्टभास्कर-टीका

1सह वा इति ॥ सह वै यज्ञौ प्रततौ आरब्धौ आस्तां देवानामसुराणां च वयं स्वर्गं लोकं स्वामित्वेन एष्याम इति कृत्वा । यदा देवानां प्रवृत्तिरासीत् तदा असुराणामपि वयं स्वर्गं लोकमेष्याम इत्यासीत् । एवमन्योन्याभिभवेनैव यज्ञौ युगपदास्ताम् ।

विश्वास-प्रस्तुतिः

ते ऽसु॑रास् स॒न्नह्य॒ सह॑सै॒वाच॑रन्।
ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वाः।

मूलम्

ते ऽसु॑रास् स॒न्नह्य॒ सह॑सै॒वाच॑रन्।
ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वाः।

भट्टभास्कर-टीका

तत्र तेऽसुराः सन्नह्य कतोत्साहाः कृतसन्नाहाः सहसा भुजबलमात्रेणैव आचरन् यागमारब्धवन्तः । ते देवास् तु ब्रह्मचर्यात्मना तपसा इत्थम्भूता एव यथोक्तं यज्ञमाचरन् । ब्रह्म व्रतं शास्त्रीयो नियमः यज्ञोपवीतीत्यादि, तस्य चरणं ब्रह्मचर्यम् । ‘गदमदचरयमश्चानुपसर्गे’ इति यत् ।

विश्वास-प्रस्तुतिः

तेऽसु॑रा अमुह्यँ॒स्, ते न प्राजा॑नँ॒स्, ते परा॑ऽभव॒न्, ते न स्व॒र्गल्ँ लो॒कमा॑य॒न्।

मूलम्

तेऽसु॑रा अमुह्यँ॒स्, ते न प्राजा॑नँ॒स्, ते परा॑ऽभव॒न्, ते न स्व॒र्गल्ँ लो॒कमा॑य॒न्।

भट्टभास्कर-टीका

ततस् ते असुरा अयथोक्तमाचरन्तो अमुह्यन् वैचित्यमगमन् । मुह वैचित्ये । ततो न किञ्चित् कर्तव्याकर्तव्यम् अजानन् ।
ततश्चैव ते पराभवन् विनष्टा अभवन्, प्रारब्धकर्मफलालाभो विनाशः । ततस् ते स्वर्गं लोकं नायन्न गताः । अय गतौ ॥

…{Loading}…

विश्वास-प्रस्तुतिः

प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास् स्व॒र्गल्ँ लो॒कम् आ॑य॒न्।
अप्रसृ॑ते॒नासु॑रा॒न् परा॑भावय॒न्।

मूलम्

प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास् स्व॒र्गल्ँ लो॒कम् आ॑य॒न्।
अप्रसृ॑ते॒नासु॑रा॒न् परा॑भावय॒न्।

भट्टभास्कर-टीका

2अथ कीदृशः पुनस्स यज्ञः येन देवास्स्वर्गं लोकमायन् यद्रहिताश्चासुराः पराभवन् ? अत्राह - प्रसृतेनेति ॥ प्रसृतेन प्रकृष्टसरणेन प्रशस्तगमनेन यज्ञेन इष्ट्वा देवाः स्वर्गं लोकं गताः, नप्रसृतेन प्रसृतविपरीतेन यज्ञेनेष्टवतोऽसुरान् पराभावयन् । नप्रसृतमप्रसृतं नलोपाभावश्छान्दसः । असुराः पराभूता इत्यर्थः ॥

विश्वास-प्रस्तुतिः

प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो,
ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनः।
यत्किञ् च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्य् अधी॑ते॒
यज॑त ए॒व तत्।
तस्मा॑द् यज्ञोपवी॒त्य् ए॑वाधी॑यीत
या॒जये॒द् यजे॑त वा।

मूलम्

प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो, ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनः।
यत्किञ् च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्य् अधी॑ते॒ यज॑त ए॒व तत्।
तस्मा॑द् यज्ञोपवी॒त्य् ए॑वाधी॑यीत या॒जये॒द् यजे॑त वा।

भट्टभास्कर-टीका

3कः पुनस्तर्हि प्रसृतो यज्ञ इत्याह - यज्ञोपवीतिनो यज्ञः प्रसृतः प्रसृतगुणकः । यज्ञोपवीतस्य लक्षणमिदानीमेव वक्ष्यते । अनुपवीतिनो ऽयज्ञोपवीतिनः यज्ञोपवीतिविपरीतस्य यो यज्ञः सोऽप्रसृतः प्रसृतगुणरहितः । ‘देवलक्ष्ममेव तत् कुरुते’ इति श्रुतेर् यज्ञोपवीतस्य यज्ञसाधनत्वात् तद्वतो यज्ञः प्रसृतः, इतरस्साधनवैकल्येन अयज्ञत्वादप्रसृतः ।

तस्माद् यत्किञ्च ब्राह्मणो यज्ञोपवीतवान् अधीते अध्ययनेनार्थमवबुध्यते तत्तेन यजते एव, न केवलमयमधीते नार्थं जानाति, अपितु यजत एव ।
तस्माद्यज्ञोपवीत्येव अध्ययनं यजनं याजनं च कुर्याद् यज्ञस्य प्रसृत्यै प्रसृतगुणकत्वाय ॥

विश्वास-प्रस्तुतिः

य॒ज्ञस्य॒ प्रसृ॑त्या॒
अजि॑नव्ँ॒ वासो॑ वा
दक्षिण॒त उ॑प॒वीय॒
दक्षि॑णं बा॒हुम् उद्-ध॑र॒ते,
ऽव॑ धत्ते स॒व्यम्
इति॑ यज्ञोपवी॒तम् ए॒तद् ए॒व।

मूलम्

य॒ज्ञस्य॒ प्रसृ॑त्या॒
अजि॑नव्ँ॒ वासो॑ वा
दक्षिण॒त उ॑प॒वीय॒
दक्षि॑णं बा॒हुम् उद्-ध॑र॒ते,
ऽव॑ धत्ते स॒व्यम्
इति॑ यज्ञोपवी॒तम् ए॒तद् ए॒व।

भट्टभास्कर-टीका

4अथ कथं नाम यज्ञः प्रसृतस्स्यादिति - अजिनं वासो वेति द्रव्यविधिः । अथ यज्ञोपवीतस्य लक्षणमाह - दक्षिणत उपवीय देहस्यदक्षिणमर्धमुपवीय उपच्छाद्य । व्येञ् संरवणे, ल्यपि सम्प्रसारणे ‘हलः’ इति दीर्घः ।
स च न सर्वात्मना उपच्छाद्यः, अपि तु प्रागन्तावीतं दक्षिणमर्धं कृत्वा दक्षिणं बाहुमुद्धरते उपरि करोति सव्यम् अवधत्ते अधस्तात्करोति स्थापयति इत्येतद् यज्ञोपवीतं यज्ञसाधनमुपवीतं देवसम्बन्धीत्यर्थः ।

विश्वास-प्रस्तुतिः

विप॑रीतं प्राचीनावी॒तँ
सव्ँ॒वीतं॑ मानु॒षम् । 1 ।

मूलम्

विप॑रीतं प्राचीनावी॒तँ
सव्ँ॒वीतं॑ मानु॒षम् । 1 ।

भट्टभास्कर-टीका

एतदेव विपरीतं प्राचीनावीतं यथा सव्यत उपवीय सव्यं बाहुमुद्धरते अवधत्ते दक्षिणमिति । सञ्ज्ञेयं ‘प्राचीनावीती निर्वपति’ इत्याद्यर्थम् । अन्वर्था चेयं सञ्ज्ञा, प्राचीनस्य उपवीतस्य आवीतम् आवेष्टनरूपं विपरीतात्मकत्वादिति । तेन पित्र्यमुक्तं भवति दैवविपरीतत्वात्पित्र्यस्य । संवीतं समं वीतम् अंसद्वयावलम्बनेन वीतं संवीतम् । उभावपि बाहू यत्राधः क्रियते तत् संवीतं मानुषं मनुष्याणां स्वं भवति ॥
इत्यारण्यके द्वितीये प्रथमोनुवाकः ॥

[[124]]

…{Loading}…

विश्वास-प्रस्तुतिः

रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑म् अतिष्ठन्त।
तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत।
तानि॒ वर॑म् अवृणीत - “आदि॒त्यो नो॒ योद्धा॒” इति।
तान् प्र॒जाप॑तिर् अब्रवी॒द् - “योध॑य॒ध्वमि"ति।
तस्मा॒द् उत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यय्ँ योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्।

मूलम्

रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑म् अतिष्ठन्त।
तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत।
तानि॒ वर॑म् अवृणीत - “आदि॒त्यो नो॒ योद्धा॒” इति।
तान् प्र॒जाप॑तिर् अब्रवी॒द् - “योध॑य॒ध्वमि"ति।
तस्मा॒द् उत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यय्ँ योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्।

भट्टभास्कर-टीका

अथ स्वाध्यायात्प्राग्भावित्वादादावेव सन्ध्योपासनविधिं तावदाह - रक्षांसीति ॥ पुरोऽनुवाके पूर्वस्मिन्काले । अनु पश्चादुच्यत इत्यनुवाकः । इत्थं पूर्वमासीदिति यस्सर्वदाऽनूच्यते स कालः पुरोऽनुवाकः, पुराकल्प इति यावत् । तत्र रक्षांसि हवा हवार्थं युद्धार्थं ‘सुपां सुलुक्’ इति चतुर्थ्या आकारः । यद्वा - हवेति निपातसमुदायः प्रसिद्ध्यर्थः । वैशब्दसमानार्थो वा हवाशब्दः । तपो ऽग्रं श्रेष्ठं तीव्रम् अतिष्ठन्त आस्थितवन्तः । आस्थाने तिष्ठतिर्वर्तते । व्यत्ययेनात्मनेपदम् । यद्वा - ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् । तीव्र तपः प्रकाशितवन्तः । अन्तर्भावितण्यर्थोऽयम् । तपसश्च अनुष्ठेयत्वेनाज्ञीप्स्यमानत्वात् ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ इति चतुर्थ्यभावः । अन्य आह - पुरोऽनुवाकः प्रातरनुवाकः । तेन चाग्निष्टोमो लक्ष्यते - यज्ञे वर्तमानास्तपः कृतवन्त इति । अपर आह - पूर्वस्यां दिश्यनूच्यमाने देशे पुरोऽनुवाके कुरुक्षेत्रे इति । अथ तान् तानि रक्षांसि । लिङ्गव्यत्ययः । यद्वा - शेर्लोपेऽपि नुम् प्रवर्तते । प्रजापतिर् वरेण देयेन उपामन्त्रयत वरं वृणीध्वमिति रहस्युपच्छन्दितवान् । अथ तानि वरमवृणीत अवृणत । वर्णव्यत्ययेन ईकारः । वचनव्यत्ययो वा । वरमाह - आदियो नो ऽस्मान् योद्धै योधयेत्, वयं च तं योधयेम इति । प्रजापतिश् च अब्रवीद् योधयध्वमिति । युधेर्लेटि शपो लुकि ‘छन्दस्युभयथा’ इति तिङ आर्धधातुकत्वाद्गुणः । टेरेत्वे ‘वैतोऽन्यत्र’ इत्य् ऐकारे कृते संहितायामायादेशे ‘लोपश्शाकल्यस्य’ इति लोपः । ण्यन्तादेव वा लेटि पूर्ववदार्धधातुकत्वेन णिलोपः । ‘बुधयुधनश’ इति परस्मैपदं व्यत्ययेन न प्रवर्तते । यो मन्यते ‘अस्तु’ इत्यध्याहारेण आदित्योऽस्माकं योद्धाऽस्त्विति, तस्यापि संहितायां गुणाभावाय यतितव्यमिति नाश्वासः । यस्मादेवं वरमलभन्त तस्माद्वरबलेन उत्तिष्ठन्तं - उर्ध्वकर्मत्वेन परस्मैपदं - उद्यन्तमादित्यं तानि रक्षांसि योधयन्ति । हवेति व्याख्यातम् ।

यावदस्तमन्वगाद् यावति कालेऽस्तं गच्छति तदाऽपीत्यर्थः । अस्तं यन्तं च योधयन्तीत्युक्तं भवति । छान्दसो लुङ् ॥

अर्घ्यम्

विश्वास-प्रस्तुतिः

तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि
गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति।

मूलम्

तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि
गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति।

भट्टभास्कर-टीका

2इदानीं तेषां रक्षसां शान्तिं विदधाति - तानि तथा युध्यमानानि रक्षांस्य् एतानि गायत्र्या साविञ्या अभिमन्त्रितेनाम्भसा ऊर्द्धं विक्षिप्तेन शाम्यन्ति । तस्मात्तथा कुर्यादिति विधिः ।

विश्वास-प्रस्तुतिः

तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्याया॑ङ्
गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति।
ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति।

मूलम्

तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्याया॑ङ्
गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति।
ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति।

भट्टभास्कर-टीका

तदु ह वै तस्मादेव हि खल्व् एते ब्रह्मवादिनः ब्रह्मणो वेदितारो ब्राह्मणादयः पूर्वाभिमुखास्तिष्ठन्तः सन्ध्याथां प्रातः गायत्र्या आभिमन्त्रिता आपो ऽपः - विभक्तिव्यत्ययः - ऊर्ध्वं विक्षिपन्ति । उपलक्षणत्वात्सायं प्रत्यङ्मुखा इत्यवगम्यते । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहा मन्देहनाम्नां रक्षसां - “सुपां सुलुक्” इति षष्ठ्या आकारः - तेषां रक्षसां स्वभूते अरुणे अरुणनाम्नि द्वीपे प्रक्षिपन्ति पातयन्ति ।

प्रदक्षिणीकरणम्

विश्वास-प्रस्तुतिः

यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒, तेन॑ पा॒प्मान॒म् अव॑धून्वन्ति।

मूलम्

यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒, तेन॑ पा॒प्मान॒म् अव॑धून्वन्ति।

भट्टभास्कर-टीका

यत्प्रदक्षिणं प्रक्रमन्ति दक्षिणप्रारम्भमावर्तन्ते तेन पाप्मानम् आत्मस्थम् अवधून्वन्ति ।

ब्रह्म-भावनम्

विश्वास-प्रस्तुतिः

उ॒द्यन्त॑म् अस्तय्ँ॒ यन्त॑म् आदि॒त्यम् अ॑भिध्या॒यन्
कु॒र्वन् ब्रा॑ह्म॒णो वि॒द्वान्त् स॒कलं॑ भ॒द्रम् अ॑श्नुते -
असाव् आ॑दि॒त्यो ब्र॒ह्मेति॒ -
ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒-
य ए॒वव्ँ वेद॑ ।2।

मूलम्

उ॒द्यन्त॑म् अस्तय्ँ॒ यन्त॑म् आदि॒त्यम् अ॑भिध्या॒यन्
कु॒र्वन् ब्रा॑ह्म॒णो वि॒द्वान्त् स॒कलं॑ भ॒द्रम् अ॑श्नुते -
असाव् आ॑दि॒त्यो ब्र॒ह्मेति॒ -
ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒-
य ए॒वव्ँ वेद॑ ।2।

भट्टभास्कर-टीका

तस्माद् उद्यन्तमस्तंयन्तञ्चादित्यमभिध्यायन् आभिमुख्येन चिन्तयन् कुर्वंश्च प्रदक्षिणं विद्वांश्च असावादियो ब्रह्मेत्य् असावेवादित्यः परम्ब्रह्मेति ब्रह्मादित्ययोरभेदम् आदित्येन चात्मन ऐक्यं जानन् ब्राह्मणः सकलं भद्रं कल्याणम् अश्नुते न केवलं स्वर्गादिकमेव, अपितु सकलं कल्याणम् । अथ य एवं वेद सोऽपि ब्रह्मैव सन् ब्रह्माप्येति ब्रह्मणा ऐक्यं प्रतिपद्यते, किं पुनस्स्वर्गादि सकलं भद्रमश्नुत इति । यद्वा - असावादित्यो ब्रह्मेति विद्वान् तेन चादित्येनात्मन ऐक्यात् स्वयमपि ब्रह्मैव आदित्यः सन् कुर्वन् आचरन् एवं विशिष्टमादित्योपस्थानम् आचरन् सकलं भद्रमश्नुते अपवर्गमपि प्राप्नोति । अथ य एवं वेदिता सोऽपि ब्रह्माप्येति प्राप्नोति ॥
इति द्वितीथे द्वितीयोऽनुवाकः ॥

इति जपित्वा,
अन्नम् अभिधार्य,

अभिमर्शः

पितृपात्रेषु कॢप्तान् अन्नादीन् सर्वान्
प्राचीनावीती -
दक्षिणामुखः सव्यं जान्व् आच्य,
“एष ते तत” इति यथालिङ्गम् अभिमृशेत् ।
असम्भवतां मन्त्रावृत्तिः ।

कर्त्रा हुतशिष्टान्नस्य जपः

(कर्त्रा हुतशिष्टान्नस्य जपः 2)

…{Loading}…

ए॒ष ते॑ तत॒ +++(स्वधासमुद्रः)+++ मधु॑माँ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् अ॒ग्निश् च॑ पृथि॒वी च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॒ ऽग्निर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पि॒त्रे ऽक्षि॒तो ऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वँ स्व॒धां तैस् स॒होप॑जीव॒, +र्चस् ते॑ महिमा।

ए॒ष ते॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माँ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् वा॒युश् चा॒न्तरि॑क्षञ् च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ वा॒युर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्वँ स्व॒धां तैस् स॒होप॑जीव॒, सामा॑नि ते महिमा।

ए॒ष ते॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माँ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ ऽऽदि॒त्यो ऽक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्वँ स्व॒धां तैस् स॒होप॑जीव॒, यजूँ॑षि ते महि॒मा ॥ (19)

[[125]]

देव-पात्रे

अथ देव-पात्रे उदङ्-मुखः
उपवीती
दक्षिणं जान्व् आच्य,
स-व्याहृतिक-गायत्र्या प्रोक्ष्य

(ओं भूर्भुव॒स्सुवः॑ । इति अन्नं प्रोक्ष्य ओं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥)

देव॑ सवितः॒ प्र सु॑व ॥

इति प्रदक्षिणं परिषिच्य,
(विश्वेदेवहस्ते शुद्धोदकं दत्वा,)

…{Loading}…

+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑न् त्वा प्राणापा॒नयो॑र् जुहोमि।

भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।

इति सव्येन पात्रमालभ्य दक्षिणेन ब्राह्मणहस्तं गृहीत्वा, अन्नं सर्वं स्पर्शयित्वा

…{Loading}…

इद᳓व्ँ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

विष्णो! हव्यँ रक्ष

इति अन्ने अ-नख-द्विजाङ्गुष्ठ-प्रदेशं प्रवेश्य,
द्विज-वामाङ्गुष्ठ-तर्जनी-मध्यमाभिः पात्रं स्पर्शयित्वा,

[[126]]

…. गोत्रस्य …. शर्मणः मम पितुः श्राद्धे
पुरूरवार्द्रवसंज्ञकाः ! विश्वेदेवा देवताः!
इदम् अन्नं ब्रह्म,
अयं च ब्राह्मणो ब्रह्म,
अहञ्च ब्रह्म।
इयं च भूर् गयाऽक्षय-वट-च्छाया।
अयञ्च ब्राह्मणः आहवनीयार्थे।
इदं च पात्रं स्वर्णमयम्।
इदं च अन्नम् अमृतमयम्।
अयञ्च भोक्ता ब्राह्मणो गदाधरः।
पुरूरवार्द्रव-संज्ञकेभ्यो विश्वेभ्यो देवेभ्य
इदं इदं इदं हव्यं स-व्यञ्जनं स-परिकरञ् च परिविष्टम्,
आतृप्तेः परिवेष्यमाणं च।
स्वाहा नमः!
न मम!

इति यवोदकेन देवतीर्थेन दद्यात् ।

गयायाम् अक्षयवटच्छायायां
…. क्षेत्रे…. दिव्यविमान-च्छायायां …
नायिकासमेत … श्री …. स्वामि-सन्निधौ
श्रीविष्णु-पादे दत्तं,
गयायां दत्तम् अस्तु ।
पुरूरवार्द्रव-संज्ञक-विश्वेदेवेभ्यः ॥

इति अन्ने द्विजाङ्गुष्ठं नखान्यप्रदेशे निवेश्य,

(एवं पित्र्ये)

प्राचीनावीती

…. विष्णो! कव्यं रक्ष

इति विशेष-युक्तं दक्षिणामुखः
पितॄणां … गोत्र-नाम-रूप-पुरस्सरं दद्यात् ॥

अयं च ब्राह्मणः …. पितृपितामहप्रपितामहार्थे,
इदञ्च पात्रं रजतमयं
… गोत्रेभ्यः …. शर्मभ्यः … रूपेभ्यः
…. पितृपितामहप्रपितामहेभ्यः
इदम् इदम् इदं कव्यं …
स्वधा नमः॥
न मम॥

इति विशेषयुक्तं पितृतीर्थेन दद्यात् ॥

देववत् विष्णोश्च कुर्यात् । ‘विष्णुर्देवता…. अयं च ब्राह्मणः विष्ण्वर्थे … ’ इत्यादिर् विशेषः ॥

[[127]]

समष्टिदत्तम्

समष्टिदत्तम्

पितृ-देवतयोर् मध्ये भुवं संशोध्य,
भुग्नं निधाय,
प्राचीनावीती -
दक्षिणामुखः सव्यं जान्व् आच्य,

…{Loading}…

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्-सन्निधानाद् अपयान्तु सद्यो
रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

एको विष्णुर् महद्-भूतं
पृथक् भूतान्य् अनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा
भुङ्क्ते विश्व-भुग् अव्ययः ॥

इति +उच्चार्य

अनेन… गोत्रस्य … शर्मणः मम पितुः श्राद्धे
पितृ-श्राद्ध-रूप–भगवद्-आराधनोपक्रमेण
(उपवीती) पुरूरावार्द्रव-संज्ञक-विश्वेदेव-रूपी
(प्राचीनावीती) वसु-रुद्रादित्य-स्वरूप-संज्ञक+अस्मत्-पितृ-पितामह-प्रपितामह-रूपी
(उपवीती) - श्राद्ध-संरक्षक-श्री-विष्णु-रूपी
(प्राचीनावीती) -
सर्वाकारो भगवान् स देवः श्रीजनार्दनः प्रीयताम्

इति सयवतिलोदकं (दर्भेषु) दद्यात् ।

गयायाम् अक्षयवट-च्छायायां
सत्य-व्रत-क्षेत्रे +++(=काञ्चीपुर्याम्)+++ पुण्य-कोटि-विमान-च्छायायां
पेरुन्देवी-नायिका-समेत–श्री-देवादि-राज-स्वामि-पादारविन्दयोर् दत्तम् ।

“स्वामिनः! अच्छिद्रं जायताम्” इति प्रार्थना ।
‘अस्त्व् अच्छिद्रम्’ इति प्रतिवचनम्

पिता पितामहश् चैव
तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या
यन् मयैतद् उदीरितम् ॥

परिषेचनादि

क्रमेण मन्त्रेण परिषेचनं कारयित्वा,
आपोशनम् अपि कारयित्वा

[[128]]

…{Loading}…
विश्वास-प्रस्तुतिः

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

मूलम्

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

…{Loading}…
विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

इति जपन् प्राणाहुतीः कारयित्वा,

१. 3 गायत्रीं
२. 4 मधु-त्रयञ् च जपित्वा

[[129]]

स्वामिनः! यथासुखं जुषध्वम् ।

श्रीपुंसूक्ते, वैष्णवान्, पैतृकान्, राक्षोघ्नान्, अन्यांश्च पवमानान्,
इतिहासपुराणानि च
भवतो भुञ्जानान् यावच्-छक्यं श्रावयिष्ये

इत्युक्त्वा,
“श्रावय” इत्यनुज्ञातः,

स्वामिनः! सनक-सनन्दनादि-समधिक-माहात्म्यशालिनो यूयं
अस्मिन् कैङ्कर्ये वात्सल्यातिशयेन समागताः।
स्वामिनाम् अनुगुणं कैङ्कर्यानुगुणं च
पदार्थादिकं सम्पादयितुम् अशक्तः,
सम्पादितवांश् चास्मि।
सम्पादितेषु च भगवन्-निवेदितेषु
+अपेक्षितं यथाशास्त्रम् आनीय, भुक्त्वा,
वयं संरक्षणीयाः

इत्य् उपचारान् उक्त्वा

शुश्रूषा-नियमाः

“स्वयम् अनवेक्षमाणो ददामी"ति कथनं,
रोदनं, क्रूरभाषणम्, अन्-ऋत-भाषणं,
पदा अन्नस्पर्शनावधूननं, क्रोधेन दानं,
स्विन्न-गात्रतया ब्राह्मण-पुरोऽवस्थानं,
ब्राह्मणान् प्रति हविर्-गुण-प्रश्नः,+++(5)+++
त्वरया परिवेषणम् इत्यादि-वर्जितः,
इङ्गितादिभिर् अपेक्षितं ज्ञात्वा
परिवेषणं कारयेत् ॥

भोक्ता च

अधिक-परिवेषणे हस्त-संज्ञया निषेधः,
तथैव अपेक्षितानयनं,
मुख-चालन-हुङ्कारादिना अपेक्षानपेक्षयोर् असूचनम्,
भोज्य-पात्रे +आज्य-पात्रं निक्षिप्य अभोजनम्,
खादित-शेषस्य भोजन-पात्रे अनिक्षेपः,
मन्त्रानुच्चारणं,
दात्रा पृष्टत्वे ऽपि हविर्-गुणानां हस्त-संज्ञयाऽपि +असूचनं,
मौनं,
“साङ्गुष्ठाङ्गुलीभिर्”

इत्यादि-नियम-युक्तः

इन्द्रियचापल्यं, परान्नावलोकनं,
हुङ्कारं, भू-तलात् पात्रस्योद्धरणं,
हस्तेन पात्रस्य मोचनम्,
उत्तर-वासो-बहिर्-भूत-कक्षः,
पीतावशिष्ट-पानं, खादितावशिष्टापूप-फलादि-पुनः-खादनं,
मुखेन +अन्न-धमनं,
ष्ठीवनं, बहु-भाषणम्,
अतिमिताशनम्, अति-भोजनं,
लवणापेक्षा,
दधि-क्षीर-क्षौद्र-सक्तु-घृत-पायसानाम् अवशेष-करणम्,
अन्येषां किञ्चिद् अप्य् अनवशेष-करणम्
इत्यादिवर्जितः
यावद्-अपेक्षं भुञ्जीत ।

[[130]]

श्रावणम्

सतां बन्ध्व्-आदीनां दक्षिणा-दान-पुरस्सरं तत्-सहितः,
स्वयम्-अशक्तौ तन्-मुखेन वा,

१. गायत्रीं त्रिः,
२. श्रीसूक्तम्, ३. पुंसूक्तम्,
४. अद्भ्यस्सम्भूतः, ५. सहस्रशीर्षं देवं,
६.विष्णुगायत्रीम्, ७. विष्णोर्नुकम्,
८. तदस्य प्रियम्,
९. कृणुष्वपाजः, १०. रक्षोहणः,
११. उशन्तस्त्वा, १२. आपूर्यास्स्थामा,
१३. असावादित्यः, १४. सन्ततिर्वा,
१५, १६, १७. अयं वाव इति त्रयोनुवाकाः,
१८, १९, २०. ब्रह्म मेतुमाम् इत्यादित्रयम्, [^11]
२१. अन्नसूक्तम्,
२२. इतिहासपुराणादीनि इत्यादि श्रावयेत् ॥
(अभिश्रवणमन्त्राः पु. १४४-१५५ द्रष्टव्याः ॥)

तृप्ति-प्रश्नाः

भोजनान्ते अन्नादिकं पात्रे परिकल्प्य,

स्वामिनः ! भगवन्निवेदितेषु किमपेक्षितम्?

इति पृष्ट्वा, “सर्वं सम्पूर्णम्” इत्युक्ते,
कर्ता

(गायत्रीं) ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् । [[TODO:परिष्कार्यम्??]]

(मधुत्रयम्)

…{Loading}…

######### …{Loading}…

मधु॒ वाता॑ ऋताय॒ते
मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी॑र् नस् स॒न्त्व् ओष॑धीः ॥

######### …{Loading}…

मूलम्

मधु॒ वाता॑ ऋताय॒ते
मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी॑र् नस् स॒न्त्व् ओष॑धीः ॥

######### …{Loading}…

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

######### …{Loading}…

मूलम्

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

######### …{Loading}…

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

######### …{Loading}…

मूलम्

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

(ओं मधु॒ मधु॒ मधु॑ ॥)

…{Loading}…

अ᳓क्षन्न्+++(=भुक्तवन्तः)+++, अ᳓मीमदन्त ह्य् अ᳓व प्रिया᳓ अधूषत+++(=अकम्पयन् [=वक्तुम् अशक्नुवन्])+++ ।
अ᳓स्तोषत+++(=अस्तुवन्)+++ स्व᳓भानवो वि᳓प्रा
न᳓विष्ठया मती᳓+++(त्या)+++, +++(अतो रथे)+++ यो᳓जा+++(=योजय)+++ न्वि्᳓ इन्द्र ते ह᳓री ॥

इति च जपित्वा

[[132]]

१. उपवीती -

पुरूरवार्द्रवसंज्ञकाः विश्वेदेवाः! (मधु) वस् सम्पन्नम्?

इति पृष्ट्वा, ‘सुसंपन्नम्’ इत्युक्ते,

‘विश्वेदेवाः! तृप्तास् स्थ?’ इति पृष्ट्वा, ‘तृप्तास्स्मः’ इति प्रत्युक्ते,

२. (पित्रादीनप्येवं पृष्ट्वा )

प्राचीनावीती -

वसुरुद्रादित्य-स्वरूप+अस्मत्-पितृ-पितामह-प्रपितामहाः!
(मधु) वस्सम्पन्नम् ?

इति पृष्ट्वा, ‘सुसम्पन्नम्’ इत्युक्ते,
‘पितृ-पितामह-प्रपितामहाः ! तृप्तास्स्थ?’ इति पृष्ट्वा, ‘तृप्तास्स्मः’ इति प्रत्युक्ते, -

३. (विष्णुम् अपि पृष्ट्वा)

उपवीती -

श्राद्ध-संरक्षक-श्री-विष्णो ! (मधु) ते संपन्नम्?

इति पृष्ट्वा, ‘सुसंपन्नम्’ इत्युक्ते,
‘श्रीविष्णो! तृप्तोऽसि?’ इति पृष्ट्वा, ‘तृप्तोऽस्मि’ इति प्रत्युक्ते,

प्रकिर-दानम्

पितृ-देवयोर् मध्ये प्राचीना-वीती भुग्नं निधाय,
सव्यं जान्व् आच्य
तिलोदकं पितृ-तीर्थेनोत्सिच्य,
स-व्यञ्जनम् अन्नं द्रवी-कृतं हस्त-द्वयेना ऽऽदाय,

ये अग्निदग्धा येऽनग्निदग्धा
ये वा जाताः कुले मम ।
भूमौ दत्तेन तृप्यन्तु
तृप्ता यान्तु परां गतिम् ॥

इति पितृ-तीर्थेन प्रकिरेत् ॥

[[133]]

अथवा विकिरदानम्

प्रथम-वृत-वैश्वदेविक-ब्राह्मण-सन्निधौ
कस्मिंश्चित् पात्रे स-यवान् युग्मान् दर्भान् संस्तीर्य,

१. असोमपाश् च ये देवा
यज्ञ-भाग-विवर्जिताः ।
तेषाम् अन्नं प्रदास्यामि
विकिरं वैश्वदेविकम् ॥

इति देवतीर्थेन
उपवीती उदगपवर्गं विकिरेत् ।

२. पितॄणां पुरतः पात्रे सतिलं भुग्नं निधाय,
प्राचीनावीती

अ-संस्कृत-प्रमीता ये
त्यागिन्यो याः कुल-स्त्रियः ।
दास्यामि तेभ्यो विकिरम्
अन्नं ताभ्यश् च पैतृकम् ॥

इति प्रत्यग्-अपवर्गं पितृ-तीर्थेन विकिरेत् ।

३. उपवीती

असंशयो भवेद् विष्णुः
मोक्ष-साधनम् अव्ययम् ।
पितॄणाञ् च वरं श्रेष्ठं
विकिरान्नञ् च वैष्णवम् ॥

इति देववत् विष्णोश्च विकिरेत् ।

प्राचीनावीती प्रकिरवत् भुग्ने,

ये अग्निदग्धा येऽनग्निदग्धा
ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन
तृप्ता यान्तु परां गतिम् ॥

(इति पिण्डं दद्यात् )

[[134]]

उत्तरापोशनं

उपवीती - आचम्य,
‘विश्वेदेवाः! अमृतापिधानमसि’ /

प्राचीनावीती
‘पितृपितामहप्रपितामहाः ! अमृतापिधानमसि’/

उपवीती - ‘श्राद्धसंरक्षकविष्णो! अमृतापिधानमसि’ - इत्य्-आदि-क्रमेण
उत्तरापोशनं कारयित्वा,
पितृ-पूर्वं हस्त-प्रक्षालनादिकं दत्त्वा,
स्वयं शिष्यादि-मुखेन वा पात्राणि चालयेत् ।

आपिण्ड-निधानात् भुक्ति-मण्डल-शोधनं न कारयेत् ।+++(5)+++

रोचनम्

आचान्तेषु स्वयम् आचम्य,

१. “विश्वेदेवाः! रोचयतेति ब्रूत” इत्युक्त्वा, “रोचयत” इति तैरुक्ते,

२. प्राचीनावीती, “वसु-रुद्रादित्य-स्वरूप-पितृ-पितामह-प्रपितामहाः! ‘स्वदितम्’ इति ब्रूत” इति पृष्ट्वा, “स्वदितम्” इत्युक्ते,

३. उपवीती, “श्राद्ध-संरक्षक-श्रीविष्णो ! ‘स्वस्त्य्-अस्तु इति ब्रूहि’ इति पृष्ट्वा, ‘स्वस्त्यस्तु’ इति प्रत्युक्ते,

प्राचीनावीती, ‘सर्वे स्वस्त्य् अस्तु इति ब्रूत!’ इत्युक्त्वा,
सर्वैः ‘स्वस्त्य् अस्तु’ इति प्रत्युक्ते,

१. उपवीती -

… गोत्रस्य… शर्मणः मम पितुः श्राद्धे
पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानाम् अक्षय्यम् अस्तु ।

हस्ते जलं दत्वा

अस्त्व् अक्षय्यम्

+++(एवम् अन्ययोः, पितृभोक्तरि प्राचीनावीती)+++

४. सर्वेषां हस्ते जलं दत्वा
“अस्त्व् अक्षय्यम्” इति सर्वैर् उक्ते

[[135]]

निवेदित-तुलसी-मिश्र-ताम्बूल-दक्षिणाश् च

१. “इदं वस् ताम्बूलम्, इयं च दक्षिणा ।”

…. गोत्रस्य … शर्मणः मम पितुः श्राद्धे पुरूरवार्द्रवसंज्ञकः विश्वेदेवाः!

२. प्राचीनावीती

… गोत्रस्य ….शर्मणः मम पितुः श्राद्धे
वसुरुद्रादित्यस्वरूप अस्मत्-पितृ-पितामह-प्रपितामहाः!
इदं वस्ताम्बूलम्, इयं च दक्षिणा ।

३. उपवीती -

…. गोत्रस्य ….शर्मणः मम पितुः प्रत्याब्दिकश्राद्धे,
श्राद्धसंरक्षकश्रीविष्णो! इदं ते ताम्बूलम्, इयं च दक्षिणा ॥

स्वधा-वाचनादि

प्राचीनावीती,

“पितृ-पितामह-प्रपितामहाः! स्वधां वाचयिष्ये”।

इत्युक्त्वा, ‘वाच्यतां स्वधा’ इति प्रत्युक्ते,

“पितृ-पितामह-प्रपितामहेभ्यः स्वधोच्यताम्” इति पृष्ट्वा,
‘अस्तु स्वधा’ इति प्रत्युक्ते,
‘ओं स्वधा’ इति पात्र-स्थं सतिलं जलं पितृ-तीर्थेन अधो-मुखं निनीय,
पात्रम् अधोमुखं कृत्वा,

वैश्वदेविकान् उपवीती - ‘विश्वे देवाः ! प्रीयन्ताम्’ इत्यापृच्छ्य,
‘प्रीयन्तां विश्वेदेवाः’ इति प्रत्युक्ते,

प्राचीनावीती

स्वामिनः! … गोत्रं … शर्माणं पितरम् उद्दिश्य
मया कृतमिदं श्राद्धं,
यथा-शास्त्रानुष्ठितं, गया-श्राद्ध-फलदम्, अक्षय्य-तृप्तिकरं, भगवत्-प्रीणनं च भूयाद्
इति भवन्तो महान्तोऽनुगृह्णन्तु

इति प्रार्थ्य,

यथा-शास्त्रानुष्ठितं, गया-श्राद्ध-फलदम्, अक्षय्य-तृप्ति-करं, भगवत्-प्रीणनम् अस्तु

इति प्रत्युक्ते,

[[136]]

पिण्डार्थं, प्राशनार्थं च उद्धृत्य,
‘अन्नशेषः किं क्रियताम्’ इति प्रश्नः ।
‘इष्टैः सह भुज्यताम्’ इति प्रत्युक्तिः ।

दातारो नोऽभिवर्धन्तां
वेदाः सन्ततिरेव नः ।
श्रद्धा च नो मा व्यपगात्
बहु देयञ्च नोऽस्तु ॥
अन्नञ्च नो बहु भवेद्
अतिथीँश्च लभेमहि ।
याचितारश् च नस् सन्तु
मा च याचिष्म कञ्चन ॥

इति उपवीती प्रार्थ्य

भोक्तारः -

दातारो वोऽभिवर्धन्तां
वेदाः सन्ततिरेव वः ।
श्रद्धा च वो मा व्यपगात्
बहु देयञ्च वोऽस्तु ॥
अन्नञ्च वो बहु भवेद्
अतिथीँश्च लभध्वम् ।
याचितारश् च वस् सन्तु
मा च याचध्वं+++(छन्दः??)+++ कञ्चन ॥

इति प्रत्युक्ते

प्राचीनावीती - अधोमुखं (स्वधापात्रं) उत्तानं कृत्वा,

उपस्थानम्

(उपस्थानम्)

…{Loading}…
भास्करोक्त-विनियोगः

18षद्भिर्नमस्कारैरुपतिष्ठते - नमो व इति ॥

मूलम् (संयुक्तम्)

नमो॑ वᳶ पितरो॒ रसा॑य॒ नमो॑ वᳶ पितर॒श्शुष्मा॑य॒ नमो॑ वᳶ पितरो जी॒वाय॒ नमो॑ वᳶ पितरः [20] स्व॒धायै॒ नमो॑ वᳶ पितरो म॒न्यवे॒ नमो॑ वᳶ पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॒ ये॑ऽस्मिल्ँ लो॒के मान्तेऽनु॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त॒ ये॑ऽस्मिल्ँ लो॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयासम्

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

Keith

Homage to your taste, O fathers;

मूलम्

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

हे पितरः युष्मभ्यं नमः नमस्करोमि रसाय रसार्थं रसवान् भूयासमिति । ‘पितरो नमो वः’ इत्यादिकं षट्स्वप्यजुषज्यते ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितर॒श् शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

Keith

homage to your birth, O fathers;

मूलम्

नमो॑ वᳶ पितर॒श्शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

भट्टभास्कर-टीका

शुष्मो बलम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

Keith

homage to your life, O fathers;

मूलम्

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

जीवः प्राणः ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पि॒त॒र॒स् स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your [5] custom, O fathers;

मूलम्

नमो॑ वᳶ पि॒त॒र॒स्स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

स्वधा अन्नम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your anger, O fathers;

मूलम्

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

मन्युर्दीप्तिः, क्रोधो वा ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

Keith

homage to your terrors, O fathers; O fathers, homage to you.

मूलम्

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

भट्टभास्कर-टीका

घोरः क्रूरम् । एतयोः स्थाने प्राधान्यं प्रार्थ्यते । हे पितरः युष्मभ्यं नमः । फलमनपेक्ष्य सप्तमोयं नमस्कारः क्रियते । पुनर्वचनं फलनिरपेक्षया नमस्कारार्थम् । अन्य आहुः - पितृसंबन्धिभ्यो रसादिभ्यः प्रथमं षण्णमस्काराः, ततः पितृभ्य एव सप्तम इति ।

विश्वास-प्रस्तुतिः

य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॑ ।

Keith

Ye that are in that world, may they follow you;

मूलम्

य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॑ ।

भट्टभास्कर-टीका

ये एतस्मिन् लोके पितरः स्थ । एतस्मिन्निति पितृलोकं व्यपदिशति । स्थेति सर्वपित्रभिप्रायेणोक्तम् । ते सर्वे युष्माननुसन्तु युष्मत्प्रधाना भवन्तु । ‘हीने’ इत्यनोः कर्मप्रवचनीयत्वम् । युष्मानिति पित्रादित्रयं व्यपदिशति ।

विश्वास-प्रस्तुतिः

ये॑ऽस्मिल्ँ लो॒के मान् तेऽनु॑ ।

Keith

ye that are in this world, may they follow me.

मूलम्

ये॑ऽस्मिल्ँ लो॒के मान्तेऽनु॑ ।

भट्टभास्कर-टीका

अस्मिन् मनुष्यलोके मनुष्याः स्थ, ते सर्वे मामनु सन्तु मत्प्रधाना भवन्तु ।

विश्वास-प्रस्तुतिः

य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन् तेषाव्ँ॒ वसि॑ष्ठा भूयास्त ।

Keith

Ye that are in that world, of them be ye the most fortunate;

मूलम्

य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त ।

भट्टभास्कर-टीका

ये यूयमेतस्मिन् लोके स्थ तेषां पितॄणां यूयं वसिष्ठाः वसुमत्तमा भूयास्त ।

विश्वास-प्रस्तुतिः

ये॑ऽस्मिल्ँ लो॒के॑ ऽहन् तेषाव्ँ॒वसि॑ष्ठो भूयासम् ।

Keith

ye that are in this world, of these may I be the most fortunate.

मूलम्

ये॑ऽस्मिल्ँ लो॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयासम् ।

भट्टभास्कर-टीका

येऽस्मिन् लोके सन्ति मनुष्यास्तेषां मनुष्याणामहं वसिष्ठो वसुमत्तमो भूयासम् । वसुशब्दादिष्ठनि ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः ॥

[[137]]

…{Loading}…

स्वा॒दु॒-षँ॒सदः॑ पि॒तरो॑ वयो॒-धाः
कृ॑च्छ्रे॒-श्रितः॒ शक्ती॑वन्तो गभी॒राः।
चि॒त्रसे॑ना॒ ऽइषु॑-बला॒ ऽअमृ॑ध्राः+++(=अयोध्याः)+++
स॒तो+++(ऽधिक)+++-वी॑रा ऽउ॒रवो॑ व्रात-सा॒हाः ॥४६ ॥

…{Loading}…

ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः
शि॒वे नो॒ द्यावा॑-पृथि॒वी ऽअ॑ने॒हसा॑।
पू॒षा नः॑ पातु दुरि॒ताद् ऋ॑ता-वृधो॒
रक्षा॒ माकि॑र् नो ऽअ॒घशँ॑स ऽईशत ॥४७ ॥

…{Loading}…

+++(इषोः पुच्छे)+++ सु॒प॒र्णं व॑स्ते+++(=आच्छादयति)+++, मृ॒गो ऽअ॑स्या॒ दन्तो॒
+++(शल्ययोजने)+++ गोभिः॒ सन्न॑द्धा, पतति॒ प्रसू॑ता।
यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒
तत्रा॒स्माभ्य॒म् इष॑वः॒ शर्म॑ यँसन् ॥४८ ॥+++(5)+++

…{Loading}…
मूलम् (संयुक्तम्)

ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ षण्मा॑र्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

विश्वास-प्रस्तुतिः

अष्टाव् अ॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधाति ।
अ॒ष्टाश॑फाᳶ प॒शवᳶ॑, प॒शूने॒वाव॑ रुन्धे ।
षण्मा॑र्जा॒लीये॒ , षड्वा ऋ॒तवः॑ ।
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

मूलम्

अष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधाति ।
अ॒ष्टाश॑फाᳶ प॒शवᳶ॑, प॒शूने॒वाव॑ रुन्धे ।
षण्मा॑र्जा॒लीये॒ , षड्वा ऋ॒तवः॑ ।
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]

भट्टभास्कर-टीका

14अष्टाविति ॥ एकां याजुषीम् । सप्त च लोकंपृणाः ।
अन्येषु धिष्ण्येषु आग्नीध्रीयादिषु षडिति । एकां याजुषीं पञ्च लोकंपृणाः ।
ऋतव एव खलु पितृरूपेण वर्तन्ते । तस्माद् उभयान्प्रीणातीति ॥

इति पञ्चमे चतुर्थे एकादशोनुवाकः ॥

इत्य् उपस्थाय -
उपवीती - प्रदक्षिणीकृत्य प्रणम्योत्थाय,

आशीर्वचनम्

आशीर्वचनम्

भोक्तारः -

…{Loading}…

…{Loading}…

मूलम् (संयुक्तम्)

अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निर् आयु॑ष्मा॒न् ,
स वन॒स्-पति॑भि॒र् आयु॑ष्मा॒न् ,
तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ य॒ज्ञ [आयु॑ष्मा॒न्], स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ ब्रह्मायु॑ष्म॒त्, तद्ब्रा॑ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ दे॒वा आयु॑ष्मन्तः।
ते॒॑ऽमृते॑न [+आयु॑ष्मन्तः] [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयाऽऽयु॑ष्मन्त॒स्, तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा॑ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

इति आशीर्वचने कृते,
श्रीपाद-तीर्थं गृहीत्वा,

धन्यता

दक्षिणाभिः सम्पूज्य,

[[138]]

…{Loading}…
विश्वास-प्रस्तुतिः

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

मूलम्

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

विश्वास-प्रस्तुतिः

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

मूलम्

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

विश्वास-प्रस्तुतिः

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

मूलम्

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

मूलम्

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

इत्युपचारान् उत्त्वा,
पादौ निपीड्य

…{Loading}…

वा᳓जेवाजे ऽवत वाजिनो! नो
ध᳓नेषु, विप्रा! अमृता! ऋत-ज्ञाः ।
अस्य᳓ म᳓ध्वः पिबत माद᳓यध्वं
तृप्ता᳓ यात पथि᳓भिर् देव-या᳓नैः ॥

इति प्रतिब्राह्मणम् उक्त्वा,

१. प्राचीनावीती - ‘उत्तिष्ठत पितृ-पितामह-प्रपितामहाः!’
२. उपवीती - ‘उत्तिष्ठत विश्वे देवाः!’
३. ‘उत्तिष्ठ विष्णो!’

इति विसृज्य प्रणम्य,
प्रदक्षिणी-कृत्य आगच्छेत् ।

[[139]]

विसृष्टाश्च ब्राह्मणाः,

…{Loading}…

विश्वास-प्रस्तुतिः

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमः॑
(श्रेष्ठा॑य॒ नमो॑)
रु॒द्राय॒ नमः॒
का॒लाय॒+++(काला॑य॒)+++ नमः॒
कल॑-विकरणाय॒ नमो॒
बल॑-विकरणाय॒ नमो॒
(बला॑य॒ नमो॑)
बल॑-प्रमथनाय॒ नम॒स्
सर्व॑-भूत-दमनाय॒ नमो॑
म॒नोन्म॑नाय॒ +++(←स्वरः?? व्युत्पत्तिः?)+++ नमः॑ । (59)

स्वरोहः

तत्पुरुषग्रहणे -

वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॒ श्रेष्ठा॑य॒ नमो॑ रु॒द्राय॒ नमः॑ का॒लाय॒ नमः॑ कलवि॒कर॑णाय॒ नमो॑ बलवि॒कर॑णाय॒ नमो॒ बला॑य॒ नमो॑ बलप्र॒मथ॑नाय॒ नमः॑ सर्वभूत॒दम॑नाय॒ नमः॑।

मूलम्

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमो॑
रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒
कल॑विकरणाय॒ नमो॒
बल॑विकरणाय॒ नमो॒
बल॑प्रमथनाय॒ नम॒स्
सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॑ । (59)

मूलम् - आन्ध्र-पाठः

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमः॑
श्रे॒ष्ठाय॒ नमो॑
रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒
कल॑विकरणाय॒ नमो॒
बल॑विकरणाय॒ नमो॒
बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॑

मानसतरङ्गिणीकृत् - टिप्पनी

The vAmadeva mantra of the pa~nchabrahma-s is the mantra of the 11 rudra-s. It names a total of 11 rudra-s, an ancient number associated with the rudra-s. The shatapatha brAhmaNa of the shuklayajurveda gives a different list of rudra-s, 9 in number. Notably, this number is important in the later tAntrika tradition (e.g., navAtman bhairava and the navAtman mantra of the early Urdhvasrotas; 9^2 also underlies the structure of the vyomavyApin mantra).

9 female forms of these rudra-s are the 9 shakti-s of the central maNDala of shiva in both the dakShiNasrotas and Urdhvasrotas. They are arranged as an ogdoad in an 8-petalled lotus around sadAshiva or svachChanda-bhairava, with manonmanI as the shakti in the center alongside shiva.+++(4)+++

However, some texts, like the saiddhAntika texts, kiraNa and parAkhya, list 9 rudra-s.
These are extracted from the original 11 of the vAmadeva mantra parallel to the 9 shakti-s of rudra:

  1. vAmadeva; 2. jyeShTha; 3. rudra; 4. kAla; 5. kalavikaraNa (kalAkShepa); 6. balavikaraNa (balakShepa); 7. balapramathana; 8. sarvabhutasdamana; 9. manonmana

The corresponding Śaktis extracted from this mantra include all but shreSTha and bala, suggesting that the drAviDapATha could be the older one. - GA

The parAkhya tantra, which lists slightly different variants (in brackets) of some of these rudra-s mentions explicitly that they reside with the respective shakti-s.

The sAdhaka of the nine-bIja navAtman invokes the 9 rudra-s on padmapITha-s blossoming in the chidabdhiH.

But analysis of the pa~nchabrahma-s from various sources shows that the vAmadeva yajuSh is polymorphic across different traditions:

The 9-name version:

We believe this variant goes back to the late kR^iShNa-yajurveda itself. Although the bodhAyana-s follow the taittirIya shruti, they have their own mantrapATha and prayoga with variants. They have a rite known as the pa~nchabrahma-nyAsa, which gives the vAmadeva mantra with 9 names:

vAmadevAya namo jyeShThAya namo rudrAya namaH kAlAya namaH kalavikaraNAya namo balavikaraNAya namo balapramathanAya namaH sarvabhUtadamanAya namo manonmanAya namaH ||

The 9 names are used for the rudra-sarvopachAra-pUjA in the bodhAyana payoga.

This 9-name version of the brahma-mantra was inherited by some siddhAnta-tantra-s, e.g., 1. kAlottara, which specifies it for several prayoga-s. 2. nishvAsa-kArika. The system of 9 rudra-s and 9 shakti-s is clearly derived from the bodhAyana variant. The invocation of the rudra-shakti-s specified by the female forms of the alternating names in the mantra is already seen in the bodhAyana prayoga.

The 8-name version:

OM vAmadevAya namo jyeShThAya namo rudrAya namaH kAlAya namaH kalavikaraNAya namo balapramathanAya namaH sarvabhUtadamanAya namo manonmanAya namaH ||

This is specified by the second adhyAya of the pAshupatasUtra-s. Some saiddhAntika-s prescribe this instead of the 9-name version. For example, it is explicitly provided by the deshika-s j~nAnashiva and vimalashiva, and mahArAja bhojadeva paramAra in their respective prayoga manuals.

A corrupt version of the 8-name version is also provided by the pa~ncharAtra vaiShNava sanatkumAra tantra.

The 7-name version:
OM vAmadevAya jyeShThAya namo rudrAya cha namaH | kalavikaraNAya namo balapramathanAya namaH | sarvabhUtadamanAya shrImanonmanAya namaH ||

This version is found in the sanatkumArIya pa~nchabrahma (siddha-shaMkara) tantra. Above is the version in the printed text. Its quasi-metrical variant is seen in a prayoga based on it:

vAmadevAya jyeShThAya namo rudrAya cha namaH |
namaH kalavikaraNAya balapramathanAya |
namaH sarvabhUtadamanAya manonmanAya cha ||

The more common 11, 9, and 8 name variants probably emerged early and existed side by side, depending on the theological principle onto which they were mapped.

(इति मन्त्रं जपेयुः)


  1. अक्षय्यासनयोष् षष्ठी,
    द्वितीयाऽऽवाहने स्मृता ।
    अन्नदाने चतुर्थी स्यात्,
    शेषाः सम्बुद्धयः स्मृताः ॥ ↩︎

  2. अवधेयम् -
    अस्मिन् प्रयोगे पितृश्राद्धरीतिः प्रदर्शिता ।
    मातुश्श्राद्धे - सङ्कल्पे, वरणे, अर्चनादौ, अन्नजपे, दत्तकरणे तत्रतत्र वक्तव्य-प्रकारः विद्वत्-पुरोहित-मुखाद् अवगन्तव्यः ।
    एवं मातामहादि-श्राद्धे अन्य् आर्थे क्रियमाणे च ॥

    इति +अभिनव-देशिकाः । ↩︎

  3. १. ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
    धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ↩︎

  4. २. मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी॑र्नस्स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥
    मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ (ओं मधु॒ मधु॒ मधु॑ ॥) ↩︎