०३ होमात् प्राक्

श्राद्धदिने सिद्धता

श्वः दन्त-धावनं वर्जयित्वा,
नद्यां स्नात्वा, सन्ध्यादि कृत्वा,
श्राद्ध-देशं महा-नसादि च गोमयेन +उपलिप्य,
सौवर्णरजतताम्रादीनि मृन्मयानि वा भाण्डानि सम्पाद्य,
शुद्धोदकेन मृन्मयानि, अन्यानि च यथायथं संशोध्य,
श्राद्धप्रदेशे सोपकरणे तिलान् प्रकीर्य,
श्राद्धोपकरणानि अभ्युक्षणेन सम्प्रोक्ष्य

निमन्त्रित-ब्राह्मणान् गृहम् आनीय,
सुप्रक्षालित-पाणिपादान् आचान्तान् आसनेषु +उपवेश्य,
गन्धपुष्पाक्षतादिभिर् अभ्यर्च्य,

[[104]]

पुनर्-निमन्त्रणम्

पादोपसङ्ग्रहणपूर्वकं
“गोत्रस्य शर्मणः पित्रादेः अद्य श्राद्धं भविष्यति…”
इत्यादि-विशेष-युक्तं पूर्ववत् निमन्त्रयेत् ।

निमन्त्रिताश् च ब्राह्मणाः निमन्त्रणानन्तरं ‘आ ब्रह्मन्’ इति दोग्ध्रीं,
मध्याह्ने ‘भवता क्षणः कर्तव्यः’ इति नियोगानन्तरं
‘नमस्सहमानाय, नमो दुन्दुभ्याय च’ इति निषङ्गिणीं,
परिवेषणकाले ‘किँऽस्विदासीत्’ इति ब्रह्मोद्यं च जपेयुः॥

[[106]]

पाक-स्नपनादि

अथ शास्त्रोक्तप्रकारेण विहितपदार्थानां पाकं कुर्यात् ।
अथ द्वादशघटिकाभ्य ऊर्ध्वं
निमन्त्रित-ब्राह्मणेभ्यः ताम्रेण पात्रेण
प्रत्येकं तैलं मधूकान्यदुद्वर्तनं, स्नानं, स्नानीयं, दन्तधावनकाष्ठं च दत्वा,
अभ्यङ्गनिषिद्ध-तिथिषु आमलकं दत्वा,
तस्यापि निषेधे यथोचितं स्नानीयं दत्वा,
आत्म-पुत्र-शिष्यादि-मुखेन वा स्वयं वा अभ्यज्य,
स्नापयित्वा,
स्वयं च स्नात्वा,
कौपीनं परिधानं उत्तरीयं च धृत्वा,
तान् अपि धारयित्वा,

माध्याह्निकादि

धृतोर्ध्वपुण्ड्रः कृत-माध्याह्निक-सन्ध्यः,
अकृत-वस्त्र-निष्पीडनः,
भगवद्-आराधनं कृत्वा,
श्राद्धार्थात् अन्येनान्नेन वैश्वदेवं
चतुरो यज्ञांश् च पचनाग्नौ कृत्वा,
अ-कृत-ब्रह्म-यज्ञश् चेत् - तम् अपि कृत्वा,

श्राद्धोपयुक्त-पदार्थान् समीपतो निधाय,
स्नातान् आहूय आगतान् -

पाद्यादि

उपवीती - प्रत्येकं प्रत्युत्थाय “स्वामिनः! स्वागतम्” इति उक्त्वा,

स्वामिनः!
मार्ग-गति-मन-उपहति-शुद्ध्य्-अर्थम् इदं पाद्यं,
इदम् आचमनीयम्

[[107]]

इति दत्वा,
अनन्त-गरुडादिभ्योऽन्यत् निवेद्य,
तेभ्यो अनिवेदितं भगवन्-मात्र-निवेदितं हविः,
तन्-मात्र-समर्पितं पाद्य-गन्ध-पुष्पादिकं च परिकल्प्य,

औपसनाग्नि-सिद्धता

कृत-प्रातर्-औपासनश् चेत्
आत्म-समिद्-आरोपणे लौकिकाग्नौ उपावरुह्य,
अ-कृत-प्रातर्-होमश् चेत्,
तम् अपि यथावत् कृत्वा,
द्विर् आचम्य,

अनुज्ञा

प्राचीनावीती,

ओं
समस्त-सम्पत्-समवाप्ति-हेतवः
समुत्थितापत्-कुल-धूम-केतवः ।
अपार-संसार-समुद्र-सेतवः
पुनन्तु मां ब्राह्मण-पाद-पांसवः ॥

उपवीती, – ‘देवेभ्यो नमः’;
प्राचीनावीती, ‘पितृ-पितामह-प्रपितामहेभ्यो नमः’;

उपवीती, ‘विष्णवे नमः’ (इति तिलाक्षतैः यथार्हम् अभ्यर्च्य)

प्राचीनावीती,

स्वामिनः!
अस्मिन् दिवसे … गोत्रं.. शर्माणं (मम) पितरम् उद्दिश्य
प्रत्याब्दिक-श्राद्धं कर्तु-कामो ऽस्मि।

एतद्-देशकालयोः,
अस्मिन् गेहे वर्तमानानां पक्वापक्वानां पदार्थानां श्राद्धार्हता,
अस्या भूमेः, अस्य क्षेत्रस्य गया-तुल्यता,
मम च पितुः श्राद्धकरणे अधिकार-सम्पद् अस्तु

इति भवन्तो महान्तोऽनुगृह्णन्तु

(इति प्रार्थ्य)

“तथास्तु; अधिकारसम्पदस्तु” - इत्यनुगृहीतः,

उपवीती -

श्राद्धभूमिं गयां ध्यात्वा
ध्यात्वा देवं गदाधरम् ।

प्राचीनावीती -

वस्वादींश् च पितॄन् ध्यात्वा
ततः श्राद्धं प्रवर्तये ॥

इत्युच्चार्य

“प्रवर्तय” इत्यनुज्ञातः

[[108]]

सङ्कल्पः

उपवीती - दर्भेष्वासीनः, दर्भान् धारयमाणः,
त्रिः प्राणान् आयम्य,
गुरु-परम्पराम् अनुसन्धाय
इष्टदेवतां च प्रणम्य ध्यात्वा,

प्राचीनावीती

हरिर् ओं, तत्, श्रीगोविन्द ….
अस्यां पुण्यतिथौ 1
… गोत्रस्य .. शर्मणः मम पितुः श्राद्धं करिष्ये

इति संकल्प्य (“कुरुष्व” - इत्य् अनुज्ञातः) -

कृतञ्च करिष्यामि भगवन्
नित्येन भगवत्-प्रीत्य्-अर्थेन
महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन
पितुः श्राद्धेन
भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि ।

भगवतो बलेन, भगवतो वीर्येण, भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि, भगवतो वासुदेवस्य ।

इति मन्त्रम् अनुसन्धाय,

देवताभ्यः पितृभ्यश्च ...{Loading}...

देवताभ्यः पितृभ्यश्च
महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै
नित्यम् एव नमो नमः ॥

इति श्लोकं (त्रिः) सङ्कीर्त्य सात्त्विकत्यागं कुर्यात् ।

भगवान् एव स्वनियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्वशेषतैकरसेन मया
स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय
परमपुरुषः सर्वशेषी स्व-शेष-भूतम् इदं पितुः प्रत्याब्दिकश्राद्धाख्यं कर्म
स्वस्मै स्वप्रीतये स्वयमेव कारयति ।

[[109]]


  1. आवाहन-अर्घ्य-संकल्प-
    पिण्डान्न-त्याग-तर्पणे ।
    अक्षय्यासनयोः, पाद्ये,
    गोत्रं नाम च कीर्तयेत् ॥ ↩︎