प्राक्सिद्धता
पित्रोः प्रत्याब्दिकश्राद्धदिनात्पूर्वं
त्रिंशद्दिनेषु पञ्चदशसु वा,
अत्यन्ताशक्तौ त्रिषु दिनेषु वा
परान्नं क्षौरं च वर्जयित्वा,
श्राद्धदिनात् पूर्वदिने
दन्तधावन-तैलाभ्यञ्जनादि वर्जयित्वा
मध्याह्न एव वस्त्रशोधनादि कृत्वा,
आतपे शुष्कीकृत्य,
श्राद्धप्रदेशं गोमयादिना उपलिप्य,
तत्र भोजनादि वर्जयित्वा,
रात्रौ सायम्-औपासनं कृत्वा,
कृतसायम्-आशान् श्वित्रादि-दोष-रहितान् यथोक्त-गुण-सम्पन्नान् निमन्त्रयेत् ।
निमन्त्रणम्
शीलवृत्तादि-गुण-सम्पन्नानां शारीरक-बन्धूनाम्, अन्येषां च समवाये
दूरस्थान् अपि अन्यान् एव गुणवतो निमन्त्रयेत् ।
अन्यस्य निर्गुणत्वे
सगुणं बन्धुं निमन्त्रयेत्;
उभयोः निर्गुणत्वे बन्धुम् एव निमन्त्रयेत् ॥
[[103]]
तत्-प्रकारः - प्रथमं उपवीती - देवार्थे ब्राह्मणान् पादाव् उपसंगृह्य,
श्वः श्राद्धं भविता,
तत्र आहवनीयार्थे
भवद्भिः प्रसादः करणीयः
इति देवार्थे द्वौ एकं वा निमन्त्र्य,
अक्रोधनैः शौचपरैः
सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च
मया च श्राद्धकारिणा ॥
इत्यादिना
इतः प्रभृति
अध्वगमन+आयास–औषधादि-भक्षण–प्रतिग्रह+अध्ययन-
भारवहन–असम्भाष्य-सम्भाषण–
परहिंसा-कलहादि-वर्जन–पुरस्-सरं
ब्रह्मचर्य-शौचादि-युक्तैः भवद्भिर् भवितव्यम् ॥
इति निमन्त्रित-नियमांश् च आवेद्य - ‘अविघ्नेयं रजनी यदि, तथास्तु’ ॥ इति प्रत्युक्तः
प्राचीनावीती,
एवमेव पित्रर्थे, पितामहार्थे, प्रपितामहार्थे, च त्रीन्,
सर्वार्थे एकं वा निमन्त्र्य,
उपवीती, विष्ण्वर्थे च एकं निमन्त्र्य,
स्वयमशक्तौ शिष्यादिमुखेन वा निमन्त्र्य,
तैः साकं रात्रौ उक्त-नियम-विशिष्टः स्थित्वा,