स्वार्ध-भागेन वैश्वदेवं पञ्च-महा-यज्ञांश् च यथा-सूत्रं यथा-सम्प्रदायं कुर्यात् तत्-प्रकारः - पादौ प्रक्षाल्य - द्विर् आचम्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, प्रातर् वैश्वदेवं करिष्ये
इति सङ्कल्प्य -
कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातर् वैश्वदेवेन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि
इति सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य
इति बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातर् वैश्वदेवाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -
इति सात्त्विक-त्यागं कृत्वा - औपासनाग्निं पचनाग्निं वा प्रतिष्टापयेत् - तत्-प्रकारः - स्थण्डिलं कल्पयित्वा - प्राचीः पूर्वम् उदक् सग्ग् स्थं दक्षिणारम्भम् आलिखेत् - अथोदीचीः पुरस् सग्ग् स्थं पश्चिमारम्भम् आलिखेत् -
[[120]]
अवाक्करो ऽभ्युक्ष्य - तृणं नैर्ऋत्यां निरस्य - अप उपस्पृश्य - “भूर् भुवस् सुवर् ओम्” इति, अग्निं प्रतिष्ठाप्य - उत्सृज्यते ऽवोक्षण-तोय-शेषं प्राक्-तोयम् अन्यन् निदधात्य् उदग् वा यथा बहिस् स्याच् च परिस्तराणाम् - परिस्तीर्य - आत्मनः पुरतो दर्भान् संस्तीर्य - तद् उपरि प्रोक्षणी-पात्रं निधाय - जलं पूरयेत् - भार्यादिः पाक-कृज् जनो वैश्वदेवार्थं स्थापितम् अन्नम् आदाय “भूतम्” इत्य् उक्त्वा यजमानाय दद्यात् - “तत्सुभूतं विराडन्नन्तन्माक्षायि” इत्य् उच्चरन् यजमानो गृहीत्वा - अग्नाव् अधिश्रित्य - वाम-भागे निक्षिप्य - प्रोक्ष्य दक्षिणोत्तरतया द्वेधा विभज्य1 - उत्तर-भागं पूर्व-पश्चिमतया त्रेधा विभज्य - दक्षिण-भागं पूर्व-पश्चिमतया न्यूनाधिकत्वेन द्वेधा विभज्य -
ॐ अदितेनु मन्यस्व - ॐ अनुमतेनु मन्यस्व - ॐ सरस्वतेनु मन्यस्व - ॐ देवसवितः प्रसुव [[TODO: परिष्कार्यम्]]
इत्य् अग्निं परिषिच्य - अग्नाव् एकां समिधम् आधाय - दक्षिण-भागे पूर्व-भागाद् आमलक-प्रमाणम् अन्नं संहताङ्गुलिना ऽऽदाय - हविः-पात्रं वाम-हस्तेन स्पृशन्, उत्तानेन पाणिना, अङ्गुष्ठाग्रेण हविर् निष्पीड्य,
“ॐ अ॒ग्नये॒ स्वाहा॑” इति हुत्वा “अग्नय इदं न मम” इत्य् उक्त्वा -
“ॐ विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑” इति हुत्वा “विश्वेभ्यो देवेभ्य इदं न मम” इत्य् उक्त्वा -
“ॐ ध्रु॒वाय॑ भू॒माय॒ स्वाहा॑” इति हुत्वा “ध्रुवाय भूमायेदं न मम” इत्य् उक्त्वा -
[[121]]
“ॐ ध्रु॒व॒क्षित॑ये॒ स्वाहा॑” इति हुत्वा “ध्रुवक्षितय इदं न मम” इत्य् उक्त्वा,
“ॐ अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑” इति हुत्वा “अच्युतक्षितय इदं न मम” इत्य् उक्त्वा,
“ॐ अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑” इति पूर्वाहुत्य्-असंयुतम्, अग्नौ, ऐशान्यां, हुत्वा “अग्नये स्विष्टकृत इदं न मम” इत्य् उक्त्वा,
पुनर् एकां समिधम् आधाय -
ॐ अदितेन्वमग्ँस्थाः - अनुमतेन्वमग्ँस्थाः - सरस्वतेन्वमग्ँस्थाः - देवसवितः प्रासावीः” [[TODO: परिष्कार्यम्]]
इति परिषिञ्चेत्
“चक्राकारे तु - अग्नये स्वाहा - अग्नय इदं न मम” - “सोमाय स्वाहा - सोमायेदं न मम” - “विश्वेभ्यो देवेभ्यस् स्वहा”
इत्य् एवं क्रमेण होमः -
[[122]]
बलि-हरण-क्रमः
दक्षिण-भाग-द्वयान्नम् एकी-कृत्य - अग्नेः पश्चाद् भूमिम् अद्भिस् सम्मृज्य - व्याहृतिभिः प्रोक्ष्य -
“ॐ धर्मा॑य॒ स्वाहा॑” इति दत्त्वा - “धर्मायेदं न मम” इत्य् उक्त्वा -
तद्-उत्तरतः,
“ॐ अधर्मा॑य॒ स्वाहा॑” इति दत्त्वा - “अधर्मायेदं न मम” इत्य् उक्त्वा - उभयं परिषिच्य -
धर्म-बलेः पश्चिमाद् आरभ्य, अद्भिस् सम्मृज्य - प्रोक्ष्य
“ॐ अ॒द्भ्यस् स्वाहा॑” इति दत्त्वा - “अद्भ्य इदं न मम” इत्यय् उक्त्वा परिषिच्य -
तत्-पूर्वतः, अद्भिस् सम्मृज्य, प्रोक्ष्य -
“ॐ ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑” इति दत्त्वा - “ओषधिवनस्पतिभ्य इदं न मम” इत्य् उक्त्वा -
तत्-पूर्वतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ इति दत्त्वा - “रक्षोदेवजनेभ्य इदं न मम” इत्य् उक्त्वा उभयं परिषिच्य -
अधर्म-बलेर् उत्तरतः पश्चिमाद् आरभ्य तत् स्थलम् अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ गृह्या॑भ्य॒स् स्वाहा॑” इति दत्त्वा - “गृह्याभ्य इदं न मम” इत्य् उक्त्वा -
तत्-पुरतः अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ अ॒व॒साने॑भ्य॒स् स्वाहा॑” इति दत्त्वा - “अवसानेभ्य इदं न मम” इत्य् उक्त्वा -
तत्-पुरतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ अ॒व॒सान॑ पतिभ्य॒स् स्वाहा॑” इति दत्त्वा - “अवसान पतिभ्य इदं न मम” इत्य् उक्त्वा -
तत्-पुरतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑” इति दत्त्वा - “सर्वभूतेभ्य इदं न मम” इत्य् उक्त्वा - चतुर्णाम् एकं परिषेचनं कृत्वा - अधर्म-बलेः पश्चिमाद् आरभ्य, अब्-बलेर् उत्तरतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
[[123]]
“ॐ कामा॑य॒ स्वाहा॑” इति दत्त्वा “कामायेदं न मम” इत्य् उक्त्वा - परिषिच्य -
तत्-पुरतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ अ॒न्तरि॑क्षाय॒ स्वाहा॑” इदि दत्त्वा - “अन्तरिक्षायेदं न मम” इत्य् उक्त्वा - परिषिच्य -
तत्-पुरतः, अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ यदेज॑ति॒ जग॑ति॒यच्च॒ चेष्ट॑ति॒नाम्नो॑ भा॒गोयन्नाम्ने॒ स्वाहा॑” इति दत्त्वा - “नाम्न इदं न मम” इत्य् उक्त्वा - परिषिञ्चेत् एवं दत्त्वाः द्वादश-बलयः पूर्वाद् वा पश्चिमाद् वा उत्तराद् वा दक्षिणाद् वा यथा ऋजवो भवेयुः तथा कल्पनीयाः -
द्वादश-बलिभ्यो दक्षिणतः, पश्चिमाद् आरभ्य, प्राग्-अवधि, दीर्घं, अद्भिस् सम्मृज्य - प्रोक्ष्य - पश्चिमाद् आरभ्य,
“ॐ पृ॒थि॒व्यै स्वाहा॑” इति दत्त्वा “पृथिव्या इदं न मम” इत्य् उक्त्वा -
“ॐ अ॒न्तरि॑क्षाय स्वाहा॑” इति दत्त्वा “अन्तरिक्षायेदं न मम” इत्य् उक्त्वा -
“ॐ दि॒वे स्वाहा॑” इति दत्त्वा “दिव इदं न मम” इत्य् उक्त्वा -
“ॐ सूर्या॑य॒ स्वाहा॑” इति दत्त्वा “सूर्यायेदं न मम” इत्य् उक्त्वा -
“ॐ च॒न्द्रम॑से स्वाहा॑” इति दत्त्वा “चन्द्रमस इदं न मम” इत्य् उक्त्वा -
[[124]]
“ॐ नक्ष॑त्रेभ्य॒स् स्वाहा॑” इति दत्त्वा “नक्षत्रेभ्य इदं न मम” इत्य् उक्त्वा -
“ॐ इन्द्रा॑य॒ स्वाहा॑” इति दत्त्वा “इन्द्रायेदं न मम” इत्य् उक्त्वा -
“ॐ बृह॒स्पत॑ये स्वाहा॑” इति दत्त्वा “बृहस्पतय इदं न मम” इत्य् उक्त्वा -
“ॐ प्र॒जाप॑तये॒ स्वाहा॑” इति दत्त्वा “प्रजापतय इदं न मम” इत्य् उक्त्वा -
“ॐ ब्रह्म॑णे॒ स्वाहा॑” इति दत्त्वा “ब्रह्मण इदं न मम” इत्य् उक्त्वा -
सर्वेषां एकं परिषेचनम्।
पृथिव्य्-आदिषु दश-बलिषु, आदितः, अब्-बलि-पर्यन्तं चतुष्टयं, मध्ये धर्म-बलि-पर्यन्तं चतुष्टयं, तत्-पुरतो बलि-द्वयं च कुर्यात् - अयम् एव व्यजनाकारः।2
एतद्-दक्षिणतः।
प्राचीनावीती - भूमिम् अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ स्व॒धापि॒तृभ्यः॒" इति पितृ-तीर्थेन बलिं दत्त्वा - “पितृभ्य इदं न मम” इत्य् उक्त्वा -
उपवीती - तद्-उत्तरतः, भूमिम् अद्भिस् सम्मृज्य - प्रोक्ष्य -
“ॐ नमो॑रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑” इति दत्त्वा - “रुद्राय पशुपतय इदं न मम” इत्य् उक्त्वा - प्राचीनावीती पितृ-बलिं अ-प्रदक्षिणं परिशिच्य - उपवीति - रुद्र-बलिं परिशिच्य -
[[125]]
अवशिष्टान्ने मुष्टि-त्रयं पात्रान्तरे गृहीत्वा - बहिर् गत्वा - अद्भिर् भूमिं सम्मृज्य - प्रोक्ष्य -
ये भूताः प्रचरन्ति दिवाबलिमिच्छन्तोवितुदस्य प्रेष्याः, तेभ्यो बलिम्पुष्टि कामोहरामि मयि पुष्टिम्पुष्टि पतिर्दधातु स्वाहा [[TODO: परिष्कार्यम्]]
इति दत्त्वा - “दिवाचरेभ्यो भूतेभ्य इदं न मम” इत्य् उक्त्वा -
परिषिच्य - तत्-पुरतः,
3 ऐन्द्र-वारुण-वायव्यास् सौम्यायां याश् च नैर्ऋताः।
वायसाः प्रतिगृह्णन्तु बलिं भूमौ मयार्पितम्
इति दत्त्वा - “वायसेभ्य इदं न मम” इत्य् उक्त्वा -
परिषिच्य - तत्-पुरतः,
4 यौ श्वानौ श्याम-शबलौ वैवस्वत-कुलोद्भवौ।
ताभ्यां बलिं प्रदास्यामि स्याताम् एताव् अ-हिंसकौ
इति दत्त्वा - “श्वभ्याम् इदं न मम” इत्य् उक्त्वा -
परिषिच्य
भार्यादिना धर्मादि-चतुर्-विंशति-बलीन् अन्यत्रापनाय्य - अग्नि-समीपम् आगत्य -
प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थम्, अग्र-दानं करिष्ये
इति सङ्कल्प्य -
अग्नेर् उत्तरतः भूमिम् अद्भिस् सम्मृज्य - प्रोक्ष्य - अन्नस्य, उत्तर-भाग-त्रये पूर्व-भागे, अन्न-मुष्टिम् आदाय -
“अकामोपहताय श्रोत्रियायाग्रं ददामि” इति भूमौ निधाय -
“अकामोपहताय श्रोत्रियायेदं न मम” इत्य् उक्त्वा -
परिषिञ्चेत्।
[[126]]
पञ्च-महा-यज्ञ-क्रमः।
श्रोत्राचमनं कृत्वा - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं देव-यज्ञेन यक्ष्ये
इति सङ्कल्प्य -
विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मृता॑त्स॒त्यमुपै॑मि
इति दक्षिण-कर-तलेन, अप आदाय वाम-कर-तलं सम्मृज्य -
ॐ अदितेनु मन्यस्व - ॐ अनुमतेनु मन्यस्व - ॐ सरस्वतेनु मन्यस्व - देवसवितः प्रसुव [[TODO: परिष्कार्यम्]]
इत्य् अग्निं परिषिच्य - अग्नौ एकां समिधं दर्भ-द्वयं वा प्रक्षिप्य - उत्तर-भाग-द्वये पश्चिम-भागाद् धविर् गृहीत्वा - “ॐ दे॒वेभ्य॒स् स्वाहा॑” इत्य् अग्नौ हुत्वा - “देवेभ्य इदं न मम” इत्य् उक्त्वा - एकां समिधं दर्भ-द्वयं वा प्रक्षिप्य -
ॐ अदितेन्वमग्ँस्थाः - अनुमतेन्वमग्ँस्थाः सरस्वतेन्वमग्ँस्थाः - देवसवितः प्रासावीः [[TODO: परिष्कार्यम्]]
इति पुनः परिषिच्य -
वृष्टि॑रसि॒ वृश्च॑मेपा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इति दक्षिण-कर-तलेन अप आदाय - वाम-कर-तलं सम्मृज्य -
श्रोत्राचमनं कृत्वा - प्राचीनावीति -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, पितृ-यज्ञेन यक्ष्ये -
इति सङ्कल्प्य -
विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मृता॑त्स॒त्यमुपै॑मि
इति दक्षिण-कर-तलेन अप आदाय, वाम-कर-तलं सम्मृज्य - आग्नेर् दक्षिणतो भूमिम् अद्भिस् सम्मृज्य - प्रोक्ष्य - देव-यज्ञ-शेषाद् धविर् गृहीत्वा - “ॐ पि॒तृभ्य॑स्स्व॒धास्तु॑"5 इति पितृ-तीर्थेन बलिं निधाय - “पितृभ्य इदं न मम” इत्य् उक्त्वा - अ-प्रदक्षिणं परिषिच्य -
[[127]]
वृष्टि॑रसि॒ वृश्च॑मेपा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इति दक्षिण-कर-तलेन, अप आदाय, वाम-कर-तलं सम्मृज्य - उपवीती -
श्रोत्राचमनं कृत्वा - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं भूत-यज्ञेन यक्ष्ये
इति सङ्कल्प्य -
विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मृता॑त्स॒त्यमुपै॑मि
इति दक्षिण-कर-तलेन, आप आदाय, वाम-कर-तलं सम्मृज्य - अग्र-दानात् पश्चिम-भागे अद्भिस् सम्मृज्य - प्रोक्ष्य - देव-पितृ-यज्ञ-शिष्टं हविर् गृहीत्वा - “ॐ भूतेभ्यो॑ब॒लिँ6 ह॑रामि” इति देव-तीर्थेन भूत-बलिं दत्त्वा - “भूतेभ्य इदं न मम” इत्य् उक्त्वा - परिषच्य -
वृष्टि॑रसि॒ वृश्च॑मेपा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इति दक्षिण-कर-तलेन, अप आदाय वाम-कर-तलं सम्मृज्य -
श्रोत्राचमनं कृत्वा - प्राणानायम्य
श्रीभगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, मनुष्य-यज्ञेन यक्ष्ये
इति सङ्कल्प्य -
विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मृता॑त्स॒त्यमुपै॑मि
इति दक्षिण-कर-तलेन, अप उपस्पृश्य, वाम-कर-तलं सम्मृज्य - मध्यम-भागाद् अग्रदानान्न-द्वि-गुणं गृहीत्वा - अग्र-दान-भूत-बल्योर् मध्ये “म॒नु॒ष्ये॑भ्यो॒ हन्ता॑”7 इति देव-तीर्थेन भूमौ बलिं निधाय -“मनुष्येभ्य इदं न मम” इत्य् उक्त्वा - परिषिच्य -
वृष्टि॑रसि॒ वृश्च॑मेपा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इति दक्षिण-कर-तलेन, अप आदाय, वाम-कर-तलं सम्मृज्य -
[[128]]
श्रोत्राचमनं कृत्वा - “ॐ श्री-विष्ण॑वे॒ स्वाहा॑” इत्य् अग्नौ दर्भौ प्रक्षिप्य - ‘श्री-विष्णवे परमात्मन इदं न मम" इत्य् उक्त्वा - उत्थाय
अग्नेनय सुपथाराये आस्मान् विश्वानि देव वयुनानि विद्वान्, युयोध्यस्मज्जहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम, [[TODO: परिष्कार्यम्]]
ॐ अग्नये नमः,
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं हुताशन।
यद् धुतं तु मया देव परिपूर्णं तद् अस्तु ते।
प्रायश्-चित्तान्य् अ-शेषाणि तपः-कर्मात्मकानि वै।
यानि तेषाम् अ-शेषाणां कृष्णानुस्मरणं परम्
इत्य् उपस्थाय - प्रणम्य - अभिवादयेत्।
पितृ-बलिं भूत-बलिं बहिः प्रक्षिप्य, पात्र-स्थम् अवशिष्टान्नं,भोजनार्थान्नेन प्राणाहुतेः परं संयोजयेत् - अग्र-दानं मनुष्य-यज्ञं च अतिथिभ्यो दद्यात्।
आचम्य
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातर् वैश्वदेवाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान् -
इति सात्त्विक-त्यागं कृत्वा -
कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातर् वैश्वदेवेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः
इति प्रातर् वैश्वदेवं भगवति समर्पयेत्।
प्रातः कृत-ब्रह्म-यज्ञश् चेत् तन् न कुर्यात् - तच् च वैश्वदेवं लौकिकाग्नौ पाके तत्र कुर्यात् - वैदिके पाके तत्र कृत्वा शेषं द्वाव् एव भुञ्जीयाताम् - कदाचिद् इज्यायाः क्षीण-वृत्तितया कलहादि-वशेन वा तृतीय-काले करणाशक्तौ यत्र क्वचिद् अवसरे भोजनात् पूर्वं कुर्यात्।
एकस्मिन् दिने श्रवण-जन्म-र्क्ष-सङ्क्रान्त्य्-उपराग-द्वादशी–पर्व-द्वय–गुरु-जन्म-र्क्षादि-निमित्त-वशेनानेक-भगवद्-आराधने प्राप्ते अभिगमनोपादान-संकोचेन निमित्त-क्रमेण कुर्यात् -
ततो यतिभ्यो ब्रह्म-चारिभ्यश् च, भिक्षां दद्यात् - वैश्वदेवात् पूर्वं यतयो ब्रह्म-चारिणश् च भिक्षार्थम् आगताश् चेद् वैश्वदेवार्थम् अन्नम् उद्धृत्य, पात्रान्तरे निधाय, यतिभ्यो भिक्षां दद्यात् - उद्धृतान्नेन वैश्वदेवं कुर्यात्
[[129]]
ततः अभिषेक-तीर्थं स्वीकुर्यात्।
ततः अतिथिम्8 अङ्कणे गो-दोहन-मात्रं,9 दिदृक्षुस् स्थित्वा, अतिथीन्, अभ्यागतान्,10 बालान् वृद्धान्, रोगिणः, गर्भिणीः, परिचारकांश् च प्रथमं भोजयेत्।
सायम्
ततः, वैश्वदेवे षड्-आहुतीर् हुत्वा
ये भूताः प्रचरन्ति नक्तम्बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिम्पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा [[TODO: परिष्कार्यम्]]
“नक्तं चरेभ्यो भूतेभ्य इदम्” इति मन्त्रेण वैहायस-बलिं च कुर्यात्। बलि-हरण-पञ्च-महा-यज्ञांस् तु न कुर्यात्।
केचिद् बलि-हरणम् अपि कुर्वन्ति - यथा-सम्प्रदायम् अनुष्ठेयम्।
-
वैश्वदेवान्न-विभाग-क्रमं त्व् अनुपद-संयोजित-चक्राकार-व्यजनाकार-प्रतिमासत्रयोः प्रकटी-कृतो वर्तते। ↩︎
-
ध्वजाकार-नराकार-वल्मीकाकार-चक्राकार-व्यजनाकार-प्रभृतयो बहवो वैश्वदेवाकारा धर्म-शास्त्रे दृश्यन्ते - तेषु चक्राकार-व्यजनाकाराव् एव, अ-कामानां विहितौ - तयोर् आकारयोर् बलीनां परिषेचनानां च करण-प्रकारा वैश्वदेव-प्रकरणान्ते पृथक् पृथङ् निक्षिप्तयोश् चित्रयोर् द्रष्टव्याः। ↩︎
-
सम्प्रदाये सति दद्यात्। ↩︎
-
सम्प्रदाये सति दद्यात्। ↩︎
-
पितृभ्यस् स्वधा नमस्करोमीति केचित्। ↩︎
-
भूतेभ्यो नम इति केचित्। ↩︎
-
मनुष्येभ्यो ऽन्नं ददामि हन्ता, इत्य् अन्ये। ↩︎
-
एक-रात्रम् एव पर-गृहे निवसन्, अज्ञातो ब्राह्मणः, अतिथिः - ज्ञातस् तु, अभ्यागतः - ↩︎
-
नाडिकायाश् चतुर्-भागः - ↩︎
-
एक-रात्रम् एव पर-गृहे निवसन्, अज्ञातो ब्राह्मणः, अतिथिः - ज्ञातस् तु, अभ्यागतः - ↩︎