१० श्राद्ध-प्रयोगः

पीत्रोः प्रत्याब्दिक-श्राद्ध-दिनात् पूर्वं त्रिंशद्-दिनेषु पञ्च-दशसु वा, अत्यन्ताशक्तौ त्रिषु दिनेषु वा ना परान्नं क्षौरं च वर्जयित्वा, श्राद्ध-दिनात् पूर्व-दिने दन्त-धावन-तैलाभ्यञ्जनादि-वर्जयित्वा, मुध्याह्न एव वस्त्र-शोधनादि कृत्वा, आतपे शुष्की कृत्य, श्राद्ध-प्रदेशं गो-मयादिनोपलिप्य, तत्र भोजनादि वर्जयित्वा, रात्रौ सायम् औपासनं कृत्वा, कृत-सायम् आशान् श्वित्रादि-दोष-रहितान् यशोक्त-गुण-सम्पन्नान् निमन्त्रयेत्। शील-वृत्तादि-गुण-सम्पन्नानां शारीरक-बन्धूनाम् अन्येषां च समवाये दूर-स्थान् अपि अन्यान् एव गुणवतो निमन्त्रयेत्, अन्यस्य निर्गुणत्वे स-गुणं बन्धुं निमन्त्रयेत्; उभयोर् निर्गुणत्वे बन्धुम् एव निमन्त्रयेत्।

तत्-प्रकारः प्रथमम्उ उपवीती देवार्थ-ब्राह्मणान् पादाव् उपसङ्गृह्य

श्व श्राद्धं भविता, तत्राहवनीयार्थे भवद्भिः प्रसादः करणीयः

इति देवार्थे द्वौ एकं वा निमन्त्र्य -

अ-क्रोधनैश् शौच-परैस् सततं ब्रह्म-चारिभिः।
भवितव्यं भवद्भिश् च मया च श्राद्ध-कारिणा॥

इत्यादिना

इतः प्रभृति अध्व-गम् अ-नायासौषधादि-भक्षण-प्रतिग्रहाध्ययन-भार-वहना सम्भाष्य-सम्भाषण-परहिंसा-कलहादि-वर्जन-पुरस्सरं ब्रह्म-चर्यशौचादि-युक्तैर् भवद्भिर् भवितव्यम्

इति निमन्त्रित-नियमांश् चावेद्य, “अ-विघ्नेयं रजनी यदि तथास्तु” इति प्रत्य् उक्तः, प्राचीनावीती, एवं एव पित्रर्थे पितामहार्थे प्रपितामहार्थे च त्रीन्, सर्वार्थे एकं वा निमन्त्र्य,

[[27]]

उपवीती - विष्ण्व्-अर्थे च एकं निमन्त्र्य, स्वयम् अ-शक्तौ शिष्यादि-मुखेन निमन्त्र्य, तैस् साकं रात्रौ उक्त-नियम-विशिष्टस् स्थित्वा, श्वः दन्त-धावनं वर्जयित्वा, नद्यां स्नात्वा सन्ध्यादि कृत्वा, श्राद्ध-देशं महानसादि च गो-मयेनोपलिप्य, सौवर्ण-राजत-ताम्रादीनि मृण्मयानि वा संसाद्य, शुद्धोदकेन मृण्मयानि, अन्यानि च यथायथं संशोध्य, श्राद्ध-प्रदेशे सोपकरणे तिलान् प्रकीर्य, श्राद्धोपकरणानि अभ्युक्षणेन सम्प्रोक्ष्य, निमन्त्रित-ब्राह्मणान् गृहम् आनीय, सुप्रक्षालित-पाणि-पादान् आचान्तान् आसनेषूपवेश्य, गन्ध-पुष्पाक्षतादिभिर् अभ्यर्च्य - पादोपसङ्ग्रहण-पूर्वकं

गोत्रस्य शर्मणः पित्रादेर् अद्य श्राद्धं भविष्यति

इत्य् आदि-विशेष-युक्तं पूर्ववन् निमन्त्रयेत्। निमन्त्रिताश् च ब्राह्मणाः, निमन्त्रणानन्तरम् “आ ब्रह्मन्” इति दोग्ध्रीं, मध्याह्ने “भवता क्षणः कर्तव्यः” इति नियोगानन्तरं “नमस् सहमानाय, नमो दुन्दुभ्याय च” इति निषङ्गिणीं परिवेषण-काले “किग्ँ स्विदासीत्” इति ब्रह्मोद्यं च जपेयुः।

प्राणायामाचमनयोर् अग्नेश् चैव मुखे तथा।
आघारयोस् तत्-समिधोः स्विष्टकृत्याज्य-भागयोः॥
प्रायश्-चित्त-स्तोत्र-सूक्त-जपेषु परिवेषणे।
हुत-शिष्टान्नतो ऽन्यस्याभिश्रवण-नमस्ययोः॥
प्रदक्षिणानुप्रजन-विसर्ग-स्वागतेशेषु च।
सौमनस्य प्रार्थनयोः स्वस्ति-वाचनके तथा॥
विप्राणां दक्षिणादाने पिण्डाघ्राणे तथैव च।
प्रत्युत्थाने चोपवीत मे तेष्व् अन्यत्र नैव तत्॥

अथ शास्त्रोक्त-प्रकारेण विहित-पदार्थानां पाकं कुर्यात्, अथ द्वादश-घटिकाभ्य ऊर्ध्वं निमन्त्रित-ब्राह्मणेभ्यः ताम्रेण पात्रेण तैलं, मधूकान् यद् उद्वर्तनं, स्नानं, स्नानीयं दन्त-धावन-काष्ठं च दत्त्वा, अभ्यङ्ग-निषिद्ध-तिथिषु आमलकं दत्त्वा, तस्यापि निषिद्धे यथोचितं स्नानीयं दत्त्वा, आत्म-पुत्रशिष्यादि-मुखेन वा, स्वयं वा ऽभ्यज्य,

[[28]]

स्नापयित्वा, स्वयं च स्नात्वा, कौपीनं परिधानम् उत्तरीयं च धृत्वा, तान् अपि धारयित्वा, धृतोर्ध्व-पुण्ड्रः कृत-माध्याह्निक-सन्ध्यः अ-कृत-वस्त्र-निष्पीडनः, भगवद्-आराधनं कृत्वा, श्राद्धार्थाद् अन्येनान्नेन वैश्वदेवं चतुरो यज्ञांश् च पचनाग्नौ कृत्वा, अ-कृत-ब्रह्म-यज्ञश् चेत् तम् अपि कृत्वा, श्राद्धोपयुक्त-पदार्थान् समीपतो निधाय, स्नातान् आहूय, आगतान्, उपवीती, प्रत्येकं प्रत्युत्थाय स्वागतम् उक्त्वा, मार्ग-गमनोपहति शुद्ध्य्-अर्थं पाद्यम् आचमनीयं च दत्त्वा, अन्-अन्त-गरुडादिभ्यो ऽन्यन् निवेद्य, तेभ्यो ऽनिवेदितं भगवन्-मात्र-निवेदितं हविः, तन् मात्र-समर्पितं पाद्य-गन्ध-पुष्पादिकं च परिकल्प्य, कृत-प्रातर् औपासनश् चेद् आत्म-समिद्-आरोपणे लौकिकाग्नाव् उपावरुह्य, अ-कृत-प्रातर् होमश् चेत् तम् अपि यथावत् कृत्वा,द्विर् आचम्य,

प्राचीनावीती

समस्त-सम्पत्-समवाप्ति-हेतवः समुत्थितापत्-कुल-धूम-केतवः।
अपार-संसार-समुद्र-सेतवः पुनन्तु मां ब्राह्मण-पाद-पांसवः॥

उपवीती “देवेभ्यो नमः” प्राचीनावीती “पितृ-पितामह-प्रपितामहेभ्यो नमः” उपवीती “विष्णवे नमः” इति तिलाक्षतैर् यथार्हम् अभ्यर्च्य, प्राचीनावीती

स्वामिनः अस्मिन् दिवसे गोत्र-शर्मादि-युक्तं पितरम् उद्दिश्य प्रत्याब्दिक-श्राद्धं कर्तु-कामो ऽस्मि, एतद् देश-कालयोः, अस्मिन् गेहे वर्तमानानां पक्वापक्वानां पदार्थानां श्राद्धार्हता, अस्याभूमेः अन्य-क्षेत्रस्य गया-तुल्यता, मम च पितुः, श्राद्ध-करणे अधिकार-सम्पद् अस्त्व् इति भवन्तो महान्तो ऽनुगृह्णन्तु

इती प्रार्थ्य, “तथास्तु अधिकार-सम्पद् अस्तु” इति अनुगृहीतः, उपवीती

श्राद्ध-भूमिं गयां ध्यात्वा ध्यात्वा देवं गदा-धरम्

प्राचीनावीती,

वस्वादींश् च पितॄन् ध्यात्वा ततश् श्राद्धं प्रवर्तये

इत्य् उच्चार्य “प्रवर्तय” इत्य् अनुज्ञातः, दर्भेष्व् आसीनो दर्भान् धारयमाणः उपवीती, त्रिः प्राणानायम्य, गुरु-परम्पराम् अनुसन्धाय, इष्ट-देवतां च प्रणम्य ध्यात्वा, प्राचीनावीती “हरिर् ओं तत् श्री-गोविन्दे"त्यादि अस्यां पुण्य-तिथौ

आवाहनार्घ्य-सङ्कल्प-पिंडान्न-त्याग-तर्पणे।
अक्षय्यासनयोः पाद्ये गोत्रं नाम च कीर्तयेत्॥

[[29]]

इत्य् उक्त-प्रकारेण गोत्रादि-युक्तस्य पितुः प्रत्याब्दिक-श्राद्धं करिष्ये

इति सङ्कल्प्य - “कुरुष्व” इत्य् अनुज्ञातः “कृतं च” इति मन्त्रम् अनुसन्दाय -

देवताभ्यः पितृभ्यश् च महा-योगिभ्य एव च।
नमस् स्व-धायै स्वाहायै नित्यम् एव नमो नमः

इति श्लोकं त्रिस् सङ्कीर्त्य - सात्त्विक-त्यागं कृत्वा - प्राचीः पूर्वम् उदक् सग्ग् स्थं दक्षिणारम्भम् अग्न्य्-आयतनं समालिखेत्। अथोदीचीः पुरस् सग्ग् स्थं पश्चिमारम्भम् आलिखेत्॥ अवाक्करो ऽभ्युक्ष्य, तृणन् निर्ऋत्यान् निरस्य - अप उपस्पृश्य - व्याहृतिभिर् अग्निं प्रतिष्ठाप्य - उत्सृज्यते ऽवोक्षणतोय-शेषं प्राक्-तोयम् अन्यन् निदधात्य् उदग् वा -

ये पार्थिवासः पितरो ये अन्तरिक्षे ये दिवि ये वा ऽमृता बभूवुः। ते अस्मिन् यज्ञे समवयन्ताम् [[TODO: परिष्कार्यम्]]

इति सव्यानामिकाङ्गुष्ठाभ्यां दक्षिणतो भुवं स्पृष्ट्वा, अग्निमिद्ध्वा, परिसमूह्य, अग्निं प्राग्-आद्य-प्रदक्षिणं परिस्तृणाति, दक्षिणाग्रैः पित्र्येषु, दक्षिणान्-अधरान्, उत्तरान् उत्तरान् कृत्वा, उत्तरेणाग्निं परिस्तरणाभ्याशे प्राग्-अग्रान् दर्भान् संस्तीर्य, तेषु एकैकशः पात्राणि प्रयुनक्ति, दर्वीं, आज्य-स्थालीं, वैकङ्कतीं,प्रोक्षणीं, प्रणीतिम्, इध्मं, उपस्तरणार्थ-दर्वीं, बर्हिश् च, दक्षिणम् इध्मं उत्तरं बर्हिः, हविः-पात्रं, अ-हविः-पात्रं च, अधो मुखानि पश्चिमादि सादयित्वा, समावच्छिन्नाग्रौ दर्भौ प्रादेश-मात्रौ पवित्रे कुरुते, तृणं काष्ठं वा अन्तर्धाय छिनत्ति, न नखेन, अप उपस्पृश्य, पवित्रे कृत्वा, पात्राणि संस्पृश्य, प्रोक्षणीम् आदाय अपरेणाग्निन् निधाय, पवित्रान्तर्हितायाम् अप आनीय, उत्तान-पाण्योर् अङ्गुष्ठोपकनिष्ठिकाभ्यां त्रिर् उत्पूय, पात्राणि उत्तानानि कृत्वा, विस्रस्येध्मम् अपि,

[[30]]

स-पवित्रेण-पाणिना सर्वाभिर् अद्भिस् त्रिः प्रोक्ष्य, अपरेणाग्निं पवित्रान्तर्हिते प्रणीति-पात्रे अप आनीय, पूर्ववत् त्रिर् उत्पूय, समं प्राणैर् हृत्वा, उत्तरेणाग्निं पुनः स्तीर्णेषु दर्भेषु सादयित्वा,पवित्रम् आदाय, आज्य-स्थाल्यान् निधाय, दर्भैः प्रच्छाद्य ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य, आज्यं विलीनम् अपि होमार्थं पुनर्विलाप्य, अपरेणाग्निं पवित्रान्तर्हितायाम् आज्य-स्थाल्याम् आज्यन् निरूप्य, उदीचो ऽङ्गारान्1 निरूह्य, परिस्तरण-पात्र-सादनयोर्2 मध्ये तेष्व् अधिश्रित्य, एकेन तृणेन ज्वलता ऽवद्योत्य बहिर् निरस्य, द्वे दर्भाग्रे तृणं काष्ठं वा ऽन्तर्धाय प्रच्छिद्य अप उपस्पृश्य प्रक्षाल्य प्रत्यस्य, अधो मुखाभ्यां ज्वलद्भ्यां तृणाभ्यां त्रिः पर्यग्नि कृत्वा, बहिर् निरस्य3, उदग्-उद्वास्य, अङ्गारान् अग्नौ प्रत्यूह्य, दर्भास्तृते पश्चिमे निधाय, उदग्-अग्राभ्यां पवीत्राभ्यां पुनर् आहारं प्राग्-आरम्भं प्राग्-अपवर्गं त्रिर् उत्पूय, पवित्र-ग्रन्थिं विस्रस्य, अप उपस्पृश्य, प्राग्-अग्रम् अग्नौ प्रहरति। येन जुहोति, तद्-अग्नौ प्रतितप्य, जुहूम् अग्रैर् अन्तरतो ऽभ्याकारं सर्वतो बिलम् अभिसमाहारं प्राचीं मध्ये प्रतीचीं बाह्यतः मूलैर् दण्डम् इत्य् आदि-प्रकारेण प्रत्येकं सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य निधाय,दर्भान् अद्भिस् संस्पृश्य, अग्नौ प्रहरति।

[[31]]

पालाशाद्यास् त्रयः, परिधयः4 स्थविष्ठो मध्यम उदग्-अग्रः, अणीयान् द्राघीयान् दक्षिणार्ध्यः प्राग्-अग्रः अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः प्राग्-अग्रः, एवं परिस्तरणोपरि सर्वान् परिधीन् परिधाय, परिधीन् अन्योन्य-संस्पृष्टान् कृत्वा, उपवीती, द्वे आघार-समिधौ मध्यमं परिधिं दक्षिण-हस्तेनोपस्पृश्य अग्नेः दक्षिणम् उत्तरम् आदधाति। प्राचीनावीती, परिध्यन्तः परिस्तरणोपरि तूष्णीं समस्तम् अ-प्रदक्षिणं परिषिच्य, इध्मम् आज्येनाभ्यज्य, दक्षिण-हस्तेन सर्वाणीध्म-काष्ठानि युगपत् तूष्णीम् अग्नाव् आधाय, उपवीती, इतर-दर्व्या आज्यम् आदाय, उत्तरं परिधि-सन्धिम् अन्ववहृत्य आग्नेयान्तं अग्नौ ज्योतिष्मति-प्रजापतिं मनसा ध्यायन्न् आघारम्5 आघारयती, “प्रजापतय इदं”, दक्षिणं परिधि-सन्धिम् अन्ववहृत्य ऐशानान्तं इन्द्रं मनसा ध्यायन्न् आघारम् आघारयति, “इन्द्रायेदम्”, इत्य् उद्देश्य-त्यागं कृत्वा “अग्नये[३_३२] स्वाहा[४_३२]” इति उत्तरार्ध-पूर्वार्धे “सोमाय[५_३२] स्वाहा” इति दक्षिणार्ध-पूर्वार्धे “अग्नये स्वाहा” इति “ॐ भूर् भुवस् सुवस् स्वाहा” इति च मध्ये जुहोति, सर्वेषाम् अपि प्रत्येकम् उद्देश्य-त्यागं तदा तदा कृत्वा, सर्वत्र दर्वीं मध्यमानामिकाङ्गुष्ठैर् एव धृत्वा वामेन आज्य-पात्रं स्पृशन् देव-तीर्थेन जुहोति।

[३_३२]: इन्द इरण्डु आहुति कलुम् अग्निक्कुक्कण् पोलेयिरुक्कुम्बडि पण्णवेण्डुम्॥

[४_३२]:

सकारे सूतकं विद्याद् वकारे रिपु-वर्धनम्।  
आयुर्-नाशो मकारे स्याद् आहुतिः कुत्र दीयते।  
सकारे च वकारे च मकारे च विवर्जयेत्।  
स्वाहान्ते जुहुयाद् अग्नाव् एतद् धोमस्य लक्षणम्॥ 

[५_३२]: इन्द इरण्डु आहुति कलुम् अग्निक्कुक्कण् पोलेयिरुक्कुम्बडि पण्णवेण्डुम्॥

[[32]]

उत्थाय6 नयन-हस्तः “विश्वान् देवान् आवाहयिष्ये” इति वैश्वदेविक-ब्राह्मणान् आपृच्छ्य, “आवाहय” इत्य् अनुज्ञातः अग्नेर् उत्तरतः युग्मेषु दर्भेषु प्राङ्-मुखः

विश्वेदेवाश्शृणुते मँ हवं मे ये अन्तरिक्षे य उपद्यविष्ठ, ये अग्नि जिह्वा उतवायजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम्” [[TODO: परिष्कार्यम्]]

आगच्छन्तु महा-भागा विश्वेदेवा महा-बलाः।
ये ऽत्र विहिताश् श्राद्धे सावधाना भवन्तु ते

इति मन्त्राभ्यां

गोत्रस्य शर्मणः पितुः, श्राद्धे पुरूरवार्द्रव-संज्ञिकान् विश्वाख्य-दक्ष-प्रजापति-दुहितुर् उत्पन्नान् विश्वान् देवान् आवाहयामि

इत्य् आवाह्य,

उक्तानां विश्वेषां देवानां स-यवम् इदम् आसनम्

इति ऋजु-दर्भ-द्वयं साक्षतं दत्त्वा, देव-तीर्थेन यवोदकम् उत्सिञ्चति। सर्वं देव-तीर्थेन देवोपचारं दद्यात्।

प्राचीनावीती अग्नेर् दक्षिणतः त्रिभिस् सप्तभिर् वा दर्भैः कृतं भुग्नं दक्षिणाग्रं निधाय स-तिल-हस्तः “पितृ-पितामह-प्रपितामहान् आवाहयिष्ये” इति पूर्ववद् आपृच्छ्य, अनुज्ञातः

आयातपितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददतोर यिं च दीर्घायुत्वञ् च शतशारदं च" [[TODO: परिष्कार्यम्]]

इति मन्त्रेण

गोत्रादि-युक्तस्य पितुश् श्राद्धे गोत्रान् शर्मणः वसु-रुद्रादित्य-स्वरूपान् अस्मत्-पितृ-पितामह-प्रपितामहान् आवाहयामि

इति तिलैः पितृ-तीर्थेनावाह्य,

सकृदाच्छिन्नं बर्हिरूर्णामृदु, स्योनं पितृभ्यस्त्वाभराम्यहम्, अस्मिन्त्सीदन्तुमे पितरस्सोम्याः, पितामहाः प्रपितामहाश्चानुगैस्सह [[TODO: परिष्कार्यम्]]

इति स-तिलं भुग्नं दक्षिणाग्रं पितृ-तीर्थेनैव

…गोत्राणां …शर्मणां …-रूपाणां पितृ-पितामह-प्रपितामहानां स-तिलम् इदम् आसनम्

दत्त्वा,

[[33]]

“ऊर्जं वहन्तीः” इति पितृ-तीर्थेन तिलोदकम् उत्सिञ्चेत्। पित्रुपचारं सर्वं पितृ-तीर्थेन कुर्यात्। उपवीती, विष्ण्व्-अर्थ-ब्राह्मणम् अपि पूर्ववद् आपृच्छ्य, अनुज्ञातः,

सहस्रशीर्षापुरुषः, सहस्राक्षस्सहस्रपात्, सभूमिं विश्वतो वृत्वा, अत्यतिष्ठद्दशाङ्गुलम् [[TODO: परिष्कार्यम्]]

इति मन्त्रेण

गोत्रादि-युक्तस्य श्राद्धे श्राद्ध-संरक्षकं श्री-महा-विष्णुम् आवाहयामि

इत्य् आवाह्य

पुरुष एवेदँ सर्वं, यद्भूतं यच्छभव्यं, उतामृतत्वस्येशानः, यदन्नेनातिरोहति [[TODO: परिष्कार्यम्]]

“विष्णोर् इदम् आसनम्” इति ऋजु-दर्भ-द्वयं साक्षतं पूर्ववद् दत्वा,यवोदकम् उत्सिच्य।

प्राचीनावीती “उद्ध्रियताम् अग्नौ च क्रियताम्” इति ब्राह्मणान् आपृच्छ्य “कामम् उद्ध्रियतां कामम् अग्नौ च क्रियतां” इति विसृष्टः हविः-पात्रे भगवन्-निवेदिताद् अ-लवणात् पक्वापक्वात् सर्वस्मात् किञ्चित् किञ्चिद् उद्धृत्य, अ-हविः-पात्रे स-लवणात् व्यञ्जनादिकात् किञ्चित् किञ्चिद् उद्धृत्य, अग्नेर् उत्तरतः प्रतिष्ठितम् अभिघार्य, सौकर्यार्थं पुरतो वा निधाय, दर्व्याम् उपस्तीर्य,

हविषो मध्याद् ङ्गुष्ठ-पर्व-मात्रम् अवदानं, तिरीचीनमवद्यति, पूर्वार्धाद् द्वितीयम् अनूचीनं चतुरवत्तिनः, पश्चार्द्धातृतीयं पञ्चावत्तिनः [[TODO: परिष्कार्यम्]]

इति प्रकारेणानदाय पुनर् अभिघार्य अवदानान्य् एकी-कृत्य

यन्मेमाता प्रलुलोभचरत्यननुव्रता, तन्मे रेतः पिता वृङ्तामाभुरन्योवपद्यताम् अमुक-शर्मणे ऽस्मत्-पित्रे स्वाहा [[TODO: परिष्कार्यम्]]

“अमुक-शर्मणे अस्मत्-पित्र इदं न मम” दर्व्याम् उपस्तीर्य, द्विर् अवदाय, सकृद्-अभिघार्य,

यास् तिष्ठन्ति या धावन्ति या आर्द्रोघ्नीः परितस्थुषीः, अद्भिर्विश्वस्यभर्त्रीभिरन्तरन्यं पितुर्दधे अमुक-शर्मणे अस्मत्-पित्रे स्वाहा [[TODO: परिष्कार्यम्]]

अमुक-शर्मणे अस्मत्-पित्र इदं” दर्व्याम् उपस्तीर्य द्विर् अवदाय, सकृद्-अभिघार्य,

यन्मेपितामही प्रलुलोभचरत्यननुव्रता। तन्मे रेतः पितामहो वृङ्तामाभुरन्यो ऽनपद्यताम् अमुक-शर्मणे अस्मत्-पितामहाय स्वाहा [[TODO: परिष्कार्यम्]]

[[34]]

इति पूर्ववद् धुत्वा “अमुक-शर्मणे अस्मत्-पितामहायेदम्” इति उद्देश्य-त्यागं कृत्वा, दर्व्याम् उपस्तीर्य द्विर् अवदाय सकृद्-अभिघार्य

अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या, आभिर्दिग्भिरनन्ताभिरन्तरन्यं पितामहाद्दधे अमुक-शर्मणे अस्मत्-पितामहाय स्वाहा [[TODO: परिष्कार्यम्]]

इति पूर्ववद् धुत्वा, “अमुक-शर्मणे अस्मत्-पितामहायेदम्” इति उद्देश्य-त्यागं कृत्वा, दर्व्याम् उपस्तीर्य, द्विर् अवदाय, सकृद्-अभिघार्य,

यन्मेप्रपितामही प्रलुलोभचरत्यननुव्रता, तन्मे रेतः प्रपितामहो वृङ्तामाभुरन्योवपद्यतां अमुक-शर्मणे अस्मत्-प्रपितामहाय स्वाहा, [[TODO: परिष्कार्यम्]]

इति पूर्ववद् धुत्वा “अमुक-शर्मणे अस्मत्-प्रपितामहायेदम्” इति उद्देश्य-त्यागं कृत्वा, दर्व्याम् उपस्तीर्य द्विर् अवदाय सकृद्-अभिघार्य

अन्तर्दधऋतुभिरहोरात्रैस्ससन्धिभिः, अर्धमासैश् च मासैश्चान्तरन्यं प्रपितामहाद्दधे अमुक-शर्मणे अस्मत्-प्रपितामहाय स्वाहा [[TODO: परिष्कार्यम्]]

अमुक-शर्मणे अस्मत्-प्रपितामहायेदम्" इति उद्देश्य-त्यागं कुर्यात्। सर्वत्र वाम-हस्तेन हविः-पात्रं स्पृशन् कृष्णायां मध्ये वा जुहुयात्। दर्व्याम् उपस्तीर्य द्विर् अवदाय, दर्वीम् अन्-उत्सृजन् उपवीती, स्विष्टकृदर्थं हविः-प्रत्यभिघार्य, प्राचीनावीती, सकृद्-अभिघार्य

येचेहपितरोये च नेहयाँ श्चविद्मयाँ उचनप्रविद्म, अग्ने तान्वेत्थयदि ते जातवेदस्तया प्रत्तग्ग् स्वधयामदन्तु स्वाहा [[TODO: परिष्कार्यम्]]

इति हुत्वा “ज्ञाताज्ञात-पितृभ्य इदं न मम” इत्य् उद्देश्य-त्यागं कृत्वा॥

“स्वाहा पित्रे” पित्र इदं “पित्रे स्वाहा” पित्र इदं “स्वाहा पित्रे” पित्र इदं “पित्रे स्वाहा” पित्र इदं “स्वधा स्वाहा” पितृभ्य इदं “अग्नये कव्य-वाहनाय स्वधा स्वाहा” अग्नये कव्य-वाहनायेदम् इति षड् आज्याहुतीर् हुत्वा उपवीती दर्व्याम् उपस्तीर्य, प्रधानाहुत्य् अधिकं सकृद् उत्तरार्धाद् अवदाय, द्विर् अभिघार्य, (पञ्चावत्तिनो द्विर् अवदाय द्विर् अभिघार्य)

[[35]]

“अग्नये स्विष्टकृते स्वाहा” इति अ-संसक्तम् इतराभिर् आहुतिभिर् उत्तर-पूर्वस्यां जुहोति, “अग्नये स्विष्टकृत इदं” प्राचीनावीती दर्व्याम् उपस्तीर्य, हविष्यं सकृद् अवदाय, अभिघार्य, उदीचीनम् उष्णं भस्म अपोह्य अग्नौ स्वाहा कारेण जुहोति “स्वाहा” “हुत-देवताभ्य इदम्”॥

निधान-क्रमेण परिध्य् अञ्जनं कृत्वा लेप-कार्यं कुर्यात्। आज्य-स्थलीम् उत्तरतः, प्रधान-दर्वीं दक्षिणतः, इतर-दर्वीं मध्ये, उत्तरतः पूर्वास्तीर्णं पात्र-सादनार्थं बर्हिस् सर्वम् आदाय, प्रधान-दर्व्याम् अग्रं, इतरस्यां मध्यं, आज्य-स्थाल्यां मूलम्। एवं त्रिर् अक्त्वा, तृणम् एकं प्रज्ञातं निधाय, प्रधान-दर्व्यां दक्षिणोत्तराभ्यां पाणिभ्यां मूलं निधाय, सव्यं निरस्य, दक्षिणं तिर्यञ्चं धारयित्वा, अग्रम् उद्यम्य प्रहृत्य, मध्यम् उद्यम्य प्रहृत्य, मूलम् उद्यम्य प्रहृत्य, तृणं प्रहृत्य, तूष्णीं तर्जन्याग्निं त्रिर् निर्दिश्य, अग्निम् अञ्जलिनाभिमन्त्र्य, दक्षिण-हस्तेन भूमिं स्पृष्ट्वा, मध्यमं परिधिम् अग्नौ प्रहृत्य, इतरौ पाणिभ्याम् आदाय, युगपद् अग्नौ प्रहरन् उत्तरार्ध्यस्याग्रम् अङ्गारेषूपोहति; दक्षिणम् उपरिकृत्वा प्रहरति। नात्र आघार-समिधोः प्रहरः अपोहो वा, तयोर् अपरिधित्वाद् अशम्यात्वाच् च। दक्षिण-वाम-हस्ताभ्यां प्रधानाप्रधान-दर्वीभ्याम् आज्यम् आदाय प्रधानोत्तरया दर्व्या सग्ग् स्रावं स्वाहाकारेण7 जुहोति “स्वाहा”

वसुभ्यो रुद्रेभ्य आदित्येभ्यस् सग्ग् स्रावभागेभ्य इदं न मम

उपवीती

अस्मिन् मम पितुः श्राद्ध-होम-कर्मणि मन्त्र-तन्त्र-देवता-विपर्यास-न्यूनातिरेक-स्वराक्षर-भ्रेष-प्रायश्-चित्तार्थं सर्व-प्रायश्-चित्ताहुतीर् होष्यामि, प्राणायामं च करिष्ये

इति सङ्कल्प्य

[[36]]

प्रधान-दर्व्या आज्यम् आदाय “ॐ भूर् भुवस् सुवस् स्वाहा” “प्रजापतय इदम्”

अनाज्ञातं यदाज्ञातं, यज्ञस्य क्रियते मिथुः, अग्ने तदस्य कल्पय, त्वँ हि वेत्थ यथा तथं स्वाहा [[TODO: परिष्कार्यम्]]

“अग्नय इदम्”

पुरुषसम्मितो यज्ञः, यज्ञः पुरुषसम्मितः, आग्ने तदस्य कल्पय, त्वँ हि वेत्थ यथा तथं स्वाहा [[TODO: परिष्कार्यम्]]

“अग्नय इदम्,

यत्पाकत्रामनसादीनदक्षान, यज्ञस्य मन्वतेमर्तासः, अग्निष्टद्धोताक्रतुविद्विजानन्, यजिष्ठोदेवाँ ऋतुशो यजाति स्वाहा [[TODO: परिष्कार्यम्]]

“अग्नय इदम्”,

त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः, यजिष्ठो वह्नितमश्शोशुचानो विश्वाद्वेषाँसि प्रमुमुग्ध्यस्मत् स्वाहा [[TODO: परिष्कार्यम्]]

“अग्नी वरुणाभ्याम् इदम्”,

सत्वन्नो अग्ने ऽवमोभवोतीनेदिष्ठो अस्या उषसोव्युष्टौ, अवयक्ष्वनो वरुणँ रराणो वीहि मृडीकँ सुहवोन एधि स्वाहा [[TODO: परिष्कार्यम्]]

“अग्नी वरुणाभ्याम् इदम्” “ॐ भूस् स्वाहा” “अग्नय इदं” “ॐ भुवस् स्वाहा” “वायव इदं” “ओँ सुवस् स्वाहा” “सूर्यायेदं”, “ॐ भूर् भुवस् सुवस् स्वाहा” “प्रजापतय इदं”, “श्री-विष्णवे स्वाहा” इति पूर्णाहुतिः, इति क्रमेण जुहुयात्। ततः प्राणायामः, प्राचीनावीती तूष्णीं समन्तम् अ-प्रदक्षिणं परिषेचनं, प्रणीता मोक्षणं, प्रणीति-पात्रं पश्चान् निधाय प्रणीता स्वप अव्युच्छिन्न-धारया आनीय, प्राच्याम् इत्यादि-क्रमेण प्रतिदिशं सकृद् व्युत्सिच्य आत्मानं प्रोक्षेत्। उपवीती दक्षिणतो निषादितं ब्राह्मणं दक्षिणादिभिस् सम्पूज्य “अग्नेनय” इति उपस्थानं कुर्यात्।

प्राचीनावीती

पिता पितामहश् चैव तथैव प्रपितामहः।
मम तृप्तिं प्रयान्त्व् अद्य होमाप्यायित-मूर्तयः

स्वामिनः अद्यानुष्ठिते मम पितुः श्राद्ध-होम-कर्मणि मन्त्र-लोपे क्रिया-लोपे द्रव्य-लोपे नियम-लोपे सत्य् अपि सर्वं यथा शास्त्रानुष्ठितं भूयाद् इति भवन्तो महान्तो ऽनुगृह्णन्तु

इति प्रार्थना, “तथास्तु” इति प्रतिवचनम्।

[[37]]

उपवीती, वैश्व-देविक-हस्ते जलं दत्त्वा

अमुक-गोत्रस्यामुक-शर्मणः श्राद्धे पुरूरवार्द्रव-संज्ञिकानां विश्वेषां देवानाम् इदम् आसनम्

इति स-यवम् ऋजु-दर्भ-द्वयं दक्षिण-पार्श्वे दत्त्वा, पुनर् अपो दत्त्वा,

अमुक-गोत्रस्य अमुक-शर्मणः पितुः श्राद्धे पुरूरवार्द्रव-सञ्ज्ञिक-विश्व-देवार्थे भवता क्षणः कर्तव्यः

इति दक्षिणेन पाणिना दक्षिण-हस्तं निरङ्गुष्ठं गृहीत्वा, ऋजु-दर्भ-द्वयं दत्त्वा निमन्त्र्य “ॐ तथा” इति प्रत्युक्ते “प्राप्नोतु भवान्” इति वदेत् “प्राप्नवानि” इति प्रतीवचनम्।

प्राचीनावीती - एवं पित्रादीन् भुग्न-दर्भ-दान-पुरस्-सरं वृणुयात्, ततो भोक्तारो निषङ्गिणीं जपेयुः। गृह-द्वार-समीपतः भवनस्याग्रतः सम्मार्जितायां गो-मयेनोपलिप्तायां भूमौ गो-मय–सहित–गो-मूत्रेण, उत्तरे देवानां पाद-प्रक्षालनार्थं चतुर्-अश्रं वितस्ति-प्रमाणम् उदक्-प्लव-मण्डलं कृत्वा, मध्ये षड्-अङ्गुलम् अन्तरालं विहाय, दक्षिणे पितृणां पाद-प्रक्षालनार्थं वर्तुलम् वितस्ति-प्रमाणं दक्षिणा-प्लव-मण्डलं कृत्वा, दर्भैस् साक्षतैः, दर्भैस् स-तिलैश् च, क्रमेण उपवीती प्राचीनावीती च मण्डलयोः परिस्तरणं कुर्यात्। देवार्थं सर्वम् उपवीती, पित्र्यं सर्वं प्राचीनावीती कुर्यात्।

उत्तरे साक्षतान् पूर्वग्रान् युग्मान् कुशान् बहून्, दक्षिणे स-तिलान् दक्षिणाग्रान् भुग्नान् आसनार्थं नाम गोत्रोच्चारण-पूर्वकं विन्यस्य, उत्तरे स-पुष्प–गन्धैर् अक्षतैर् अभ्यर्च्य, दक्षिणे गन्ध-तिलैर् अभ्यर्च्य,

दैविक-ब्राह्मणं मण्डल-समीपतः स्वाभिमुखम् उपवेश्य, आदित्याभि-मुखस् स्वयम् उपविश्य, गो-घृत–मिश्र–गो-मयेन8 पाद-पृष्ठम् अनुलिप्य “शन्नो देवीः” इति मन्त्रेण स-पुष्प-साक्षत-स-दर्भाग्राभिर् अद्भिः “विश्वेदेवा इदं वः पाद्यं स्वाहा” इति देवानां पाद्यं समर्प्य,

[[38]]

“समस्त-सम्पत्” इति श्लोकेन पादौ गुल्फ-पर्यन्तं मण्डले प्रक्षाल्य कराव् अपि कूर्पर-पर्यन्तम् क्षालयित्वा, स्व-हस्तौ प्रक्षाल्य - प्राचीनावीती, दक्षिणे पित्रर्थं ब्राह्मणं पूर्ववद् उपवेश्य, स-घृत–गो-मयेनानुलिप्य,“शन्नो देवीः” इति मन्त्रेण स-तिल-पुष्प-दर्भाग्र-गन्धाभिर् अद्भिः पूर्ववत्

गोत्रादि-युक्तस्य श्रद्धे अमुक-गोत्राः शर्माणः रूपाः पितृ-पितामहा-प्रपितामहा। इदं वः पाद्यं स्वधा

इति पितृ-तीर्थेन समर्प्य, पूर्ववत् प्रक्षाल्य, उपवीती विश्वे देववद् विष्णोर् अपि कुर्यात्। पित्र्यं सर्वम् उपचारम् आसीनस् सव्यं जान्व् आच्य आसन-व्यतिरिक्ते मन्त्रान्ते स्वधा-शब्दम् अप्य् उक्त्वा कुर्यात्। दैवं सर्वम् आसीनः दक्षिणं जान्व् आच्य स्वाहान्तं कुर्यात्। आचमनात् पूर्वम् अनर्हत्वान् नात्र पादोदक-ग्रहणम्।

कर्ता पादौ प्रक्षाल्य9 मण्डलोत्तरे आचम्य, तान् अप्य् आचमय्य प्राचीनावीती

अपहता असुरा रक्षाँसि पिशाचा ये क्षियन्ति पृथिवी मनु। अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः [[TODO: परिष्कार्यम्]]

उदीरतामवर उत्परास उन्मध्यमाः पितरस्सोम्यासः। असुंय ईयुरवृका ऋतज्ञास्तेनो ऽवन्तु पितरो हवेषु [[TODO: परिष्कार्यम्]]

इति भुक्ति-देशे तिलान् सिकताश् च प्रकीर्य अद्भिर् अवोक्ष्य,

[[39]]

उपवीती वैश्वदेविक-हस्ते जलं दत्त्वा,

… गोत्रस्य श्राद्धे पुरूरवार्द्रव-सञ्ज्ञिकानां विश्वेषां देवानां भोजन-स्थाने इदम् आसनम्[२_३९]

[२_३९]:

अक्षय्यासनयोष् षष्ठी द्वितीयावाहने स्मृता।  
अन्न-दाने चतुर्थी स्यात् शेषास् संबुद्धयस् स्मृताः॥

इति आसनार्थं स-यवम् ऋजु-दर्भ-द्वयं दत्त्वा, आसनं सव्येनाभिमृश्य दक्षिणेन ब्राह्मण-जान्व्-अवलम्ब्य “आस्यताम्” इत्य् उक्त्वा उपवेशयेत्। देवान् प्राङ्-मुखान् उत्तरापवर्गान्, पितॄन् उदङ्-मुखान् प्राग्-अपवर्गान्, अपि वा प्राङ्-मुखान् दक्षिणापवर्गान्, उपवेशयेशत् - आचारात्।

अर्चत प्रार्चत प्रियमेधासो अर्चतार्चन्तपुत्रका उत पुनर्नधिष्ण्वर्चत [[TODO: परिष्कार्यम्]]

“इदं वो अर्चनम्” इति देवानां दक्षिण-पादे सव्य-पादे, दक्षिण-जानुनि सव्य-जानुनि, दक्षिणांसे सव्यांसे, मूर्ध्नि च,क्रमेणार्चयेत्

गन्धद्वारान्दुराधर्षान्नित्यपुष्टां करीषिणीम्, ईश्वरीँ सर्वभूतानां त्वामिहोपह्वये श्रियम् [[TODO: परिष्कार्यम्]]

इति

गोत्रादि-युक्तस्य श्रद्धे पुरूरवार्द्रव-सञ्ज्ञिक-विश्वेदेवाः देहालङ्करणार्थे यथा भागशः अमी वः कुङ्कुम-कर्पूरागुरु-चम्पक-पद्मक-मिश्रा गन्धाः 10

इति दद्यात्; देव-ब्राह्मणोपचारं सर्वम् उदङ्-मुखः कुर्यात्। पित्र्यं दक्षिणा-मुखः कुर्यात्।

ओषधयः प्रतिमोदध्वमेनं पुष्पावतीस्सुपिप्पलाः, अयं वो गर्भ ऋत्वियः प्रत्नँ सधस्थमासदत् [[TODO: परिष्कार्यम्]]

इति मन्त्रेण पूर्ववत् “इमानि पुष्पाणि श्री-तुलसी-दलानि च” इति दद्यात्।

धूरसि धूर्वधूर्वन्तं धूर्वतं योस्मान् धूर्वति तं धूर्वयं वयं धूर्वामस्त्वं देवानामसि” [[TODO: परिष्कार्यम्]]

“घ्राण-तृप्त्य्-अर्थम् अयं वो धूपः”

उद्दीप्यस्वजातवेदो ऽपघ्नन्निर् ऋतिं मम, पशूँश्च मह्यमावह जीवनं च दिशो दश" [[TODO: परिष्कार्यम्]]

“अवलोकनार्थम् अयं वो दीपः” -

युवा सुवासाः परिवीत आगात्सउश्रेयान् भवती जायमानः - तन्धीरासः कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः [[TODO: परिष्कार्यम्]]

“आच्छादनार्थम् इदं वस्त्रम्” अभावे यज्ञोपवीतं, दर्भा वा,

पवित्रार्थम् इमौ दर्भौ शेषोपचारार्थे इमे अक्षताः

इति पूर्ववद् अर्चयेत्॥

[[40]]

प्राचीनावीती एवम् एव पितॄणाम् आसनार्थे भुग्न-दर्भान्, मूर्ध्नि, सव्यांसे दक्षिणांसे, सव्य-जानुनि दक्षिण-जानुनि, सव्य-पादे दक्षिण-पादे च, तिलैर् अर्चनं, गन्ध-द्वाराम् इत्यादि सर्वं पूर्ववत्। उपवीती - विश्वेदेववद् विष्णोर् अर्चनम् - आचम्य घृत-मिश्रेण गो-मयेन प्रणवेन चतुर्-अश्रं मण्डलं कृत्वा - पात्रेषु जलं निस्राव्य - हस्तेन सम्मृज्य पुनः प्रक्षाल्य - “इदं भोजन-पात्रासनम्” इति दर्भान् निधाय - मण्डलेषु देवादि-क्रमेण पात्राण्य् उपपात्राणि च निधाय, प्रधान-पात्रे उपपात्रम् आज्य-पात्रादिकं च निक्षिपेत् - पात्रेषु आज्यं उपस्तीर्य - प्रथमं हुत-शिष्टम् अन्नं पितृ-पात्रे प्राचीनावीती देव-तीर्थेन परिविष्य - ततः देव-क्रमेण सर्वत्र उपवीत्य् एव देवानाम् उदङ्-मुखः, पितॄणां दक्षिणा-मुखः, पितॄन् ध्यायन् अन्न-पायस-सूपापूप-क्रमेण दर्व्यादि-द्वारा स-पवित्र-हस्ताभ्यां परिविष्य अन्न-व्यतिरिक्तं11 सर्वम् उपपात्रे परिविष्य - उपवीती “रक्षोघ्न-मन्त्र-पठनं करिष्ये” इति सङ्कल्प्य।

सहवै देवानाञ्चासुराणाञ्च यज्ञौ प्रततावास्तांवयँ स्वर्गंलोक मेष्यामोवय मेष्याम इति तेसुरान्सन्नह्य सहसै वा चरन् ब्रह्मचर्येण तपसैवदेवास्तेसुरा अमुह्यग्ग् स्ते सप्रजानग्ग् स्ते पराभवन् तेन स्वर्गं लोकमायन् प्रसृतेनवै यज्ञेन देवास्स्वर्गं लोकमायन्नप्रसृतेनासुरान्परा भावयन्प्रसृतो हवै यज्ञोपवीतिनो यज्ञो ऽप्रसृतो ऽनुपवीतिनो यत्किञ्च ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्तस्माद्यज्ञोपवीत्ये वाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्या अजिनं वासोवा दक्षिणत उपवीय दक्षिणं बाहुमुद्धरते ऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतँ संवीतं मानुषम्। [[TODO: परिष्कार्यम्]]

[[41]]

रक्षाँसि हवा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीतादित्यो नो योद्धा इति तान्प्रजापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्तँ हवा तानि रक्षाँस्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि हवा एतानि रक्षाँसि गायत्रिया ऽभिमन्त्रितेनाम्भसा शाम्यन्ति तदु हवा एते ब्रह्मवादिनः पूर्वाभिमुखास्संध्यायां गायत्रिया ऽभीमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्रीभूत्वा तानि रक्षाँसि मन्देहारुणे द्वीपे प्रक्षिपन्ति यत् प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्तुद्यन्तमस्तंयन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान्त्सकलं भद्रमश्नुते, ऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद॥ [[TODO: परिष्कार्यम्]]

इत्य् अनुवाक-द्वयं जपित्वा, अन्नम् अभिघार्य, पितृ-पात्रेषु कॢप्तान् अन्नादीन् सर्वान् प्राचीनावीती दक्षिणा-मुखस् सव्यं ज्वान्व् आच्य

एष ते तत मधुमाँ ऊर्मिस्सरस्वान् यावानग्निश्च पृथिवीच तावत्यस्य मात्रा तावतीन्त एतां मात्रान्ददामि यथा ऽग्निरक्षितो ऽनुपदस्त एनम्मह्यं पित्रे ऽक्षितो ऽनुपदस्तस्स्वधा भवतां त्वग्ग् स्वधां तैस्सहोपजीवर्चस्ते महिमैष ते पितामह मधुमाँ ऊर्मिस्सरस्वान् यावान्वायुश्चान्तरिक्षं च तावत् यस्य मात्रा तावतीन्त एताम्मात्रान्ददामि यथा वायुरक्षितो ऽनुपदस्त एवम्मह्यं पितामहायाक्षितो ऽनुपदस्तस्स्वधा भवतां त्वग्ग् स्वधां तैस्सहोवजीवसामानि ते महिमैष ते प्रपितामह मधुमाँ ऊर्मिसरस्वान् यावानादित्यश् च द्यौश् च तावत् यस्य मात्रा तावतीन्त एताम्मात्रां ददामि यथा ऽऽदित्यो ऽक्षितो ऽनुपदस्त एवं मह्यं प्रपितामहायाक्षितो ऽनुपदस्तस्स्वधा भवतां त्वग्ग् स्वधां तैस्सहोपजीव यजूँषि ते महिमा॥ [[TODO: परिष्कार्यम्]]

इति यथा लिङ्गम् अभिमृशेत्, अ-सम्भवतां मन्त्रावृत्तिः।

[[42]]

अथ देव-पात्रे उदङ्-मुखः उपवीती, दक्षिणं जान्व् आच्य, स-व्याहृतिक-गायत्र्या प्रोक्ष्य - “देवसवितः प्रसुव” इति प्रदक्षिणं परिषिच्य,

पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानान्त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन् लोके [[TODO: परिष्कार्यम्]]

इति सव्येन पात्रम् आलभ्य, दक्षिणेन ब्राह्मण-हस्तं गृहीत्वा, अन्नं सर्वं स्पर्शयित्वा,

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं, समूढमस्य पाँ सुरे - [[TODO: परिष्कार्यम्]]

“विष्णो हव्यं रक्ष” इति अन्ने अ-नखद्विजाङ्गुष्ठ-प्रदेशं प्रवेश्य - द्विज-वामाङ्गुष्ठ-तर्जनी-मध्यमाभिः पात्रं स्पर्शयित्वा -

… गोत्रस्य श्रद्धे पुरूरवार्द्रव-संज्ञिकाः विश्वेदेवा देवताः इदम् अन्नं ब्रह्म - अयं च ब्राह्मणो ब्रह्म - अहं च ब्रह्म - इयं च भूर् गया - अक्षय-वट-च्छाया - अयं च ब्राह्मणः आहवनीयार्थे, इदं च पात्रं स्वर्ण-मयम्, इदं चान्नम् अमृत-मयम् - अयं च भोक्ता ब्राह्मणो गदा-धरः -

पुरूरवार्द्रव-संज्ञिकेभ्यः विश्वभ्यो देवेभ्य इदम् इदं हव्यं स-व्यञ्जनं स-परिकरं च परिविष्टम् आतृप्तेः परिवेक्ष्यमाणं च, स्वाहा नमः न मम

इति यवोदकं देव-तीर्थेन दद्यात्

[[43]]

एवं पित्र्ये प्राचीनावीती - “विष्णो कव्यं रक्ष” - इति विशेष-युक्तं दक्षिणा-मुखः पितॄणां गोत्र-नाम-रूप-पुरस्-सरं दद्यात् -

इदं च पात्रं रजत-मयं … गोत्रेभ्यश् शर्मभ्यो रूपेभ्यः पितृ-पितामह-प्रपितामहेभ्य इदम् इदम् इदं कव्यं … स्वधा नमः न मम

इति विशेष-युक्तं पितृ-तीर्थेन दद्यात्।

उपवीती - देववद् विष्णोश् च कुर्यात् -

विष्णवे शङ्ख-चक्र-गदा-धराय इदम् इदम् इदं हव्यं स-व्यञ्जनम्

इत्य् आदि-विशेषः - पितृ-देवयोर् मध्ये भुवं संशोध्य, भुग्नं निधाय, प्राचीनावीती - दक्षिणा-मुखस् सव्यं जान्व् आच्य -

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र।
तत्-सन्निधानाद् अपयान्तु सद्यो
रक्षांस्य् अ-शेषाण्य् अ-सुराश् च सर्वे

एको विष्णुर् महद् भूतं पृथग् भूतान्य् अन्-एकशः।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्ते विश्व-भुग् अ-व्ययः॥

इत्य् उच्चार्य -

अनेन …गोत्रादि-युक्तस्य पितुः प्रत्याब्दिक-श्राद्ध-रूप-भगवद्-आराधनेन

क्रमेण उपवीती -

पुरूरवार्द्रव-संज्ञिक-विश्वेदेव-रूपी -

प्राचीनावीती -

वसु-रुद्रादित्य-सञ्ज्ञिक-पितृ-पितामह-प्रपितामह-रूपी -

उपवीती

श्राद्ध-संरक्षक-विष्णु-रूपी -

प्राचीनावीती -

सर्वाकारो भगवान् स देवश् श्री-जनार्दनः प्रीयताम् -

इति स-यव-तिलोदकं दद्यात् -

गयायाम् अक्षय-वट-च्छायायां रङ्ग-क्षेत्रे श्री-रङ्गनाथ-पादारविन्दयोर् दत्तं -

“स्वामिनः अ-च्छिद्रं जायतां” - इति प्रार्थना “अस्त्व् अ-च्छिद्रम्” इति प्रतिवचनं -

पिता पितामहश् चैव तथैव प्रपितामहः।
तृप्तिं प्रयान्तु मे भक्त्या यन् मयैतद् उदीरितम् -

इत्य् उच्चार्य - क्रमेण मन्त्रेण परिषेचनं कारयित्वा आपोशनम् अपि कारयित्वा -

प्राणे निविष्टो ऽमृतं जहोमि शिवोमा विशा प्रदाहाय प्राणाय स्वाहा [[TODO: परिष्कार्यम्]]

प्राणायेदं न मम… “ब्रह्मणिम आत्मामृतत्वाय” इति जपन् पञ्च-प्राणाहुतीः कारयित्वा - हस्तोदकं दत्त्वा, गायत्रीं मधु-त्रयं च जपित्वा - “स्वामिनः यथा-सुखं जुषध्वम्”।

[[44]]

उपवीती -

श्री-पुंसूक्ते वैष्णवान् पैतृकान् रक्षो-घ्नान् अन्यांश् च पवमानान् इतिहास-पुराणानि च भवतो भुञ्जानान् यावच् छक्यं श्रावयिष्ये

इत्य् उक्त्वा “श्रावय” इत्य् अनुज्ञातः

स्वामिनः सनक-सनन्दनादि-समधिक-माहात्म्य-शालिनो यूयम् अस्मिन् कैङ्कर्ये वात्सल्यातिशयेन समागताः, स्वामिनाम् अनुगुणं कैंकर्यानुगुणं च पदार्थाधिकं सम्पादयितुम् अ-शक्तो ऽसम्पादितवांश् चास्मि, सम्पादितेषु भगवन्-निवेदितेषु अपेक्षितं यथा-शास्त्रम् आनाय्य भुक्त्वा, वयं संरक्षणीयाः

इत्य् उपचारान् उक्त्वा।

स्वयम् अन्-अपेक्षमाणः ददामीति कथनं, रोदनं, क्रूर-भाषणं, अ-नृत-भाषणं, पदान्न-स्पर्शनावधूननं, क्रोधेन दानं - स्विन्न-गात्रतया ब्राह्मण-पुरो ऽवस्थानं, ब्राह्मणान् प्रति हविर्-गुण-प्रश्नः, त्वरया परिवेषणं, इत्यादि-वर्जितः, इङ्गितादिभिर् अपेक्षितं ज्ञात्वा परिवेषणं कारयेत्।

भोक्ता च, अधिक-परिवेषणे हस्त-संज्ञया निषेधः। तथैवापेक्षितानयनं - मुख-चालन-हुङ्कारादिना अपेक्षानपेक्षयोर् अ-सूचनं, भोज्य-पात्रे आज्य-पात्रन् निक्षिप्याभोजनं, खादित-शेषस्य भोजन-पात्रे अ-निक्षेपः - मन्त्रानुच्चारणं - दात्रापृष्टत्वे ऽपि हविर् गुणानां हस्त-संज्ञयाप्य-सूचनं - मौनं - साङ्गुष्ठाङ्गुलीभिर् भोजनम्, इत्यादि-नियम-युक्तः - इन्द्रिय-चापल्यं - परान्नावलोकनं - हुङ्कारः - भूतलात् पात्रस्योद्धरणं, हस्तेन पात्रस्य मोचनम्, उत्तर-वासो-बहिर्भूतकक्षता - पीतावशिष्ट-पानं, खादितावशिष्टापूप-फलादि-पुनः खादनं - मुखेनान्न-धमनं - ष्ठीवनं - बहु-भाषणं - अतिमिताशनं - अतिभोजनं - लवणावेक्षा - दधि-क्षीर-क्षौद्र-सक्तु-घृत-पायसानाम् अवशेष-करणं - अन्येषां किञ्चिद् अपि अन्-अवशेष-करणं, इत्यादि-वर्जितः यावद् अपेक्षं भुञ्जीत।

[[45]]

कर्ता च सतां बन्ध्वादीनां दक्षिणा-दान-पुरस्-सरं तत्-सहितः स्वयं, अ-शक्तौ तन्-मुखेन वा, गायत्रीं त्रिः - श्री-सूक्तं - पुंसूक्तं - अद्भ्यस् सम्भूतः, सहस्र-शीर्षं देवं - विष्णु-गायत्रीं - विष्णोर्नुकं - तदस्य प्रियं - कृणुष्वपाजः - रक्षोहणः - उशन्त्स्त्वा - आपूर्यास्थामा, असावादित्यः - सन्ततिर् वा - आयं वा त्रयोनुवाकाः - ब्रह्ममेतुमाम् इत्यादि-त्रयम् - अन्न-सूक्तम् - इतिहास-पुराणादीनि इत्यादि-श्रावयेत्।

भोजनान्ते अन्नादिकं पात्रे परिकल्प्य - “स्वामिनः भगवन्-निवेदितेषु किम् अपेक्षितम्” इति पृष्ट्वा - “सर्वं सम्पूर्णं” इत्य् उक्ते गायत्रीं मधु-त्रयम् “अक्षन्नमीमदन्ते"ति जपित्वा “पुरूरवार्द्रव-संज्ञिक-विश्वेदेवाः वस् सम्पन्नम्” इति पृष्ट्वा - “सुसम्पन्नम्” इत्य् उक्ते - “विश्वेदेवाः तृप्ताः स्थ” - इति पृष्ट्वा - “तृप्ताः स्मः” इति प्रत्युक्ते प्राचीनावीती - पित्रादीन् अप्य् एवं पृष्ट्वा - उपवीती विष्णुम् अपि पृष्ट्वा, पितृ-देवयोर् मध्ये प्राचीनावीती - भुग्नं निधाय, सव्यं जन्व् आच्य - तिलोदकं पितृ-तीर्थेनोत्सिच्य, स-व्यञ्जनम् अन्नं द्रवी-कृतं हस्त-द्वयेनादाय

ये अग्नि-दग्धा ये ऽनग्नि-दग्धा ये वा जाताः कुले मम, भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्

इति पितृ-तीर्थेन प्रकिरेत् -

अथवा उपवीती, प्रथम-वृत-वैश्वदेविक-ब्राह्मण-सन्निधौ कस्मिंश्चित् पात्रे, स-यवान् युग्मान् दर्भान् संस्तीर्य -

असोमपाश् च ये देवा यज्ञ-भाग-विवर्जिताः, तेषाम् अन्नं प्रदास्यामि विकिरं वैश्वदेविकम्

इति देव-तीर्थेन उदग्-अपवर्गं विकिरेत् प्राचीनावीती पितॄणां पुरतः पात्रे स-तिलं भुग्नं निधाय -

अ-संस्कृत-प्रमीता ये त्यागिनो याः कुल-स्त्रियः।
दास्यामि तेभ्यो विकिरम् अन्नं ताभ्यश् च पैतृकम्

इति मन्त्रेण प्रत्यग्-अपवर्गं पितृ-तीर्थेन विकिरेत्।

[[46]]

उपवीती।

अ-संशयं भवेद् विष्णुर् मोक्ष-साधनम् अ-व्ययम्। पितॄणां च वरं श्रेष्ठं विकिरान्नं च वैष्णवम्॥

इति देववद् विष्णोश् च कुर्यात् प्रकिरवत् प्राचीनावीती तिलोदकं पितृ-तीर्थेनोत्सिच्य भुग्ने -

ये अग्नि-दग्धा ये अन्-अग्नि-दग्धा ये वा जाताः कुले मम, भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम्

इति पिण्डं दद्यात्। आचम्य - “विश्वेदेवा अमृतापिधानम् असि” इत्य् आदि-क्रमेण उत्तरापोशनं कारयित्वा - पितृ-पूर्वं हस्त-प्रक्षालनोदकम् आचमनीयं च दत्त्वा, स्वयं, शिष्यादि-मुखेन वा, पात्राणि चालयित्वा, आपिण्ड-निधानाद् भुक्ति-मण्डल-शोधनं न कारयेत्। आचान्तेषु स्वयम् आचम्य -

“विश्वेदेवा रोचयतेति ब्रूत” इत्य् उक्त्वा “रोचयत” इति तैर् उक्ते - प्राचीनावीती -

वसु-रुद्रादित्य-स्व-रूप-अस्मत्-पितृ-पितामह-प्रपितामहाः स्वदितम् इति ब्रूत

इति पृष्ट्वा “अस्तु स्वदितम्” इति तैः प्रत्युक्ते - उपवीती -

श्राद्ध-संरक्षक-श्री-महा-विष्णो स्वस्त्य् अस्त्व् इति ब्रूहि

इति पृष्ट्वा, “स्वस्त्य् अस्तु” इति प्रत्युक्ते - प्राचीनावीती - “सर्वे स्वस्त्य् अस्त्व् इति ब्रूत” इत्य् उक्त्वा सर्वैः “स्वस्त्य् अस्तु” इति प्रत्युक्ते -

…गोत्रस्येत्य् आदि-श्राद्धे पुरूरवार्द्रव-संज्ञिक-विश्वेषां देवानाम् अक्षय्यम् अस्तु

…गोत्राणां शर्मणां रूपाणां पितृ-पितामह-प्रपितामहानाम् अक्षय्यम् अस्तु

श्राद्ध-संरक्षक-विष्णोर् अक्षय्यम् अस्तु

इति क्रमेण सर्वेषां हस्ते जलं दtत्वा “अस्त्व् अक्षय्यम्” इति सर्वैर् उक्ते, निवेदित-तुलसी-मिश्र-ताम्बूल-दक्षिणां च

गोत्रस्य श्राद्धे पुरू

[[47]]

[[TODO: मूले ४७ प्रष्ठानन्तरं ४८ तथा ४९ नास्ति। ५० एव अस्ति।]]

पूर्णतां यातु प्रसादाद् भवतां मम,
अद्य मे स-फलं जन्म-भवत्-पादाब्-ज-वन्दनात्,
अद्य मे वंश-जास् सर्वे याता वो ऽनुग्रहाद् दिवम्

इत्य् उपचारान् उक्त्वा पादौ निष्पीड्य।

वाजे वाजे अवत वाजिनोनोधनेषु विप्रा अमृता ऋतज्ञाः, अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः [[TODO: परिष्कार्यम्]]

इति प्रतिब्राह्मणं उक्त्वा - अथ दर्भान्वारम्भणेन प्राचीनावीती - “उत्तिष्ठत पितृ-पितामह-प्रपितामहाः” उपवीति - “उत्तिष्ठत विश्वेदेवाः” - “उत्तिष्ठ विष्णो” इति विसृज्य - प्रणम्य आसीमान्तम् अनुव्रज्य प्रदक्षिणी-कृत्य आगच्छेत् - विसृष्टाश् च ब्राह्मणाः “वाम-देवाय” इति मन्त्रं जपेयुः।

अथ अग्नेः पश्चात् प्राणानायम्य प्राचीनावीती अस्यां पुण्य-तिथौ

… गोत्रस्य श्राद्धान्ते श्राद्धीय-पिण्ड-प्रदानं करिष्ये

इति सङ्कल्प्य मधु-सर्पिस्-तिल-युतान् पिण्डान् षड् आनीय, पुष्प-धूपादिभिर् अभ्यर्च्य - द्वेधा दक्षिणाग्रान् दर्भान् संस्तीर्य,

मार्जयन्तां मम पितरः मार्जयन्तां मम पितामहाः मार्जयन्तां मम प्रपितामहाः

इति क्रमेण पूर्वेषु

मार्जयन्तां मम मातरः मार्जयन्तां मम पितामह्यः मार्जयन्तां मम प्रपितामह्यः

इति क्रमेण अपरेषु, स-तिलापः पितृ-तीर्थेन त्रिः दक्षिणापवर्गं निनीय, पूर्वेषु

एतत् ते तत अमुक-गोत्र-नारायण-शर्मन्

इत्य् आदिना अवाचीन-पाणिः पिण्डं दत्त्वा “ये च त्वामनु” इति पिण्ड-मूले लेपं निमृज्य, एवं पितामह-प्रपितामहयोर् अपि दत्त्वा अपरेषु “एतत्ते मम हतः लक्ष्मीदे” “याश् च त्वामनु” इति पूर्ववद् दत्त्वा, पितामहि-प्रपितामह्योर् अपि दत्त्वा, गन्ध-पुष्प-धूप-दीपादिभिर् अभ्यर्च्य, भक्ष्य-भोज्य-फलादिकं पक्वापक्वं सर्वम् अ-निवेदने तद्-भोजन-निषेधाद् पिण्ड-देवताभ्यो निवेद्य, पिण्ड-पात्रे तिलोदकम् अभिपूर्य, तेन “मार्जयन्तां मम पितरः” इत्य् आदि-क्रमेण त्रिः पूर्ववन् निनीय, उत्थाय “ये च वोऽत्र ये चास्मास्व् आशँसन्ते” इति पितृ-पिण्डान् “याश् च वोऽत्र याश् चास्मास्व् आशँसन्ते” इति मातृ-पिण्डान् “ते च वहन्तां” इति पितृ-पिण्डान्, “ताश् च वहन्तां” इति मातृ-पिण्डान्” “तृप्यन्तु भवन्तस् तृप्यन्तु भवत्यः” इति यथा-क्रमं, “तृप्यत तृप्यत तृप्यत” इति उभयांश् चोपस्थाय

[[50]]

पिता पितामहाश् चैव तथैव प्रपितामहाः।
तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥

इत्य् उक्त्वा सव्यं जान्व् आच्य

पुत्रान् पौत्रान् अभितर्पयन्तीर् आपो मधुमतीर् इमाः। स्वधां पितृभ्यो अमृतं दुहाना आपो देवीर् उभयाँ स्तर्पयन्तु [[TODO: परिष्कार्यम्]]

इति स-तिलोद-पात्रेण सव्योत्तराभ्यां पाणिभ्यां पितृ-तीर्थेनाप्रदक्षिणं अविच्छिन्नाभिर् अद्भिः परिषिच्य, होमार्थानि पिण्डार्थानि च पात्राणि न्युब्ज्य, “तृप्यत तृप्यत तृप्यत”12 इति त्रिर् अनवानं आवर्त्य प्रोक्ष्य, पात्राणि च द्वन्द्वम् अभ्युदाहृत्य, सर्वस्माद् अन्नात् किञ्चित् किञ्चित् आदाय, उपवीती

प्राणे निविष्टोमृतम् जुहोमि ब्रह्मणिम आत्मामृतत्वाय [[TODO: परिष्कार्यम्]]

इति ग्रासावरार्थ्यं प्राश्याचम्य, पुत्र-कामनायां मध्यम-पिण्डं

आधत्त पितरो गर्भं कुमारं पुष्कर-स्रजम् [[TODO: परिष्कार्यम्]]

इति मन्त्रेण अ-रोगिण्यै पुत्र-जनन-योग्यायै दद्यात्; अप्सु वा प्रक्षिपेत्। एवं श्राद्धं कृत्वा उक्त-नियमादि-युक्तः स्थित्वा, परेद्युः श्राद्धाङ्ग-तर्पणम् अपि कुर्यात्।

इति पार्वण-श्राद्ध-प्रयोगः

श्रीमते निगमान्त-महा-देशिकाय नमः।

[[51]]

अथ प्रायश्चित्तम्।

श्राद्ध-निमन्त्रितौ भोजन-काले परस्पर-स्पर्शे पात्र-स्थम् अन्नं भुक्त्वा भोजनान्ते अष्ट-शत-गायत्री-जपं कुर्याताम् - भोजन-काले अन्योच्छिष्ट-लेपन-स्पर्शे स्पृष्ट-प्रदेशम् अन्येन पाणिना प्रक्षाल्य, भोजनान्ते स्नात्वा, गायत्रीं त्रि-शतं जपेत् - पात्रे अन्योच्छिष्ट-पतने तत्-पात्रं पाणिना अ-स्पृष्ट्वा स्थेयम् इति नियुज्य,पात्रं परिहृत्य भूमिं समनुलिप्य, अन्यत् पात्रं निधाय सर्वम् अन्नं परिविष्य परिषिच्य तं ब्राह्मणं भोजयेत् - पात्राणां पात्रयोर् वा परस्पर-जल-सेकाद्य्-उच्छिष्ट-संस्पर्शे स्पृष्ट-पात्रं विसृज्य भू-शुद्धिं कृत्वा पूर्ववत् पात्रान्तरयोः पात्रान्तरेषु वा सर्वं परिविष्य परिषिच्य द्वौ बहून् वा भोजयेत्। अत्र भोक्तुर् उच्छिष्ट-संस्पर्शे तु हस्तं प्रक्षालयित्वा भोजयेत्। भोक्ता भोजनान्ते त्रि-शतं गायत्रीं जपेत्। तद्-अन्-अन्तरं दक्षिणा-ताम्बूलादि-क्रिया - भोजन-मध्ये पितृ-स्थानीयस्य देव-स्थानीयस्य वा भोक्तुर् विण्-मूत्रोत्सर्गे कर्ता तद्-दिने उपोष्य अपरेद्युः श्राद्धं कुर्यात् ।

इति प्रायश्चित्तम्।

[[52]]


  1. एकाङ्गारेण मृत्युस्स्यात् द्वाभ्यां मातृ-क्षयो भवेत्।
    अतस् त्रीन् उदग्-अङ्गारान् तेषु शोध्यन् तु तद्-घृतम्॥ ↩︎

  2. परिस्तरोत्तरे देशे दर्व्या सादन-दक्षिणे।
    अङ्गाराणां निरूढं स्यात् तत्रैवाज्यस्य शोधनम्॥ ↩︎

  3. अत्र आज्य-संस्कारकाणाम् अङ्गाराणां प्रत्यूहण-विधानात् “अपवृत्ते कर्मणि” इति न लौकिकत्वम्। अवद्योतन-पर्यग्नि-करणाग्न्योस् तु यदा आयतन-स्थाद् उपादानं, तदा तयोर् अपवृत्त-कर्मत्वेन लौकिकत्वात् त्यागः, यदा तु निरूढाद् उपादानं, तदा तस्मिन्न् एव क्षेपः। ↩︎

  4. शम्याः परिध्य्-अर्थे विवाह-उपनयन-समावर्तन-सीमन्त-चौल–गो-दान–प्रायश्चित्तेषु। चरु-कर्म–उपाकरण-व्रत-पुंसवन-अगार-प्रवेशेषु पञ्चसु परिधयः, इति विधानात् चरु-कर्मत्वाद् अत्र परिधय एव न तु शम्याः। ↩︎

  5. दीर्घ-धारया आज्येन होमः = आघारः। ↩︎

  6. लाज-होमे च सीमन्ते देवता-वाहने नरे।
    अर्घ्ये तिष्ठेद् उपस्थाने षट्स्व् एतेषु भृगूदितम्॥ ↩︎

  7. यत्र होमे चरोस् तन्त्रं तत्रैव च मुखाहुतिः।
    परिधि-प्रहरणं कुर्यात् संस्रावश् च विधीयते॥ ↩︎

  8. आज्यं गो-मय-संयुक्तं पादयोर् लेपयेद् यदि।
    पितरस् तस्य कल्पान्तम् अमृतेनाभिषेचिताः॥ ↩︎

  9. स-पवित्रेण हस्ते न विप्र-पादावनेजनात्।
    यथा वज्र-हतो वृत्रस् तथैव पितृ-देवता। ↩︎

  10. सर्वदा दर्भ-पाणिस् स्याद् दैवे पित्र्ये च कर्मणि।
    पाद-शौचं गन्ध-लेपं न कुर्याद् दर्भ-पाणिना ↩︎

  11. सूपं च पायसं चाज्यं दद्याद् भोक्तुश् च दक्षिणे।
    तैल-पक्वं तथा वामे शेषेष्व् अनियमस् स्मृतः॥ ↩︎

  12. तृप्यतेति नव-कृत्वो वा आवर्तनीयम्। ↩︎