पादौ प्रक्षाल्य - द्विर् आचम्य - पूर्वस्मिन् दिने, आत्म-समारोपणे कृते,
उपावरोहजातवेदः पुनस्त्वं - देवेभ्यो हव्यं वहनः प्रजानन्न्, आयुः प्रजाँ रयिमस्मासु धेहि, अजस्रो दीदिहि नो दुरोणे [[TODO: परिष्कार्यम्]]
इति मन्त्रेण, आत्म-समारूढाग्निं यज्ञिय-काष्ठे दर्भ-द्वये वा उद्गीरणेन समारोप्य, लौकिकाग्नौ प्रक्षिपेत् - पूर्वस्मिन् दिने समित्-समारोपणे कृते तु
अजुह्वानस्सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीदसाध्या - अस्मिन्त्सधस्ते अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत [[TODO: परिष्कार्यम्]]
इति मन्त्रेण
उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सँ सृजेथामयं च, पुनः कृण्वग्ँ स्त्वा पितरं युवानमन्वाताँ सीत्वयि तन्तु मे तम्
[[TODO: परिष्कार्यम्]]
इति मन्त्रेणावाहिताग्निं समिधं लौकिकाग्नौ प्रक्षिप्य - पवित्र-पाणिः प्राणानायम्य —
श्री-भगवद् आज्ञया भगवत्-प्रीत्य्-अर्थं, प्रातर् औपासन-होमं होष्यामि
इति सङ्कल्प्य -
[[66]]
कृतञ् च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातर् औपासनेन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि
इति सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य
इति बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातर् औपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -
इति सात्त्विक-त्यागं कृत्वा - यत्राग्नि-स्थापनं तत्र दक्षिणारम्भं उदग् अपवर्गं प्राचीस् तिस्रो रेखाः पश्चिमारम्भं प्राग् अपवर्गम् उदीचीस् त्रिस्रो रेखाश् च, शकलेन दर्भेण वा अङ्गुष्ठानामिकाभ्यां सङ्गृहीतेन लिखित्वा - तत्र तं न्यस्य - अद्भिर् अवोक्ष्य, शकलं नैर्ऋत्यां निरस्य - अप उपस्पृश्य - व्याहृतिभिः अग्निं प्रतिष्ठाप्य - याज्ञियैर् इन्धनैः प्रज्वाल्य - अवोक्षण-शेषं प्राग्-उदग् वा उत्सृज्य - अन्यज् जलं पात्रे पूरयित्वा - यथा परिस्तरणाद् बहिस् स्यात् तथा प्राग्-उदग् वा निधाय - प्राग्-उदग्-अग्रान् षोडश-षोडश-दर्भान् अग्नेः प्राग्-आरभ्य प्रदक्षिणं परिस्तीर्य - दक्षिणान् उत्तरान् उत्तरान् अधरान् कृत्वा -
अञ्जलिं बद्ध्वा
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य, त्रिधा बद्धो वृषभो रोरवीति महोदवो मर्त्याँ आविवेश - एष हि देवः प्रदिशो ऽनुसर्वाः पूर्वो हि जातस्स उ गर्भे अन्तः, सविजायमानस्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठतिविश्वतोमुखः, प्राङ्मुखोदेव अग्ने अभिमुखो भव
[[67]]
इति अग्निं प्रार्थ्य -
ॐ अग्नये नमः ॐ जात-वेदसे नमः - ॐ सहोजसे नमः - ॐ अजिरा-प्रभवे नमः - ॐ वैश्वानराय नमः - ॐ नर्यापसे नमः - ॐ पङ्क्तिराधसे नमः - ॐ विसर्पिणे नमः -
इति प्राग्-आद्य्-अष्टसु दिक्षु अक्षतैस् सम्पूज्य - “ॐ यज्ञ-पुरुषाय नमः” इत्य् अक्षतैर् मध्ये यज्ञ-पुरुषं सम्पूज्य - “सर्वेभ्यश् श्री-वैष्णवेभ्यो नमः” इत्य् अक्षतैर् अभ्यर्च्य -
ॐ अदितेनु मन्यस्व - ॐ अनुमतेनु मन्यस्व - ॐ सरस्वतेनु मन्यस्व - ॐ देवसवितः प्रसुव [[TODO: परिष्कार्यम्]]
इत्य् अग्निं परिषिच्य - अग्नाव् एकां समिधम् आधाय - तण्डुल-मुष्टिम् आदाय - सव्य-हस्ते निक्षिप्य - दक्षिण-हस्तेन प्रोक्ष्य अर्धांशं गृहीत्वा - “ॐ सूर्या॑य॒ स्वाहा॑” - इत्य् अग्नौ हस्तेन देव-तीर्थेन मध्ये हुत्वा - “सूर्यायेदं न मम” किञ्चिद् अधिक-भागं “ॐ अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑” - इत्य् अग्नौ प्राग्-उत्तर-भागे हुत्वा - “अग्नये स्विष्टकृत इदं न मम” - रात्रौ तु “ॐ अ॒ग्नये॒ स्वाहा॑” इत्य् अग्नि-मध्ये हुत्वा - “अग्नय इदं न मम - ॐ अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑” इत्य अग्नौ प्राग्-उत्तर-भागे हुत्वा - “आग्नये स्विष्टकृत इदं न मम” - एकां समिधम् आधाय, आहुति-संसर्गे सति,
आहुति-संसर्ग-प्रायश्चित्तार्थं वनस्पति-होमं करिष्ये
इति सङ्कल्प्य -
यत्र वेत्थ वनस्पते देवानां गुह्यो नामानि - तत्र हव्यानिगामय स्वाहा [[TODO: परिष्कार्यम्]]
इति समिधम् आधाय - “वनस्पतय इदं न मम”
ॐ अदितेन्वमग्ग् स्थाः - ॐ अनुमतेन्वमग्ग् स्थाः - ॐ सरस्वतेन्वमग्ग् स्थाः - ॐ देवसवितः प्रासावीः
[[68]]
“ॐ श्रीविष्ण॑वे॒ स्वाहा॑” इति एकया समिधा दर्भ-द्वयेन वा पूर्णाहुतिं हुत्वा - “श्री-विष्णवे परमात्मन इदं न मम” - तण्डुले श्रिते सति - उत्थाय
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्, युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम - [[TODO: परिष्कार्यम्]]
ॐ अग्नये नमः।
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं हुताशन।
यद् धुतं तु मया देव परिपूर्णं तद् अस्तु ते।
प्रायश्चित्तान्य् अ-शेषाणि तपः-कर्मात्मकानि वै।
यानि तेषाम् अ-शेषाणाम् कृष्णानुस्मरणं परम्
इति प्रणम्य - अभिवाद्य - आचम्य -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातर् औपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति सात्त्विक-त्यागं कृत्वा -
कृतञ् च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातर् औपासनेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः
इति प्रातर् औपासनं भगवति समर्पयेत् -
अयन्तेयो निर्ऋत्वियो यतो जातो आरोचथाः, तं जानन्नग्न आरोहाथानोवर्धयारयिम् [[TODO: परिष्कार्यम्]]
इत्य् अग्निं समिध्य् आरोपयेत् - यद् वा,
याते अग्ने यज्ञियातनूस्तयेह्यारोहात्माऽत्मानं, अच्छावसूनि कृण्वन्नस्मे नर्यापुरूणि, यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानस्सक्षय एहि [[TODO: परिष्कार्यम्]]
इति अग्निम् आत्मनि आरोपयेत्।
[[69]]