पादौ प्रक्षाल्य - द्विर् आचम्य - स-पवित्र-पाणिः दक्षिणा-ताम्बूलाक्षतान् गृहीत्वा -
ॐ नमस्सदसे नमस्सदसस्पतये नमस्सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै, सप्रथसभाम्मे गोपाय, ये च सभ्यास्सभावदः - तानिन्द्रियावतः कुरु - सर्वमायुरुपासतां - सर्वेभ्यश् श्री-वैष्णवेभो नमः [[TODO: परिष्कार्यम्]]
इति ब्राह्मणान् अक्षतैर् अभ्यर्च्य - दक्षिणा ताम्बूलं दत्त्वा - प्रणम्य -
स्वामिनः भवत्-पाद-मूले मया समर्पिताम् इमां यत् किञ्चिद् दक्षिणां यथोक्त-दक्षिणात्वेन स्वीकृत्य आवयोर् विच्छिन्नौपासनाग्नि-सन्धानं कर्तुं योग्यता-सिद्धिर् अस्त्व् इति भवन्तो महान्तो ऽनुगृह्णन्तु
इति प्रार्थ्य - “तथास्तु योग्यता-सिद्धिर् अस्तु" इति प्रत्युक्ते, दर्भेष्व् आसीनो दर्भान् धारयमाणः पवित्र-पाणिस् त्रीः प्राणानायम्य -
श्रीमान् वेङ्कट-नाथार्यः - सदा हृदि - गुरुभ्यस् तद्-गुरुभ्यश् च - दम्पती-जगतां पती - स्व-शेषभूतेन मया - देवः प्रक्रमते स्वयं - हरिर् ओं तत् श्री-गोविंद
इत्यादि -
अस्यां शुभ-तिथौ श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थम् औपासनाग्निम् आधास्ये विच्छिन्न-सन्धानार्थम् -
इति सङ्कल्प्य - पत्न्य्-अर्थं पुनः प्राणानायम्य - सङ्कल्प्य - “कृतं च” इत्य् अनुसन्धाय - बल-मन्त्रम् अनुसन्धाय सात्त्विक-त्यागं कृत्वा।
यत्राग्नि-स्थापनं तत्र दक्षिणारम्भम् उदग्-अपवर्गं1 प्राचीस् तिस्रो रेखाः,
[[19]]
पश्चिमारम्भं प्राग्-अपवर्गम् उदीचीस् तिस्रो रेखाश् च, अङ्गुष्ठानामिकाभ्यां सङ्गृहीतेन दर्भेण, शकलेन वा लिखित्वा, तत्र तन्-न्यस्य - अद्भिर् अवोक्ष्य - तृणं नैर्ऋत्यां निरस्य - अप उपस्पृश्य - श्रोत्रियागाराद् अग्निम् आहृत्य - व्याहृतिभिः प्रतिष्टाप्य - अवोक्षण-शेषम् उत्सिच्य - अन्यत् तोयम् आपूर्य। यथा परिस्तरणाद् बहिः स्यात् तथा प्राग्-उदग् वा निधाय - यज्ञियैर् इन्धनैर् अग्निं प्रज्वाल्य - परिसमूह्य - प्राग्-उदग्-अग्रान् षोडश-षोडश-दर्भान् अग्नेः प्राग्-आदि प्रदक्षिणं परिस्तीर्य - दक्षिणान् उत्तरान्, उत्तरान् अधरान् कुर्यात् - इन्धनानन्तरं परिस्तरणम् एव कार्यं - न तु तयोर् मध्ये अवश्य-कर्तव्य-कर्मार्थ-सम्भारोपकल्पनादिकम् अपि - उत्तरेणाग्निं प्राग्-अग्रान् दर्भान् संस्तीर्य - तेषु, द्वे द्वे, अधो बिलानि पात्राणि प्रयुनक्ति - प्रधान-दर्व्या सह आज्य-स्थालीम्, उपदर्व्या सह वैकङ्कतीं प्रोक्षणीं च सादयित्वा -
(पवित्रयोस् संस्कार, आयामतः परीमाणं, प्रोक्षणी-संस्कारः, पात्र-प्रोक्ष, इति दर्श-पूर्ण-मासवत् तूष्णीं) -
समान-प्रच्छिन्नाग्रौ दर्भौ प्रादेश-मात्रौ पवित्रे कुरुते तृणं काष्ठं वा अन्तर्धायच् छिनत्ति न नखेन, ततो ऽप उपस्पृश्य - मूलाद् आरभ्य आग्राद् अद्भिर् उन्मृज्य पवित्रे कृत्वा - पात्राणि संस्पृश्य - प्रोक्षणीम् आदाय अपरेणाग्निं निधाय - उदग्-अग्राभ्यां पवित्राभ्याम् अन्तर्हितायाम् अप आनीय - उत्तानयोः प्राग्-अग्रयोः पाण्योर् अङ्गुष्ठानामिकाभ्यां पवित्र-मूलाग्रे गृहीत्वा - उदग्-अग्राभ्यां पवित्राभ्यां त्रिर् उत्पूय - पात्राण्य् उत्तानानि कृत्वा - स-पवित्रेण पाणिना सर्वाभिर् अद्भिः त्रिः प्रोक्ष्य - प्रोक्षणी-पोत्रे अन्य-जलं पूरयित्वा - दक्षिणत उद्वास्य - पवित्रम् आज्य-स्थाल्यां निधाय - विलीनम् अप्य् आज्यं होमाग्नौ कर्मार्थं पुनर् विलाप्य - अपरेणाग्निं पवित्रान्तर्हितायाम् आज्य-स्थाल्याम् आज्यं निरूप्य -
[[20]]
परिस्तरण-पात्र-सादनयोर् मध्ये उदीचो ऽङ्गारान् निरूह्य, तेष्व् आज्यम् अधिश्रित्य - ज्वलता एकेन तृणेनावद्योत्य - द्वे दर्भाग्रे2 अनियता यामे तृणं काष्ठं वा अन्तर्धाय प्रच्छिद्य - अप उपस्पृश्य - युगपद् आज्य-पात्रे प्रत्यस्य - अधो मुखाभ्यां ज्वलद्भ्यां तृणाभ्यां त्रिः पर्य् अग्नि कृत्वा - उदग्-उद्वास्य - अङ्गारान् अग्नौ प्रत्यूह्य - दर्भास्तृते पश्चिमे निधाय - उदग्-अग्राभ्यां पवित्राभ्यां पुनर्-आहारं प्राग्-आरम्भं प्राग्-अपवर्गं त्रिर् उत्पूय - पवित्र-ग्रन्थिं विस्रस्य - अप उपस्पृश्य - युगपद् एव प्राग्-अग्रम् अग्नौ प्रहरति - येन जुहोति तद्-अग्नौ प्रतितप्य - दर्भैस् सम्मृज्य - पुनः प्रतितप्य - प्रोक्ष्य - दर्व्यौ निधाय - दर्भान् अद्भिस् संस्पृश्य अग्नौ प्रहरति - “ॐ अदिते ऽनुमन्यस्व” इति दक्षिणतः प्राचीनं “ॐ अनुमते ऽनुमन्यस्व” इति पश्चाद् उदीचीनं, “ॐ सरस्वतेनुमन्यस्व” इति उत्तरतः प्राचीनं “ॐ देवसवितः प्रसुव” इति प्राग्-आरभ्य प्रदक्षिणं समन्ततो ऽग्निं परिषिच्य - प्रधान-दर्व्या चतुर्-गृहीतेनाज्येन “ॐ भूर् भुवस् सुवस् स्वाहा” इति हुत्वा - “प्रजापतय इदं” इत्य् उद्देश्य-त्यागं कृत्वा -
अनाज्ञातं यदाज्ञातं - यज्ञस्य क्रियते मिथु - अग्ने तदस्य कल्पय - त्वँ हि वेत्थ यथा तथं स्वाहा - अग्नय इदम् - [[TODO: परिष्कार्यम्]]
पुरुषसम्मितो यज्ञः - यज्ञः पुरुषसम्मितः - अग्ने तदस्य कल्पय - त्वँ हि वेत्थ यथा तथं स्वाहा - अग्नय इदम् - [[TODO: परिष्कार्यम्]]
यत्पाकत्रामनसादीनदक्षान - यज्ञस्यमन्वतेमर्तासः - अग्निष्टद्धोता क्रतुविद्विजानन्न् - यजिष्ठो देवाँ ऋतुशोयजाति स्वाहा - अग्नय इदम् - [[TODO: परिष्कार्यम्]]
प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थम् अग्न्य्-अनुगति-प्रायश्-चित्तार्थम् अयाश् च होमं करिष्ये
इति सङ्कल्प्य -
[[21]]
अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्त्वमया असि - अयसामनसाधृतो ऽयसाहव्यमाहिषे ऽयानो धेहि भेषजं स्वाहा - अग्नये अयस इदम् [[TODO: परिष्कार्यम्]]
(पुनस्त्वादित्यारुद्रावसवस्समिन्धतां पुनर्बह्माणो वसुनीथयज्ञैः - घृतेनत्वन्तनुवो वर्धयस्वसत्यास्सन्तु यजमानस्य कामास् स्वाहा - अग्नये वसुनीथायेदम् - [[TODO: परिष्कार्यम्]]
मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमन्दधातु - या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा - मनसे ज्योतिष इदम् - [[TODO: परिष्कार्यम्]]
यन्म आत्मनोमिंदाभूदग्निस् तत्पुनराहार्जातवेदा विचर्षणिस् स्वाहा - अग्नये जातवेदस इदम् - [[TODO: परिष्कार्यम्]]
पुनरग्निश्चक्षुरदात्पुनरिन्द्रो बृहस्पतिः, पुनर्मे अश्विनायुवं चक्षुराधत्तमक्ष्योस् स्वाहा - अग्नीन्द्राबृहस्पत्यश्विभ्य इदम् - [[TODO: परिष्कार्यम्]]
तन्तुं तन्वन् रजसोभानुमन्विहि ज्योतिष्मतः पथोरक्ष धियाकृतान्, अनुल्बणंवयत जोगुवामपो मनुर्भव जनया दैव्यञ्जनं स्वाहा - अग्नये तन्तुमत इदम्।) [[TODO: परिष्कार्यम्]]
प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं - मन्त्र-तन्त्र-देवता-विपर्यास-न्यूनातिरेक-स्वराक्षर-भ्रेष-प्रायश्-चित्तार्थं सर्व-प्रायश्-चित्ताहुतीर् होष्यामि - प्राणायामं च करिष्ये -
ॐ भूर् भुवस् सुवस् स्वाहा - प्रजापतय इदम् -
अनाज्ञातं यदाज्ञातं, यज्ञस्य क्रियते मिथु, अग्ने तदस्य कल्पय, त्वँ हि वेत्थ यथा तथं स्वाहा - अग्नय इदम् - [[TODO: परिष्कार्यम्]]
पुरुषसम्मितो यज्ञः, यज्ञः पुरुषसम्मितः, अग्ने तदस्य कल्पय, त्वँ हि वेत्थ यथा तथं स्वाहा, अग्नय इदम् - [[TODO: परिष्कार्यम्]]
यत्पाकत्रामनसादीनदक्षान, यज्ञस्य मन्वते मर्तासः, अग्निष्टद्धोताक्रतुविद्विजानन्, यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा, अग्नय इदम् [[TODO: परिष्कार्यम्]]
त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्टाः, यजिष्ठो वह्नितमश् शोशुचानो विश्वाद्वेषाँ सि प्रमुमुग्ध्यस्मत् स्वाहा - अग्नी वरुणाभ्याम् इदम् [[TODO: परिष्कार्यम्]]
[[22]]
सत्वन्नो अग्ने ऽवमोभवोतीने दिष्ठो अस्या उषसोव्युष्ठौ, अवयक्ष्वनो वरुणँ रराणो वीहि मृडीकँ सुहवोन एधि स्वाहा, आग्नी वरुणाभ्याम् इदम् - [[TODO: परिष्कार्यम्]]
“ॐ भूस् स्वाहा, अग्नय इदम्” - “ॐ भुवस् स्वाहा, वायव इदम्” - “ओँ सुवस् स्वाहा, सूर्यायेदम्” - “ॐ भूर् भुवस् सुवस् स्वाहा, प्रजापतय इदम्” - “श्री-विष्णवे स्वाहा, विष्णवे परमात्मन इदम्” - प्राणानायम्य -
“ॐ अदिते ऽन्वमग्ग्स्थाः, ॐ अनुमते ऽन्वमग्ग्स्थाः, ॐ सरस्वते ऽन्वमग्ग्स्थाः, ॐ देव सवितः प्रासावीः [[TODO: परिष्कार्यम्]]
इति पूर्ववत् परिषिच्य।
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं विच्छिन्नौपासनाग्नि-सन्धानाख्यं, कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति सात्त्विक-त्यागं कृत्वा -
कृतं च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन विच्छिन्नौपासनाग्नि-सन्धानेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः
इति कृतं कर्म भगवति समर्पयेत्।
पुनः प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थ-अन्-एक-काल-सायं प्रातर् आहुतीनाम् अ-करण-प्रायश्-चित्तार्थं प्राजापत्य-कृच्छ्र-प्रतिनिधि यत् किञ्चिद् धिरण्य-दानं करिष्ये
इति सङ्कल्प्य -
हिरण्य-गर्भ-गर्भस्थं हेम बीजं विभावसोः,
अन्-अन्त-पुण्य-फल-दम् अतश् शान्तिं प्रयच्छ मे
इदं अन्-एक-काल-सायं प्रातर् आहुतीनाम् अ-करण-प्रायश्-चित्तार्थं प्राजापत्य-कृच्छ्र-प्रतिनिधि यत् किञ्चिद् धिरण्यं नाना गोत्रेभ्यः श्री-वैष्णवेभ्यस् संप्रददे न मम
इति दत्त्वा,
[[23]]
पुनः प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थम् आज्य-सहित-होम-द्रव्य-तण्डुल-दानं करिष्ये
इति सङ्कल्प्य,
तण्डुला वैश्व-देवत्याः पाकेनान्नं पचन्ति ये,
तस्मात् तण्डुल-दानेन अतश् शान्तिं प्रयच्छ मेइदम् अज्य-सहित-होम-द्रव्य-तण्डुलं यस्मै कस्मै चित् श्रोत्रियाय श्री-वैष्णवाय सम्प्रददे न मम
इति दत्त्वा।
अग्नि-सन्धान-प्रयोगस् समाप्तः।
अथ औपासन होमः।
पुनः प्राणानायाम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं पूर्वेद्युस् सायम् औपासन-होमं अद्य प्रातर् औपासन-होमं च होष्यामि
इति सङ्कल्प्य -
कृतं च करिष्यामि … पूर्वेद्युस् सायम् औपासन-होमेन अद्य प्रातर् औपासन-होमेन च भगवन्तं वासुदेवम् अर्चयिष्यामि
इति सङ्कल्प्य - बल-मन्त्रम् अनुसन्धाय - “भगवान् एव … कारयति” इति सात्त्विक-त्यागं कृत्वा3 - वाम-हस्तेन पात्रं स्पृशन् दक्षिणेन पाणिना दक्षिणतः “ॐ अदिते ऽनु मन्यस्व” इति प्राग्-अपवर्गं, पश्चिमे “ॐ अनुमते ऽनु मन्यस्व” इति उदग्-अपवर्गम्, उत्तरतः, “ॐ सरस्वते ऽनु मन्यस्व” इति प्राग्-अपवर्गं, “ॐ देवसवितः प्रसुव” इति प्राग्-आरभ्य प्रदक्षिणं समन्ततो ऽग्निं परिषिच्य - एकां समिधम् आधाय - पत्नी-हस्तं प्रोक्ष्य, तण्डुलं प्रदाय - पुनः प्रोक्ष्य - अर्धांशं गृहीत्वा - तं द्वेधा विभज्य - अग्नि-मध्ये - “ॐ अग्नये स्वाहा, अग्नय इदम्” - उत्तरार्ध-पूर्वार्धे
[[24]]
ॐ अग्नये स्विष्टकृते स्वाहा - अग्नये स्विष्टकृत इदम्
इति दक्षिण-हस्तेन देव-तीर्थेन हुत्वा एकां समिधम् आधाय, अन्यम् अर्धांशं गृहीत्वा - द्वेधा विभज्य “ॐ सूर्याय स्वाहा, सूर्यायेदं” -
ॐ अग्नये स्वीष्टकृते स्वाहा - अग्नये स्विष्टकृत इदम् -
इति पूर्व-निर्दिष्ट-स्थाने पूर्ववद् धुत्वा - आहुति-संसर्गे सति
आहुति-संसर्ग-प्रायश्-चित्तार्थं वनस्पति-होमं करिष्ये
इति सङ्कल्प्य -
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि, तत्र हव्यानि गामय स्वाहा -
वनस्पतय इदं
पुनः एकां समिधम् आधाय -
ॐ अदिते ऽन्वमग्ग्स्थाः, ॐ अनुमते ऽन्वमग्ग्स्थाः, ॐ सरस्वते ऽन्वमग्ग्स्थाः, ॐ देवसवितः प्रासावीः [[TODO: परिष्कार्यम्]]
इति पूर्ववत् परिषिच्य -
ॐ श्री-विष्णवे स्वाहा, विष्णवे परमात्मन इदम्
इति पूर्णाहुतिं हुत्वा
तण्डुले सम्यक् श्रिते सति - उत्थाय -
अग्नेनय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान्, युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम - [[TODO: परिष्कार्यम्]]
इत्य् उपस्थाय - “अग्नये नमः”
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं हुताशन।
यद् धुतं तु मया देव परिपूर्णं तद् अस्तु ते।
प्रायश्-चित्तान्य् अ-शेषाणि तपः-कर्मात्मकानि वै।
यानि तेषाम् अ-शेषाणां कृष्णानुस्मरणं परम्॥
प्रणम्य - अभिवाद्य - आचम्य।
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं पूर्वेद्युस् सायम् औपासन-होमेन सह अद्य प्रातर् औपासन-होमाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति सात्त्विक-त्यागं कृत्वा -
[[25]]
कृतं च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन पूर्वेद्युस् सायम् औपासन-होमेन सह अद्य प्रातर् औपासन-होमाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति कृतं कर्म भगवति समर्पयेत्।
औपासन-होमस् समाप्तः।
श्रीमत्-प्रणतार्ति-हर-वरद-परब्रह्मणे नमः।
[[26]]
-
अपवर्गः = समाप्तिः। ↩︎
-
मधु-गन्ध-रसौ नाम राक्षसा वाज्य-हारिणौ।
तयोर् निरसनार्थाय द्वे दर्भाग्रे विनिपेक्षित्॥ ↩︎ -
अत्र “चत्वारि शृङ्गा” इत्यय् अग्नि-प्रार्थनस्य, “अग्नये नमः, जात-वेदसे नमः” इत्यादि मन्त्रैर् अग्न्य्-अलङ्करणस्य च, आपस्तम्ब-सुदर्शनाचार्य-अण्डपिल्लै वैदिक-सार्वभौमादिभिर् अन्-उक्तत्वान् न कर्तव्ये इति केचिद् वदन्ति। ↩︎