आचम्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, ब्रह्म-यज्ञेन यक्ष्ये
इति सङ्कल्प्य -
कृतञ् च करिष्यामि भगवन्न् इत्य् एव भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन ब्रह्म-यज्ञेन भगवन्तं वासुदेवम् अर्चयिष्यामि
इति सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य -
बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं ब्रह्म-यज्ञाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -
इति सात्त्विक-त्यागं कृत्वा
…{Loading}…
विश्वास-प्रस्तुतिः
वि᳓द्युद् असि,
वि᳓द्य मे पाप्मा᳓नम्,
ऋता᳓त् सत्य᳓म् उ᳓पैमि॥
म᳓यि श्रद्धा᳓।
मूलम्
विद्यु॑द् असि॒,
विद्य॑ मे पा॒प्मान॑म्,
ऋ॒तात् स॒त्यम् उपै॑मि॥
मयि॑ श्र॒द्धा।
इति दक्षिण-कर-तलेन अप अदाय वाम-कर-तलं सम्मृज्य -
[[61]]
तूष्णीं त्रिर् अपः प्राश्य
द्विः परिमृज्य
सकृद् उपस्पृश्य
शिरस्-सर्वाङ्गुलीभिः, चक्षुषी अनामिकया, नासिके तर्जन्या, श्रोत्रे कनिष्ठिकया, हृदयं तलेन च उपस्पृश्य
शुचौ देशे दर्भान् आस्तीर्य, तत्रासीनस् स-पवित्र-पाणि-द्वयः, त्रिः प्राणानायम्य
दक्षिण-पादोत्तरम् उपस्थं कृत्वा, दक्षिण-जानुनि दक्षिणोत्तरौ पाणी कृत्वा “ॐ” इत्य् उक्त्वा
“ॐ भूः
ॐ भवः
ओँ सुवः” इति व्याहृति-त्रयम् उक्ता
ॐ तत्सवितुर्वरेणियम्
ॐ भर्गो देवस्य धीमहि
ॐ धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इति पादशः,
ॐ तत्सवितुर्वरेणियम् भर्गो देवस्य धीमहि, धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इत्य् अर्धशः
ॐ तत्सवितुर्वरेणियम् भर्गो देवस्य धीमहि, धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इत्य् अनवानं चोच्चरेत्
इति श्रौत-प्रक्रिया - अथवा -
ॐ भूः तत्सवितुर्वरेणियम्, ॐ भुवः भर्गो देवस्य धीमहि, ओँ सुवः धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इति पादशः -
ॐ भूः तत्सवितुर्वरेणियम्, भर्गो देवस्य धीमहि, धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इत्य् अर्धशः -
ओँ सुवः तत्सवितुर्वरेणियम् भर्गो देवस्य धीमहि धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इत्य् अनवानम् -
ॐ भूर्भुवस्सुवः, तत्सवितुर्वरेणियम्, भर्गो देवस्य धीमहि, धियोयोनः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इति चोच्चरेत् - इति स्मार्त-प्रक्रिया - उभय-प्रक्रिययोस् तद्-उपरि वक्ष्यमाणं सर्वं समम् एव - ततः,
हरिः ॐ, अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं, होतारं रत्नधातमम् हरिः ॐ - [[TODO: परिष्कार्यम्]]
[[62]]
हरिः ॐ, इषेत्वोर्जेत्वावायवस्थोपायवस्थ देवोवस्सविताप्रार्पयतु श्रेष्ठतमायकर्मणे, हरिः ॐ" - [[TODO: परिष्कार्यम्]]
हरि ॐ, अग्न अयाहि वीतये गृणानो हव्य दातये, निहोतासत्सिबर्हिषि हरिः ॐ - [[TODO: परिष्कार्यम्]]
हरि ॐ, शन्नो देवीरभिष्टय आपोभवन्तु पीतये, शंयोरभिस्रवन्तुनः हरिः ॐ [[TODO: परिष्कार्यम्]]
इति वेदादीन् उक्त्वा - अधीत-क्रमेण स्व-शाखायां प्रश्नम् अनुवाकं वा यथा-शक्त्य् अधीत्य - पुंसूक्तं चावर्तयेत् - स्वाध्यायाध्ययनाभावे पुंसूक्तं वा गायत्रीं दश-कृत्वो वा ऽधीत्य - ततः
ॐ भूर् भुवस् सुवस् सत्यं तपश् श्रद्धायां जुहोमि
इत्य् उक्त्वा
“ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः, नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि [[TODO: परिष्कार्यम्]]
इति त्रिर् उक्त्वा, -
वृष्टि॑रसि॒वृश्च॑मेपा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इति दक्षिण-कर-तलेन अप आदाय वाम-कर-तलं सम्मृज्य - आचम्य -
भगवान् एव स्वनियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया सक्वीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी-स्व-शेष-भूतम् इदम् ब्रह्म-यज्ञाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति सात्त्विक-त्यागं कृत्वा -
कृतञ् च करिष्यामि भगवन्न् इत्य् एव भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन ब्रह्म-यज्ञेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः
इति भगवति समर्पयेत् -
प्रातर् ब्रह्म-यज्ञाकरणे माध्याह्निकानन्तरं, तर्पणात् पूर्वं, वैश्वदेवान्ते वा कुर्यात् -
[[63]]