अथ लोहितायति सूर्ये, वस्त्र-परिनर्तन-पूर्वकं, सायं सन्ध्याम् उपासीत।
तत्-प्रकारः -
पादौ प्रक्षाल्य प्राङ्-मुख-उदङ्-मुखो वा, आसीनः द्विर् आचम्य -
प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं सायं सन्ध्यम् उपासिष्ये।
[[139]]
इति सङ्कल्प्य - कृतं चेत्यादिना सङ्कल्प्य - बल-मन्त्रम्-अनुसन्धाय - भगवान् एवेति सात्विक-त्यागं कृत्वा - “आपोहिष्टेति मन्त्रस्य” इत्य् आरभ्य “आत्मानं परिषिच्य” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् कुर्यात्।
अग्निश्चेत्य् अनुवाकस्य सूर्य ऋषिः, देवी गायत्री-च्छन्दः, अग्निर् देवता
इति न्यस्य - “अपां प्राशने विनियोगः” इत्य् उक्त्वा - हस्ते, आचमनवज् जलं गृहीत्वा -
अग्निश्च मामन्युश्च मन्युपतयश्च मन्यु कृत्रेभ्यः, पापेभ्यो रक्षन्ताम्, यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्याम्, पद्भ्यामुदरेण शिश्ना, अहस्तदवलुम्पतु, यत्किञ्च दुरितं मयि, इदमहं मामृतयोनौ, सत्येज्योतिषि जुहोमि स्वाहा [[TODO: परिष्कार्यम्]]
इत्य् अपः प्राश्य - आचम्य - “दधिक्रावण्ण इति मन्त्रस्य” इत्य् आरभ्य “राक्षस-मुद्रा-रहीताञ्जलिना तोयेन” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् कुर्यात्। अर्धास्तमिते सूर्ये, प्रत्यङ्-मुखस् तिष्ठन्,अर्घ्य-त्रयं दत्त्वा - अर्घ्यात् पूर्वं सूर्यास्तमये सति, प्राणानायम्य -
सायं सन्ध्या-कालाति-क्रम-प्रायश्चित्तार्थं, तुर्यार्घ्य-प्रदानं करिष्ये
इति सङ्कल्प्य - “सप्त-व्याहृति-सम्पुटित-गायत्र्या" इत्य् आरभ्य “सन्तर्प्य आचम्य” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् कुर्यात्। विष्ण्व्-आयतनं, तत्-समीपं, अन्यद् वा गत्वा यत्र जपः करिष्यते तत्-स्थलं प्रणव-व्याहृतिभिः प्रोक्ष्य - तत्र उदग्-अग्र-दर्भेषु पत्यङ्-मुखम् आसीनः, “आसन-मन्त्रस्य" इत्य् आरभ्य “दश-वारम्” इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत् कुर्यात् -
सायं सन्ध्यायां गायत्री-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य - “आयात्व् इत्य् अनुवाकस्य" इत्य् आरभ्य “इत्य् अनुवाकेनावाह्य” इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत् कुर्यात्।
सायं सरस्वतीं श्यामां रवि-मण्डल-मध्य-गाम्।
साम-वेदं व्याहरन्तीं चक्रायुध-धरां शुभाम्।
ध्यायामि विष्णु-दैवत्यां वृद्धां गरुड-वाहनाम्॥
[[140]]
इति ध्यात्वा -
“आसनादि षोडश” इत्य् आरभ्य “सविता देवता, इति न्यस्य” इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत्। “सायं सन्ध्या-जपे विनियोगः” इत्य् उक्त्वा - “अस्त्र-मन्त्रेण” इत्य् आरभ्य “संहताङ्गुलि-कर-द्वयम्” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् - नाभि-समम् उद्धृत्य, “कनिष्ठिका-मूलारभ्य” इत्य् आरभ्य “त्रिः प्राणानायम्य” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् - “सायं सन्ध्योपस्थानं करिष्ये” इति सङ्कल्प्य - “उत्तम इत्य् अनुवाकस्य” इत्य् आरभ्य “गायत्रीम् उद्वास्य” इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत् -
इमं म इति पञ्चर्चस्य, देवरात ऋषिः, गायत्री-त्रिष्टुप्-गायत्री-जगती-त्रिष्टुभश् छन्दांसि, सविता देवता
इति न्यस्य - “सायं सन्ध्योपस्थाने निनियोगः” इत्य् उक्त्वा -
इमं मे वरुण श्रुधीहवमद्यामृडय, त्वामवस्युराचके, तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः, अहेडमानो वरुणेह बोध्युरुशँ समान आयुः प्रमोषीः, यच्चिद्धिते विशो यथा प्रदेववरुणव्रतम्, मिनीमसीद्यविद्यवि, यत्किञ्चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश्चरामसि, अचित्ती यत्तव धर्मायुयोपिम मानस्तस्मादेनसो देव रीरिषः, कितवासो यद्रिरिपुर्न दीवि यद्वाघासत्यमुतयन्न विद्म, सर्वाताविष्यशिथिरेव देवाथातेस्याम वरुणप्रियासः [[TODO: परिष्कार्यम्]]
इत्य् उपस्थाय - शेषं, प्रातस् सन्ध्या-वन्दनवत् कुर्यात्।
[[141]]
प्रदोष-रहित-रात्रौ[^१_१४२], आशौचादि-रहितः, श्रीमद्-अष्टाक्षरम् अपि यथा-शक्ति