द्विर् आचम्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, माध्याह्निक-सन्ध्याम् उपासिष्ये
इति सङ्कल्प्य -
कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन माध्याह्निक-सन्द्योपासनेन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि
इति सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य
इति बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं माध्याह्निक-सन्ध्योपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -
इति सात्त्विक-त्यागं कृत्वा -
[[78]]
“अपोहिष्ठेति मन्त्रस्य” इत्य् आरभ्य “आत्मानं परिषिच्य” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् -
आपः पुनन्त्व् इत्य् अनुवाकस्य आप ऋषिः अनुष्टुप्-छन्दः, ब्रह्मणस्पतिर् देवता
इदि न्यस्य - “अपां प्राशने विनियोगः” इत्य् उक्त्वा - हस्ते आचमनवज् जलं गृहीत्वा,
आपः, पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्, पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूतापुनातु माम्, यदुच्छिष्टमभोज्यं यद्वादुश्चरितं मम, सर्वं पुनन्तु मामापो ऽसताञ्च प्रतिग्रहग्ँ स्वाहा [[TODO: परिष्कार्यम्]]
इत्य् अनुवाकेन, अपश्-चुलकेन प्राश्य - आचम्य - “दधिक्राव्ण्ण इति मन्त्रस्य” इत्य् आरभ्य “राक्षस-मुद्रा-रहिताञ्जलिना तोयेन” इति पर्यन्तं प्रातस् सन्ध्या-वन्धनवत् - एकम् अर्ध्यं दत्त्वा - अर्घ्यात् पूर्वं, मध्याह्नातिक्रमे, प्राणानायम्य -
माध्याह्निक-सन्ध्या-कालातिक्रम-प्रायश्चित्तार्थं,अर्घ्य-प्रदानं करिष्ये
इति सङ्कल्प्य - “सप्त-व्याहृति” इत्य् आरभ्य “ध्यात्वा - सन्तर्प्य - आचम्य” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत्।
शक्तश् चेत् सूर्याभिमुखस् तिष्ठन्न् एव, अशक्तश् चेत्, आसीन - जपेत् - “आसन-मन्त्रस्य” इत्य् आरभ्य “दश-वारम्” इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत् -
माध्याह्निक-सन्ध्या-गायत्री-मन्त्र-जपं करिष्ये
इति सङ्कल्पे विशेषः -“आयात्व् इत्य् अनुवाकस्य” इत्य् आरभ्य इत्य् अनुवाकेनावाह्य" इति पर्यन्तं प्रातस् सन्ध्या-वन्दनवत् -
मध्यन्दिने तु सावित्रीं रवि-मण्डल-मध्य-गाम्।
यजुर्-वेदं व्याहरन्तीं श्वेतां शूल-करां शिवाम्।
युवतिं रुद्र-दैवत्यां ध्यायामि वृष-वाहनाम्
एवं ध्यात्वा -
[[79]]
“आसनादि-षोडश” इत्य् आरभ्य “सविता देवता” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् - “माध्याह्निक-सन्ध्या जपे विनियोगः” इति भेदः - “अस्त्र-मन्त्रेण” इत्य् आरभ्य “संहताङ्गुलि-कर-द्वयम्” इति पर्यन्तं, प्रातस् सन्ध्या-वन्दनवत् - हृदय-समम् उद्धृत्य - इति भेदः - “कनिष्ठिका-मूलम् आरभ्य” इत्य् आरभ्य, “कुर्यात्” इति पर्यन्तं, पूर्ववत् - त्रिः प्राणानायम्य - “माध्याह्निक-सन्ध्योपस्थानं करिष्ये” इति सङ्कल्पः - “उत्तम इत्य् अनुवाकस्य” इत्य् आरभ्य “उद्वास्य” इति पर्यन्तं पूर्ववत् -
आसत्येनेति षड्-ऋचस्य हिरण्य-स्तूप ऋषिः, आद्ययोस् त्रिष्टुप्, चतसृणां गायत्री-जगत्य्-उष्णिक्-त्रिष्टुभश् छन्दांसि, सविता देवता
इति न्यस्य “माध्याह्निक-सन्ध्योपस्थाने विनियोगः” इत्य् उक्त्वा -
आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च, हिरण्ययेन सवितारथेनादेवो याति भुवनाविपश्यन्, उद्वयन्तमसस्परि पश्यन्तोज्योतिरुत्तरं, देवन्देवत्रा सूर्यमगन्म ज्योतीरुत्तमं, उदुत्यञ्जात वेदसं देवं वहन्ति केतवः, दृशे विश्वाय सूर्यं, चित्रन्देवानामुदगादनीकञ्चक्षुर्मित्रस्य वरुणस्याग्नेः, आऽप्राद्यावा पृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च, तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्छरत्, पश्येम शरदश्शतं जीवेम शरदश्शतन्नन्दामशरदश्शतं मोदाम शरदश्शतं भवामशरदश्शतँ शृणवाम शरदश्शतं प्रब्रवामशरदश्शतमजीतास्स्यामशरदश्शतं ज्योक्च सूर्यन्दृशे, य उदगानह्मतो ऽर्णवाद्विभ्राजमानस्सरिरस्यमध्यात्समावृषभो लोहिताक्षस्सूर्योविपश्चिन्मनसापुनातु [[TODO: परिष्कार्यम्]]
इति अदित्यम् उपस्थाय - शेषं प्रातस् सन्ध्या-वन्दनवत् कुर्यात्। मध्यन्दिने ऽतिक्रान्ते दिङ्-नमस्कारं प्रतीच्यादि कुर्यात् -
प्रातः कालोक्त-रीत्या प्राणायाम-सङ्कल्प-ऋषि-च्छन्दो देवताङ्ग-न्यासादि-पूर्वकं यथा-शक्ति मूल-मन्त्रं जपेत्।
ततः वस्त्र-निष्पीडनं कुर्यात्।
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं, माध्याह्निक-सन्ध्योपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्
इति सात्त्विक-त्यागं कृत्वा -
कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन माध्याह्निक-सन्द्योपासनेन भगवान् प्रीयतां वासुदेवः
इति माध्याह्निक-सन्ध्योपासनं भगवति समर्पयेत्।
[[81]]