(सन्ध्या-वन्दन-भाष्यं, अनुबन्धे-द्रष्टव्यम्)
द्विर् आचम्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, प्रातस् सन्ध्याम् उपासिस्ष्ये
इति सङ्कल्प्य -
कृतञ् च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातस् सन्ध्योपासनाख्येन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि
इति च सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य
इति बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं प्रातस् सन्ध्योपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -
इति सात्त्विक-त्यागं कृत्वा - भगवन्तं श्री-भूमि-नीला-समेतं ध्यात्वा - पूर्वं पुण्ड्रा धारणे उदके दक्षिणानामिकया यथा-सम्प्रदायं नृ-सिहं बीजं विलिख्य, तत्-तीर्थेन, ऊर्ध्व-पुण्ड्रं धृत्वा -
आपोहिष्ठेति मन्त्रस्य सिन्धु-द्वीप ऋषिः, देवी गायत्री-च्छन्दः, आपो देवता"
इति शिरो-जिह्वा-हृदयेषु अन्-अङ्गुष्टाभिर् अङ्गुलीभिस् स्पृष्ट्वा - “प्रोक्षणे विनियोगः” इत्य् उक्त्वा - वाम-हस्तेन तोयं संस्पृश्य - ब्रह्म-तीर्थेन तीर्थम् आदाय - देव-तीर्थेनोर्ध्व-मुखेन प्रणवेन एक-वारं, समस्त-व्याहृतिभिः एक-वारं, गायत्र्या च एक-वारं, प्रोक्ष्य -
[[35]]
ॐ अपो हिष्ठा मयोभुवः - ॐ तान ऊर्जे दधातन - ॐ महेरणाय चक्षसे - ॐ योवश्शिवतमोरसः - ॐ तस्य भाजयते हनः - ॐ उशतीरव मातरः - ॐ तस्मा अरङ्ग मावमः [[TODO: परिष्कार्यम्]]
इति प्रत्येकं शिरसि1 प्रोक्ष्य “ॐ यस्य॒ क्षया॑य॒ जिन्व॑थ” इति पाद-द्वये सम्प्रोक्ष्य “ॐ आपो॑ ज॒नयथा॑ चनः" इति पुनश् शिरसि प्रोक्ष्य - “ॐ भूर्भुव॒स्सुवः॑” इति आत्मानं परिषिच्य -
सूर्यश् चेत्य् अनुवाकस्य अग्निर् ऋषिः, देवी गायत्री-च्छन्दः, सूर्यो देवता
इति पूर्ववत् न्यस्य “अपां प्राशने विनियोगः” इत्य् उक्त्वा हस्ते आचमनवज्-जलं गृहीत्वा,
सूर्यश्च मामन्युश्च मन्युपतयश्च मुन्युकृतेभ्यः, पापेभ्यो रक्षन्ताम्, यद्रात्रिया पापमकार्षम्, मनसा वाचा हस्ताभ्याम्, पद्भ्यामुदरेण शिश्ना, रात्रिस्तदवलुम्पतु, यत्किञ्च दुरितम्मयि, इदमहम्माममृतयोनौ, सूर्येज्योतिषि जुहोमि स्वाहा [[TODO: परिष्कार्यम्]]
इत्य् अनुवाकेन, आपः प्राश्य - आचम्य -
दधिक्रावण्ण इति मन्त्रस्य वाम-देव ऋषिः अनुष्टुप्-छन्दः, दधिक्रावा देवता,
इति न्यस्य “अपां प्रोक्षणे विनियोगः” इत्य् उक्त्वा -
ॐ दधिक्रावण्णो आकारिषम्, ॐ जिष्णोरश्वस्य वाजिनः, ॐ सुरभिनो मुखाकरत्, ॐ प्रण आयूगंषि तारिषत्, ॐ अपोहिष्ठामयोभुवः, ॐ तान उर्जे दधातन, ओं महेरणाय चक्षसे, ॐ योवश्शिवतमो रसः, ॐ तस्य भाजयते हनः, ॐ उशतीरिव मातरः, ॐ तस्मा अरङ्ग मामवः, [[TODO: परिष्कार्यम्]]
[[36]]
इति पूर्ववच् छिरसि प्रोक्ष्य ”ओं यस्य॒ क्षया॑य॒ जिन्व॑थ” इति पाद-द्वये - “ॐ आपो॑ ज॒नय॑थाचनः” इति पुनश् शरसि प्रोक्ष्य - “ॐ भूर्भुव॒स्सुवः॑” इति आत्मानं परिषिच्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं प्रातस् सन्ध्यायाम् अर्घ्य-प्रदानं करिष्ये
इति सङ्कल्प्य - उत्थाय
ॐ अर्घ्य-प्रदान-मन्त्रस्य विश्वामित्र ऋषिः, देवी गायत्री-च्छन्दः, सविता देवता,
इति न्यस्य - “अर्घ्य-प्रदाने विनियोगः” इत्य् उक्त्वा स-प्रणव-स-व्याहृतिक-गायत्र्या आदित्यान्तर्वर्ति-भगवन्तं ध्यायन्, पार्ष्णि-द्वयम् उद्धरन्, आभ्रू-मध्यं समुद्धत्य, तर्जन्य्-अङ्गुष्ठ-संयोग-रूप-राक्षस-मुद्रा-रहिताञ्जलिना तोयेन, अर्घ्य-त्रयं प्रत्येकं मन्त्रम् उच्चार्य जल-मध्ये प्रक्षिपेत् - अर्घ्यात् पूर्वं सूर्योदये सति, प्राणानायम्य,
प्रातस् सन्ध्या-कालाति-क्रम-प्रायश्चित्तार्थं, तुर्यार्घ्य-प्रदानं करिष्ये
इति सङ्कल्य - सप्त-व्याहृति-सम्पुटित-गायत्र्या तत्-तत्-सूत्रोक्त-मन्रेण वा तुर्यार्घ्यं दत्वा - तीरं गत्वा “ॐ भूर्भूव॒स्सुवः॑” इति आत्मानं परिषिच्य - प्रदक्षिणं परिक्रम्य “असावादित्यो ब्रह्म” इति ध्यात्वा - आचम्य -
“ॐ केशवं तर्पयामि” इति मार्ग-शीर्ष-मासेशम् “ॐ नारायणं तर्पयामि”, इति पुष्य-मासेशं, “ॐ माधवं तर्पयामि”, इति माघ-मासेशं “ॐ गोविन्दं तर्पयामि”, इति फाल्गुन-मासेशं, “ॐ विष्णुं तर्पयामि”, इति चैत्र-मासेशं, “ॐ मधुसूदनं तर्पयामि” इति वैशाख-मासेशं, “ॐ त्रिविक्रमं तर्पयामि” इति ज्येष्ठ-मासेशं, “ॐ वामनं तर्पयामि” इति आषाढ-मासेशं, “ॐ श्री-धरं तर्पयामि” इति श्रावण-मासेशं, “ॐ हृषीकेशम् तर्पयामि” इति भाद्र-पद-मासेशं, “ॐ पद्म-नाभं तर्पयामि” इति आश्वयुज-मासेशं, “ॐ दामोदरं तर्पयामि” इति कार्तिक-मासेशं, इति प्रत्येकं ध्यात्वा सन्तर्प्य - आचामेत् -
[[37]]
जले सन्ध्यां कुर्याच् चेत्, जानु-दघ्न-जले तिष्ठन् कुर्यात् - स्थले कुर्याच् चेत्, कुक्कुटासनेनासीनः, कुर्यात् - यद् वा - स्थल एक-पादं, जल एक-पादं, न्यस्य कुर्यात् - तथा चेत्, अन्तर् बहिश् च शुद्धो भवति - आर्द्र-वाससा सन्ध्यां न कुर्यात् - कुर्याच् चेत्, जानु-दघ्न-जले तिष्ठन्, प्रदक्षिण-नमस्कारौ विना, उपस्थानं कुर्यात् -
विष्ण्वायतनं2 तत्-समीपम् अन्यद् वा गत्वा, तत्-सलं प्रणव-व्याहृतिभिः प्रोक्ष्य - तत्र प्राग्-अग्र-दर्भेषु स्थित्वा,
आसन-मन्त्रस्य पृथिव्या मेरु-पृष्ठ ऋषिः, सुतलं छन्दः, श्री-कूर्मो देवता
इति न्यस्य, “आसने विनियोगः” इत्य् उक्त्वा
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरुम् आसनम्
इति पृथ्वीं प्रार्थ्य -
प्रणवस्य ऋषिर् ब्रह्मा देवी गायत्री-च्छन्दः, परमात्मा देवता
भूर् आदि सप्त-व्याहृतीनाम् अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यपाङ्गिरस ऋषयः, गायत्र्य्-उष्णिग्-अनुष्टुब्-बृहती-पङ्क्ति-त्रिष्टुब्-जग त्यश् छन्दांसि,
अग्नि-वाय्व्-अर्क-वागीश-वरुणेन्द्र-विश्व-देवा देवता
सावित्र्या ऋषिः विश्वामित्र, देवी गायत्री-च्छद्धः सविता देवता
गायत्री शिरसो ब्रह्मा ऋषिः अनुष्टुप्-छन्दः, परमात्मा देवता
इति न्यस्य.“सर्वेषां प्राणायामे विनियोगः”- इत्य् उक्त्वा -
[[38]]
“ॐ भूः” इति पादयोः, “ॐ भुवः” इति जङ्घयोः, “ओँ सुवः” इति जान्वोः, “ओं महः” इति उदरे, “ॐ जनः” इति कण्ठे, “ॐ तपः” इति मुखे, “ओँ स॒त्यं” इति मस्तके, न्यस्येत् - श्वेत-श्याम-पीत-पिशङ्ग-नील-रोहित-कनक-वर्णाः, अभयाक्ष-स्रग्-अप्पात्र-वर-हस्ताः,स-पवित्र-चतुर्-हस्ताः, स्रक्-चन्दनाद्य् अलङ्कृताः, सर्वाभरण-भूषिताः, सोपवीताः, स-जटाश् च ध्यात्वा - “ॐ तत्स॑वि॒तुः ज्ञानाय हृदयाय नमः” इति साङ्गुष्ठ-तर्जन्या हृदये, “ॐ वरे॑णियम् ऐश्वर्याय शिरसे स्वाहा” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके, “ॐ भर्गो॑ दे॒वस्य॑ शक्त्यै शिखायै वौषट्” इति अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये, “ॐ धीमहि बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा,“ॐ धियो॒योनः॑ तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये, न्यस्य “ॐ प्रचो॒दया॑त् वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात् - एवम् अङ्ग-न्यासं कृत्वा - ॥ ध्यानम् ॥
मुक्ता-विद्रुम-हेम-नील-धवल-च्छायैर् मुखैस् त्रीक्षणैर्
युक्ताम् इन्दु-कला-निबद्ध-मकुटान् तत्त्वार्थ-वर्णात्मिकाम्।
गायत्रीं वरदाभयाङ्कुश-कशाश् शुभ्रं कपालं गुणं
शङ्खञ् चक्रम् अथारविन्द-युगलं हस्तैर् वहन्तीं भजे
इति ध्यात्वा -
ओमापो॒ज्योती॒रसो॒ऽमृत॒म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम्
इति शिरो-मन्त्रेण कराभ्यां शिरः प्रभृति-पादान्तं वर्म-वेष्टनवत् स्व-पार्श्वयोस् स्पर्श-रूपं व्यापक-न्यासं कुर्यात् -
अर्क-मण्डल-मध्य-स्थं सूर्य-कोटि-सम-प्रभम्।
ब्रह्मादि-सेव्य-पादाब्-जम् नौमि ब्रह्म-रमा-सखम्
इत्य् उक्त्वा - त्रिः प्राणानायम्य -
[[39]]
अष्टोत्तर-सहस्रम् अष्टोत्तर-शतं, दश-वारं3, ओदयाद् वा, प्रातस् सन्ध्या-गायत्री-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य -
आयात्व् इत्य् अनुवाकस्य वामदेव ऋषिः, अनुष्टुप्-छन्दः, गायत्री देवता
इति न्यस्य - “गायत्र्य्-आवाहने विनियोगः” इत्य् उक्त्वा,
आयातुवरदादेव्यक्षरम्ब्रह्मसम्मितम्, गायत्रीञ्छन्दसाम्मातेदम्ब्रह्म जुषस्वनः - ओजोसि सहोसि बलमसि भ्राजोसि देवानान्धामनामासि विश्वमसि विश्वायुस्सर्वमसि सर्वायुरभिभूरोङ्गायत्रीमावाहयामि [[TODO: परिष्कार्यम्]]
इत्य् अनुवाकेनावाह्य -
प्रातर् ध्यायामि गायत्रीं रवि-मण्डल-मध्यगाम्।
ऋग्-वेदम् उच्चारयन्तीं रक्त-वर्णां कुमारिकाम्।
अक्ष-माला-करां[[??]] ब्रह्म-दैवत्यां हंस-वाहनाम्
इति ध्यात्वा - आसनादि-षोडशोपचारान् मनसा प्रणवेन समर्प्य -
प्रणवस्य ऋषिर् ब्रह्मा देवी गायत्री-च्छन्दः, परमात्मा देवता
भूर् आदि-व्याहृति-त्रयस्य, अत्रि-भृगु-कुत्सा ऋषयः, गायत्र्य्-उष्णिग्-अनुष्टुभश् छन्दांसि, अग्नि-वाय्व्-अर्का देवताः
सावित्र्या ऋषिर् विश्वामित्रः, देवी गायत्री-च्छन्दः, सविता देवता
इति न्यस्य - “प्रातस् सन्ध्या-जपे विनियोगः” इत्य् उक्त्वा -
अस्त्र-मन्त्रेण कर-तल-कर-पृष्ठयोश् शुद्धिं कृत्वा -
तत्स॑वि॒तुर्वरे॑णियं भर्गो॑ दे॒वस्य॑ धीमहि धियो॒योनः॑ प्रचो॒दया॑त्
इति गायत्र्या (कूर्परम् आरभ्य अङ्गुल्य्-अग्र-पर्यन्तं, पर्यायेण कर-स्पर्श-रूपं) व्यापक-न्यासं कृत्वा - प्रणवेन प्रकोष्ठान्तं, कर-द्वये ऽपि तलयोः पृष्ठयोः पर्यायेण परामृश्य - कर-तलयोः प्रणवं न्यस्य -
[[40]]
“ॐ भू, अङ्गुष्ठाभ्यां नमः” इति अङ्गुष्ठयोर् मूलम् आरभ्य, अग्र-पर्यन्तं, तर्जनीभ्यां, न्यस्य - “ॐ भुवः, तर्जनीभ्यां नमः” इति, तर्जन्योः, आङ्गुष्ठाभ्यां तथा न्यस्य - “ओँ सुवः, मध्यमाभ्यां नमः” इति मध्यमयोः, अङ्गुष्टाभ्यां तथा न्यस्य - “ॐ तत्स॑वि॒तुर्वरे॑ण्यं, अनामिकाभ्यां नमः” इति, अनामिकयोः, अङ्गुष्ठाभ्यां तथा न्यस्य - “ॐ भर्गो॑ दे॒वस्य॑ धीमहि, कनिष्ठिकाभ्यां नमः” इति, कनिष्ठिकयोः, अङ्गुष्ठाभ्यां तथा न्यस्य “ॐ धियो॒योनः॑ प्रचो॒दया॑त्, कर-तल-कर-पृष्ठाभ्यां नमः” इति, कर-तल-कर-पृष्ठयोः, कर-द्वये ऽपि परामृश्य - एवं, कर-न्यासं कृत्वा -
“ॐ भूः ज्ञानाय हृदयाय नमः” इति, अङ्गुष्ठ-युक्त-तर्जन्या हृदये न्यस्य - “ॐ भुवः, ऐश्वर्याय शिरसे स्वाहा” इति, अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके न्यस्य - “ओँ सुवः शक्त्यै शिखायै वौषट्” इति, अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये न्यस्य - “ॐ तत्स॑वि॒तुर्वरे॑ण्यं, बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां, तनुं पाणिभ्यां, वर्मवत् स्पृष्ट्वा - “ॐ भर्गो॑ दे॒वस्य॑ धीमहि, तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य - “ॐ धियो॒योनः॑ प्रचो॒दया॑त्, वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं, पश्चाद् अग्न्य्-आदि-विदिशश् च बध्नीयात् - एवम् अङ्ग-न्यासं कृत्वा - ॥ ध्यानम् ॥
यो देवस् सवितास्माकं धियो धर्मादि-गोचराः।
प्रेरयेत् तस्य यद् भर्गस् तद् वरेण्यम् उपास्महे
इति गायत्र्य्-अर्थं सञ्चिन्त्य -
[[41]]
आदित्य-मण्डले ध्यायेत् परमात्मानम् अ-व्ययम्।
विष्णुं चतुर्-भुजं रक्त-पङ्कजानन-मध्य-गम्।
किरीट-हार-केयूर-कटकादि-विभूषितम्।
श्री-वत्स-वन-माला श्री-तुलसी कौस्तुभो ज्वलम्।
हरिं पीताम्बर-धरं शङ्ख-चक्र-गदा-धरम्।
प्रसन्न-वदनं रत्न-कुण्डलैर् मण्डिताननम्।
सर्व-रत्न-समायुक्त-सर्वाभरण-भूषितम्॥
एवं भगवन्तम् आदित्य-मण्डले ध्यात्वा - किञ्चिद् आकुञ्चिताग्राङ्गुलि-तलं परस्पर-संयुतं, संहताङ्गुलि-कर-द्वयं नासा-समम् उद्धृत्य, कनिष्ठिका मूलम् आरभ्य प्रादक्षिण्य क्रमेण गणनया4 यथा सङ्कल्पं, पञ्चावसानम्5 उपांशु-जपं6 कुर्यात् -
त्रिः प्राणानायम्य - “प्रातस् सन्ध्योपस्थानं करिष्ये” इति सङ्कल्प्य -
उत्तम इत्य् अनुवाकस्य वामदेव ऋषिः अनुष्टुप्-छन्धः, गायत्री देवता
इति न्यस्य - “गायत्र्य्-उद्वासने विनियोगः” इत्य् उक्त्वा,
उत्तमे शिखरे देवि भूम्याम्पर्वतमूर्धनि, ब्राह्मणेभ्यो ह्यनुज्ञानङ्गच्छ देवियथासुखम् [[TODO: परिष्कार्यम्]]
इति गायत्रीम् उद्वास्य -
मित्रस्येति ऋचस्य विश्वामित्र ऋषिः, आद्यस्य भीरुट्-छन्धः, परयोर् गायत्री-त्रिष्टुभौ छन्दसी, मित्रो देवता
इति न्यस्य - “प्रातस् सन्ध्योपस्थाने विनियोगः” इत्य् उक्त्वा -
[[42]]
मित्रस्यचर्षणीधृतश्श्रवो देवस्य सानसिं, सत्यञ्चित्रश्रवस्तमं, मित्रोजनान् यातयति प्रज्ञानन्मित्रोदाधार पृथिवीमुतद्यां, मित्रः कृष्टीर निमिषाऽभिचष्टे सत्यायह व्यङ्घृतवद्विधेम, प्रसमित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्यशिक्षतिव्रतेन, नहन्यते नजीयते त्वोतो नैनमँहो आश्ज्ञोत्यन्तितोनदूरात् [[TODO: परिष्कार्यम्]]
इति मन्त्रैर् अर्धोदितं, सहस्र-रश्मिं भगवन्तम् आदित्य-मण्डलान्त-स्थं सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् उपस्थाय -
ॐ सन्ध्यायै नमः - ॐ सावित्र्यै नमः - ॐ गायत्र्यै नमः - ॐ सरस्वत्यै नमः - ॐ सर्वाभ्यो देवताभ्यो नमो नमः
इति पञ्च-देवताः स-प्रदक्षिणं प्रणम्य - “ॐ कामोकार्षीन्मन्युरकार्षीत्” इति चोक्त्वा, त्रयी-तनुं प्रणम्य - अभिवाद्य -
ॐ प्राच्यै दिशे नमः - ॐ दक्षिणायै दिशे नमः - ॐ प्रतीच्यै दिशे नमः - ॐ उदीच्यै दिशे नमः
इति प्राच्यादि-दिङ् नमस्कारं कृत्वा -
ॐ ऊर्ध्वाय नमः - ॐ अधराय नमः - ॐ अन्तरिक्षाय नमः - ॐ भूम्यै नमः - ॐ विष्णवे नमः -
ध्येयस् सदा सवितृ-मण्डल-मध्य-वर्ती
नारायणस् सरसिजानन-सन्निविष्टः।
केयूरवान् मकर-कुण्डलवान् किरीटी
हारी-हिरण्मय-वपुर्-धृत-शङ्ख-चक्रः।
शङ्ख-चक्र-गदा-पाणे द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्
नमो ब्रह्मण्य देवाय गो-ब्राह्मण-हिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः
इति श्लोकैः।
सयश्चा॑यं पुरुषे, यश्चासा॑वादि॒त्ये, स एकः॑
इत्य् अधीतं, हृदयान्त-स्थितं, परमात्मानं प्रणम्य - अभिवादयेत् -
[[43]]
जप-काले निष्ठीवन–जृम्भण–क्रोध–निद्रा–आलस्य–क्षुधा–मद–पतित-श्वान्त्य-जा लोकान् दश-जप-वैरिणस् त्यजेत् - सम्भवेयुर् यदि, आचम्य पुनर् जपेत् - पतितादि-सम्भाषणे, स्नात्वा पुनर् जपेत् - जप-काले नाभेर् अधः स्व-कायं स्पृशेच् चेत् करं प्रक्षालयेत् - जलाभावे दक्षिण-कर्णं स्पृशेत् - जप-मध्ये वाङ्-नियमातिक्रमे,
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धानिद॑धेपदम्, समू॑ढमस्य पाँ सु॒रे
इति ऋचं जपेत् विष्णुं वा स्मरेत् - श्री-कृष्णं वा ध्यात्वा कीर्तयेत् - जप-मध्ये यदि भागवतः समागच्छेत् तं प्रणम्याभिवाद्य, योग-क्षेमादिकं पृष्ट्वा, तद्-अनुज्ञातः, जप-शेषं समाचरेत्।
उदयात् पूर्वं सङ्कल्पित-सङ्ख्या-समाप्तौ उदयानन्तरं करिष्यमाणोपस्थासस्य च कालान् आगमेन, अवसर-लाभे, अष्टाक्षर-जपं कुर्यात् - अवसरालाभे, उदयानन्तरं, उपस्थाय, ततो ऽष्टाक्षर-जपं कुर्यात्।
-
मार्जन-जल-बिन्दुः यथा क्षिति-तले न च्युतो भवेत् तथा शिरस्य् एव मार्जनं यत्नेन कुर्यात्। ↩︎
-
विष्ण्व्-आलये तत्-समीपे वा सन्ध्या-वन्दन-करणे अर्घ्य-प्रदान-गायत्र्यादि-मन्त्र-जपान् सर्व-कालेषु देवाभिमुख एव कुर्यात् - अन्यत्र, गायत्रीतर-मन्त्र-जपान् सर्व-कालेषु प्राङ्-मुख उदङ्-मुखो वा आसीन एव कुर्यात्
↩︎अश्वत्थम् अग्निम् अर्कञ् च सोमं गुरुम् अथो जलम्।
पृष्ठी कृत्य जपन् विप्रो याति स्थावरतां नर। -
↩︎आशौच-काले विपदि दश-वारं जपेन् नरः।
अन्यदा ऽष्टोत्तर-शतं वा ऽष्टोत्तर-सहस्रकम् -
एवं प्रतिदश-सङ्ख्यं वामतर्जनी-मूल-पर्वारभ्य, एकैक-पर्वणि प्रादक्षिण्य क्रमेण वामाङ्गुष्टाग्रं न्यस्य गणयेत्। ↩︎
-
प्रणवान्ते व्याहृति-त्रयान्ते, पादानाम् अन्ते चेति पञ्चावसानम्। ↩︎
-
जप-काले “वरेणियं” इति जपेत्। इतर-काले “वरेण्यं” इदि पठेत्। ↩︎