उपरागशान्तिः

अथ उपरागशान्तिः (शान्तिकुसुमाकरे)

यस्य राशिं समासाद्य ग्रहणं चन्द्रसूर्ययोः।
तस्य स्यात्तु महान्रोगः अपमृत्युश्च जायते॥

तस्य शान्तिं प्रवक्ष्यामि सर्वसौख्यसमृद्धये।
अनुज्ञाप्य द्विजानादौ संपूज्य च गजाननम्॥
सङ्कल्प्य वरयेत्पश्चादाचार्यं चर्त्विजस्तथा॥

निष्कमात्रसुवर्णेन तदर्धार्धेन वा पुनः।
सर्पस्य प्रतिमां कृत्वा फणामण्डलशोभिनीम्॥
सूर्यग्रहे तिलानां तु राशेरुपरि विन्यसेत्॥

उपरागो यदीन्दोः स्यात् प्रस्थतण्डुलराशितः।
उपरि स्थापयित्वाऽथ पञ्चगव्येन शोधिताम्॥

प्राणप्रतिष्ठां कृत्वाऽथ पूजयेत्तु विधानतः।
पञ्चद्रोणव्रीहिमध्ये तन्तुभिर्वेष्टितं नवम्॥

प्रतिष्ठाप्याव्रणं कुम्भं सुदृढं पैत्तळं शुभम्।
पञ्चत्वक्पल्लवैर्युक्तं नवरत्नसमन्वितम्॥

पूजयित्वाऽत्र वरुणं शुक्लमाल्यानुलेपनैः।
पूर्वमेवोपरागात्तु समानीयौषधादिकम्॥

स्थापयेच्चतुरः कुम्भान् सवस्त्रान् सलिलान्वितान्।
गजाश्वरथ्यावल्मीकात् सङ्ग्रामाद्ध्रद(?)गोकुलात्॥

राजद्वारप्रदेशाच्च मृत्तिकास्तेषु निक्षिपेत्।
उदुम्बरवटाश्वत्थप्लक्षाम्राणां च पल्लवान्॥

तथैव पञ्चगव्यं च पञ्चरत्नानि च क्षिपेत्।
गोरोचनां शङ्खपद्मे स्फटिकं चन्दनं तथा॥

गजदन्तं च कुसुमं तथैवोशीरगुग्गुलू।
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत् सुरान्॥

योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः।
सहस्रनयनः सूर्य* ग्रहपीडां व्यपोहतु॥

* अत्र शान्तिश्चन्द्रग्रहार्थं यदि तदा सूर्यपदस्थाने चन्द्रपदं निवेशनीयम्। एवमुत्तरत्रपि॥

मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः।
सूर्योपरागसम्भूतामग्निः पीडां व्यपोहतु॥

यः कर्मसाक्षी लोकानां यमो महिषवाहनः।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु॥

रक्षोगणाधिपः साक्षात् प्रळयानिलसन्निभः।
कराळो निरृतिः सूर्यग्रहपीडां व्यपोहतु॥

नागपाशधरो देवो नित्यं मकरवाहनः।
सलिलाधिपतिः सूर्यग्रहपीडां व्यपोहतु॥

प्राणरूपो हि लोकानां वायुः कृष्णमृगप्रियः।
सूर्योपरागसम्भूतां ग्रहपीडां व्यपोहतु॥

योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः।
सूर्योपरागसम्भूतं कलुषं मे व्यपोहतु॥

योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः।
सूर्योपरागजं दोषं विनाशयतु सर्वदा॥

एतानेव ततो मन्त्रान् स्वर्णपट्टे विलेखयेत्।
राजते ताम्रपट्टे वा नव्यवस्त्रेऽथ वा लिखेत्॥
मस्तके यजमानस्य बध्नीयात्तं द्विजोत्तमः॥

एतैर्मन्त्रैस्तु दिक्पालान् कुम्भेष्वावाह्य भक्तितः।
प्राञ्जलिः प्रार्थयेद्विद्वान् सपुष्पाक्षतपाणिकः॥

‘त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च।
ब्रह्मेशविष्णुयुक्तानि तान्यायान्तु हरन्त्वघम्॥’ इति ॥

पूजयेत्तान् षोडशभिरुपचारैर्यथाक्रमम्।
यथालाभं ब्राह्मणांश्च जापयेन्मन्त्रकानिमान्॥

श्रीरुद्रं चमकं चैव पुंभूश्रीशूक्तकानि च।
वारुणं घृतसूक्तं च सूक्तं चैवाघमर्षणम्॥
ततो नमो ब्रह्मणे च प्रणवेन समापयेत्॥

सोमो धेनुं च मन्त्रेण समिदाज्यचरून् हुनेत्।
आसत्येनेति मन्त्रेण हुनेत् सूर्यग्रहो यदि॥

सर्पमन्त्रेण जुहुयादाज्येनाष्टोत्तरं शतम्।
तिलहोमं व्याहृतिभिः कुर्युदष्टोत्तरं शतम्॥

यजमानं स्नापयेयुः कुम्भतोयैर्द्विजोत्तमाः।
नवग्रहाणां मन्त्रांश्च पठन्तश्च ततः परम्॥

विप्रायालङ्कृतां सर्पप्रतिमामर्पयेत्ततः।
अन्याश्च कलशान् दद्यात् सर्वोपकरणान्वितान्॥

ऋत्विग्भ्यो वेदविद्भ्यश्च यजमानः सदक्षिणान्।
मस्तके बद्धपट्टं च स्वर्णदक्षिणयाऽन्वितम्॥

आचार्याय प्रदद्यात्तु तस्माद्गृह्णीत चाशिषः।
ब्राह्मणान् भोजयेत् पश्चादाशिषो वाचयेत्ततः।
एवं यः कुरुते शान्तिं सर्वदोषैः प्रमुच्यते॥

इति उपरागशान्तिः॥