अब्दपूर्त्या शिशोर्दोषो भवेद्दुष्टग्रहैर्महान्।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् यथाविधि॥१॥
अब्दपूर्त्युदितां शान्तिं शिशोरायुष्यवर्धनीम्।
कुर्यादाचार्यसंयुक्तो यजमानो यथाविधि॥२॥
मासि मासि च जन्मर्क्षे शान्तिः स्याद् विभवे सति।
द्वितीयवत्सरस्यादौ शिशोर्जन्मर्क्षसंयुते॥३॥
सङ्गवव्याप्तियुक्ते च शान्तिमेतां समाचरेत्।
आदौ शिशुं स्नापयेच्च तैलाभ्यङ्गपुरःसरम्॥४॥
गुरुदेवाग्निविप्राणां पूजां कुर्यात् ततः परम्।
कटिसूत्रं शिशोर्बद्ध्वा पुष्पैः शेखरमाचरेत्॥५॥
अनुज्ञाप्य द्विजानादौ गणेशं संप्रपूज्य च।
सङ्कल्प्य च यथान्यायं गणनाथं विसृज्य च॥६॥
आचार्यं वरयेत् पश्चाद् यथालाभं च ऋत्विजः।
आचार्यः प्राङ्मुखो भूत्वा कुम्भे त्र्यम्बकमर्चयेत्॥७॥
श्रीरुद्रं चमकं चैव पुंसूक्तं विष्णुसूक्तकम्।
श्रीसूक्तं भूमिसूक्तं च वारुणं सूक्तमेव च॥८॥
ब्रह्मसूक्तं रुद्रसूक्तं मृत्युसूक्तं तथैव च।
आयुष्यसूक्तं जप्त्वाऽथ पावमानीस्ततो जपेत्॥९॥
पञ्चशान्तीर्घोषशान्तिमन्ततश्च ततो जपेत्।
नमो ब्रह्मण इत्यन्तमृत्विग्भिस्तु जपेत् सह॥१०॥
कुम्भस्य पश्चिमे भागे प्रतिष्ठाप्य हुताशनम्।
स्वगृह्योक्तविधानेन मुखान्तं च ततश्चरेत्॥११॥
दधिमध्वाज्यसंमिश्रैर्दूर्वाग्रैर्होममाचरेत्।
त्र्यम्बकेन च मन्त्रेण अष्टोत्तरशताहुतीः॥१२॥
शिशोर्जन्मर्क्षमन्त्रेण हुनेच्च द्वादशाहुतीः।
आयुष्यहोमं कृत्वाऽथ होमशेषं समापयेत्॥१३॥
कुम्भाच्च रुद्रमुद्वास्य शिशुं प्राशय्य तज्जलम्।
प्रोक्षयेद्वैदिकैर्मन्त्रैः शिशुं कुम्भजलेन च॥१४॥
ब्राह्मणान् भोजयेत् पश्चादाशिषो वाचयेत् ततः।
आचार्यपूजां कृत्वाऽथ ऋत्विजः पूजयेत् तथा॥१९॥
ग्रामं प्रदक्षिणीकृत्य वाद्यघोषपुरःसरम्।
आशीर्वादं ततह् कुर्याद् वस्त्रभूषादि दापयेत्॥२०॥
॥ इति अब्दपूर्तिशान्तिः॥