कालः
सर्वऋतवो +++(=मासाः)+++ विवाहस्य शैशिरौ मासौ +++(= माघफाल्गुनौ)+++ परिहाप्योत्तमं च नैदाघम् +++(= आषाढः)+++ १२
+++(अनेन पूर्वपक्षादिनियमाभावः।)+++ सर्वाणि पुण्योक्तानि नक्षत्राणि +++(सर्वापवादत्वात्पुण्याहविधानार्थमिदम् । तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।)+++१३
इन्वकाभिः +++(=मृगशिरसि)+++ प्रसृज्यन्ते +++(कन्यार्थं प्रेष्यन्ते)+++ ते वराः प्रतिनन्दिताः १६
इन्वकाशब्दो मृगशिरसि ४
०३ ०१ मघाभिर्गावो गृह्यन्ते …{Loading}…
मघाभिर्गावो गृह्यन्ते +++(दानार्थम्)+++१
फल्गुनीभ्यां व्यूह्यते +++(= सेनाया इति केचित्, विवाहविशेषेषु कन्याया इत्यपरे)+++ २
यां कामयेत दुहितरं प्रिया स्यादिति, तां निष्ट्यायां दद्यात् प्रियैव भवति, नैव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः ३
कन्या-चयनम्
+++(वरे प्राप्ते)+++
सुप्तां रुन्दन्तीं निष्क्रान्तां
वरणे परिवर्जयेत् ११
दत्तां गुप्तां +++(=अदर्शिता)+++ द्योताम् +++(=पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा)+++ ऋषभां +++(=ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा)+++ शरभां +++(= शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, केचित्दर्शनीया)+++ विनतां +++(=कुब्जां)+++ विकटां +++(विस्तीर्ण-जङ्घां)+++ मुण्डां मण्डूषिकां +++(=वामनाङ्गा, दग्धाङ्गा वा ।)+++ साङ्कारिकां रातां +++(=रतिशीलां)+++ पालीं +++(=वत्सादीनां पालयित्रीं)+++ मित्रां +++(=बहुमित्रां)+++ स्वनुजां +++(=केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति।)+++ वर्षकारीं +++(=स्वेदशीलामिति केचित्। वराद्वर्षेणाधिका ।)+++ च वर्जयेत् १२
नक्षत्र-नामा नदी-नामा वृक्ष-नामा च गर्हिताः १३
रेफ-लकारोपान्ता +++(=गौरी शालीत्याद्या)+++ वरणे परिवर्जयेत् १४
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत १९
यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिर् नेतरद् आद्रियेतेत्य् एके २१
कन्या-परीक्षा - शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति १५
नाना बीजानि संसृष्टानि, वेद्याः पांसून्, क्षेत्राल्लोष्टं, शकृच्, छ्मशानलोष्टमिति १६
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः १७
उत्तमं परिचक्षते १८
(वर-चयनम् -) बन्धुशील-लक्षण-सम्पन्नश् श्रुतवान् अरोग इति वरसम्पत् २०
विधिः -
तथा मङ्गलानि १४
+++(“ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि । मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।)+++ आवृतश्च +++(=प्रसिद्धाः)+++ +आस्त्रीभ्यः प्रतीयेरन् १५
कन्यालाभः-
सुहृत्-प्रेषणम्
सुहृदस् समवेतान् मन्त्रवतो ऽवरान् +++(वरः)+++ प्रहिणुयात् १
तानादितो द्वाभ्यामभिमन्त्रयेत २ +++(“कृतप्राणायामोऽवरान् प्रेषयिष्ये” इति सङ्कल्प्य, “प्रसुग्मन्ते"ति द्वाभ्यां वरानभिमन्त्र्य, “यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्” इति प्रेषयेत् । ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकं “गौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहे"इति ब्रूयुः । ततस्स पित्रादिर् “दास्यामी"ति प्रतिब्रूयात् । ततस्ते प्रत्येत्य, “सिद्धार्ता वय"मिति वरायावेदयेयुः । एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।)+++
+++(हे सुहृदः)+++
प्रसुग्म᳓न्ता+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धिय᳓सान᳓स्य+++(=ध्यायमानस्य)+++ सक्ष᳓णि+++(=समाने क्षणे)+++
वरे᳓भिर्+++(=श्रेष्ठैः [पथिभिः])+++ वराँ᳓+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अभि᳓ षु प्र᳓सीदत+++(=प्रगच्छत)+++ ।
अस्मा᳓कम्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इ᳓न्द्र उभ᳓यं जुजोषति
य᳓त् +++(यज्ञेषु)+++ सौम्य᳓स्या᳓न्धसो बु᳓बोधति ।
अनृक्षरा᳓+++(=कंटकशर्करादिरहिताः)+++ ऋज᳓वस् सन्तु प᳓न्था
ये᳓भिस् स᳓खायो य᳓न्ति नो वरेय᳓म्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
स᳓म् अर्यमा᳓ सं᳓ भ᳓गो नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीयात्
स᳓ञ् जास्पत्यँ᳓+++(=जायापतिभावः)+++ सुय᳓मम् अस्तु देवाः ।+++(र५)+++
वरपूजा
विवाहे +++(=विवाहस्थाने)+++ गौः ६
गृहेषु +++(=शालायां)+++ गौः ७
तया वरमतिथिवदर्हयेत् ८
योऽस्यापचितस्तमितरया ९
कन्या-प्रतिपादनम्
स्वयं दृष्ट्वा
+++(कन्यां प्रतिपादयति “तुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामी"ति।)+++
स्वयं दृष्ट्वा +++(दृष्ट्वैव चक्षुषी उपसंहरति)+++ तृतीयां +++(=अभ्रातृघ्नीमित्येताम्)+++ जपेत् ३
अ᳓भ्रातृघ्नीं +++(स्वरः??→)+++व᳓रुणा᳓-
ऽपतिघ्नीं बृहस्पते ।
इ᳓न्द्रा᳓ऽपुत्रघ्नीं लक्ष्म्य᳙न्,
ता᳓म् अस्यै᳓ सवितस् सुव ।+++(र५)+++
अवयवशः समीक्षणम्
चतुर्थ्या +++(=अघोरचक्षुरित्येषा)+++ समीक्षेत ४
अ᳓घोर-चक्षुर् अ᳓पतिघ्न्य् एधि
शिवा᳓ पति᳓भ्यस् सुम᳓नास् सुव᳓र्चाः ।
जीवसू᳓र् देव᳓-कामा स्योना᳓+++(=प्रशस्ता)+++
श᳓न् नो भव द्वि-प᳓दे श᳓ञ्-च᳓तुष्पदे ।+++(र५)+++
भ्रुवोरन्तरे सम्मार्जनम्
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा +++(=इदमहमित्यनेन)+++ तस्या भ्रुवोरन्तरँ संमृज्य, प्रतीचीनं +++(प्रत्यग्गतम् उपर्युपरि शिरो )+++ निरस्येत् ५
+++(अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत्।)+++
इद᳓म् अहय्ँ᳓
या᳓ त्व᳓यि पतिघ्न्य् अ᳙लक्ष्मि᳓स्, तां᳓ नि᳓र्दिशामि ।+++(र५)+++
कन्यावियोगकाले बन्धुजनस्य रोदने जपः
प्राप्ते निमित्त +++(=वध्वा स्वबन्धूनां च रोदनं)+++ उत्तरां जपेत् +++(“जीवारुदन्ती”)+++ ६ +++(निमित्तावृत्तौ मन्त्र आवर्तते ।)+++
+++(कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति ।)+++
+++(हर्षस्थाने)+++ जीवाँ᳓ रुदन्ति वि᳓+++(नि)+++मयन्ते अद्ध्वरे᳓
दीर्घा᳓म् अ᳓नु +++(भाव)+++प्र᳓सितिं+++(=बन्धं)+++ दीधियुर्+++(=ध्यायन्तु)+++ न᳓रः+++(बहुवचनम्)+++ ।
वामं᳓ पितृ᳓भ्यो य᳓ इदँ᳓ समेरिरे᳓+++(=प्रवर्तयन्ति)+++
म᳓यः+++(=सुखदं)+++ प᳓तिभ्यो, ज᳓नयः+++(=जन्याः [वध्वाः])+++ परिष्व᳓जे ।
स्नापनम्, अहतवस्त्रधारणं, योक्त्रसन्नहनं च ।
स्नपन-जलाऽऽनयनम्
युग्मान् समवेतान् मन्त्रवत उत्तरया +++(=व्युक्षत्क्रूर…)+++ ऽद्भ्यः +++(स्नानार्थजलाहरणार्थं)+++ प्रहिणुयात् ॥
व्यु᳙क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रूर᳓म्,
उ᳓दचन्त्व्+++(=उद्गच्छन्तु)+++ आ᳓प,
आ᳓ऽस्यै᳓ ब्राह्मणा᳓स् स्न᳓पनँ हरन्तु ।
अ᳓-वीर-घ्नीर्+++(!)+++ उ᳓द् अचन्त्व् आ᳓पः ।
वध्वाः शिरसि दर्भेण्वनिधानम्
दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय -
उत्तरेण यजुषा +++(=अर्यम्णो अग्निं)+++ तस्याश्शिरसि दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय,
अर्यम्णो᳓ +++(प्रसादात्)+++ अग्निं᳓ प᳓रियन्तु क्षिप्रं᳓
प्र᳓तीक्षन्ताँ श्व᳓श्र्वो देव᳓राश् च ।
तस्मिन्नुत्तरया +++(=खेऽनस)+++ दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य,
+++(तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति )+++
खे᳓+++(=छिन्द्रावकाशे)+++ ऽन᳓सः+++(=शकटस्य)+++, खे᳓ र᳓थः+++(थस्य)+++, खे᳓ यु᳓गस्य +++(शोधक्य अपो निस्सार्य प्रसन्न)+++ शचीपते ।
+++(श्वित्रिणीं नद्यां मज्जतीं सोमं दन्तपिष्टम् अर्पयन्तीं)+++
अपाला᳓म् इन्द्र त्रिः᳓ पूर्त्व्य्᳙+++(=पूत्वा)+++ अकरत् सू᳓र्य-वर्चसम् ।+++(र५)+++
छिद्रे सुवर्णमुत्तरया +++(=शं ते हिरण्यम्)+++ ऽन्तर्धाय,
+++(युगच्छिद्रे सुवर्णनिधानम् - )+++
श᳓न् ते +++(छिद्रे निधीयमानं)+++ हि᳓रण्यँ श᳓म् उ सन्त्व् आ᳓पश्
श᳓न् ते मेधी᳓+++(=खलेवाली, खले धान्यपेषणस्थाने वाल्यन्ते वृषा इति - अत्र युगः)+++ भवतु, शय्ँ᳓ युग᳓स्य तृ᳓द्म+++(=छिद्रम्)+++ ।
श᳓न् त आ᳓पश् शत᳓-पवित्रा भवन्त्व्
अ᳓था प᳓त्या तन्वँ᳙ सँ᳓सृजस्व ।। (1)
स्नानम्
उत्तराभिः पञ्चभिस् +++(=हिरण्यवर्णा)+++ स्नापयित्वा,
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++
हि᳓रण्य-वर्णाश् शु᳓चयः पावका᳓
या᳓सु जातः᳓ कश्य᳓पो या᳓स्व् अग्निः᳓ ।
या᳓ अग्निं᳓ ग᳓र्भं दधिरे᳓ सुव᳓र्णास्
ता᳓स् त आ᳓पश् शँ᳓ स्योना᳓ +++(=सुखा)+++ भवन्तु ।+++(५)+++
यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।+++(५)+++
या᳓सां देवा᳓ दिवि᳓ कृण्व᳓न्ति भक्षं᳓
या᳓ अन्त᳓रिक्षे बहुधा᳓ नि᳓विष्टाः।
या᳓ अग्निं᳓ ग᳓र्भं दधिरे᳓ सुव᳓र्णास्
ता᳓ न आ᳓पः शं᳓ स्योना᳓ भवन्तु ॥
शिवे᳓न +++(यजमान!)+++ त्वा च᳓क्षुषा पश्यन्त्व् +++(हे)+++ आपश्!
शिव᳓या तन्वा᳓+उ᳓पस्पृशन्तु त्व᳓चन् ते ।
घृतश्-चु᳓तश्+++(=दुहन्त्यः)+++ शु᳓चयो याः᳓ पावका᳓स्
ता᳓स् त आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।+++(५)+++
अहतस्य वाससः परिधानम्
उत्तरया +++(=परि त्वा गिर्वणो गिरः)+++ ऽहतेन वाससाच्छाद्य,
प᳓रि त्वा गिर्-वणो+++(=सम्भक्तः)+++
गि᳓र इमा᳓ भवन्तु विश्व᳓तः ।
वृद्धा᳓युम्+++(=वृद्धगम्)+++ अ᳓नु वृ᳓द्धयो,
+++(त्वया)+++ जु᳓ष्टा भवन्तु जु᳓ष्टयः ।+++(र४)+++
योक्त्रबन्धनम्
उत्तरया +++(=आशासाना सौमनसम्)+++ योक्त्रेण सन्नह्यति ८
आशा᳓साना सौमनसं᳓
प्रजां᳓ सौ᳓भाग्यं तनूम्।
अग्ने᳓र् अ᳓नुव्रता भूत्वा᳓ +++(तिष्ठति/ तिष्ठामि)+++,
+++(तां)+++ सं᳓ नह्ये सुकृता᳓य क᳓म् +++(=सुखम् [यथा])+++।
अग्निसाधनम्
होमः
अग्निम् प्रति नयनम्
अथैनामुत्तरया +++(=पूषात्वेत)+++दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत+++(ः)+++। उत्तरो वरः ॥
पूषा᳓ त्वा᳓+इतो᳓ नयतु ह᳓स्त-गृ᳓ह्या
ऽश्वि᳓नौ त्वा प्र᳓वहताँ र᳓थेन ।
+++(मदीयान्)+++ गृहा᳓न् गच्छ गृह᳓पत्नी
य᳓था᳓ ऽसो+++(=स्या)+++ वशि᳓नी त्वं᳓ विद᳓थम्+++(=यज्ञं)+++ आ᳓वदासि+++(=आवद)+++ ।। (2)
आज्यभागान्ते उत्तराभ्यामभिमन्त्रणम्
अग्नेरुपसमाधानाद्याज्यभागान्ते +++(उत्थाय)+++ ऽथैनाम् +++(तृतीयस्यानुवाकस्य)+++ आदितो द्वाभ्याम् +++(=सोमः प्रथम)+++ अभिमन्त्रयेत ॥
सो᳓मः प्रथमो᳓ विविदे +++(लेभे)+++
गन्धर्वो᳓ विविद उ᳓त्तरः ।
तृती᳓यो अग्नि᳓ष् टे प᳓तिस्
तुरी᳓यस्ते मनुष्यजाः᳓ ।+++(र५)+++
सो᳓मो ऽददद् गन्धर्वा᳓य
गन्धर्वो᳓ ऽददद् अग्न᳓ये
रयिं᳓ च पुत्रां᳓श् च अदाद्
अग्नि᳓र् म᳓ह्यम् अ᳓थो इमा᳓म्
पाणिग्रहणम्
पाणिग्रहणम्
अथास्यै +++(=अस्याः)+++ दक्षिणेन नीचा +++(=न्यग्भूतेन)+++ हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात्।
(अनेन नित्यविधिना “सो ऽभीवाङ्गुष्ठम्? इत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः । इतरथा स इति न ब्रूयात् । अभीवाङ्गुष्ठम् = उपर्यङ्गुष्ठमेव गृह्णीयात्।)
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि +++(=यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा)+++ गृह्णाति ॥
गृभ्णामि त इत्येताभिश्चतसृभिः ॥
गृभ्णा᳓+++(ह्णा)+++मि ते सुप्रजास्त्वा᳓य ह᳓स्तं
म᳓या प᳓त्या जर᳓दष्टिर् य᳓था᳓ ऽसः ।
भ᳓गो अर्यमा᳓ सविता᳓ पु᳓रन्धिर् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
म᳓ह्यन् त्वा ऽदुर् गा᳓र्हपत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++
ते᳓ +++(भगादयः)+++ ह पू᳓र्वे ज᳓नासो
य᳓त्र +++(गार्हस्थ्ये)+++ पूर्व-व᳓हो+++(=पूर्वविवाहकृतः)+++ हिताः᳓ ।
मूर्द्धन्वा᳓न्+++(=प्राधान्यवान् [अग्निः])+++ य᳓त्र सौभ्रवः᳓ +++(=सुभ्रुवा अदितेः पुत्रः)+++
पू᳓र्वो देवे᳓भ्य आ᳓ऽतपत् ।
स᳓रस्वति प्रे᳓द᳓म् अव
सु᳓भगे वा᳓जिनी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां᳓ त्वा वि᳓श्वस्य भूत᳓स्य
प्र-गा᳓यामस्य् +++(“इदन्तो मसि”)+++ अग्रतः᳓ ।
य᳓ ए᳓ति प्रदि᳓शस् स᳓र्वा
दि᳓शो᳓ऽनु प᳓वमानः ।
हि᳓रण्य-हस्त ऐरम्म᳓स्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स᳓ त्वा म᳓न्मनसं+++(!)+++ कृणोतु ।
सप्तपदीगमनम्
अथैनामुत्तेरणाग्निं - दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्य् “एकमिष” इति ॥
ए᳓कम् - इषे᳓+++(=अन्नाय)+++ वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।+++(५)+++
द्वे᳓ - ऊर्जे᳓+++(=बलाय)+++ वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
त्री᳓णि - व्रता᳓य वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
चत्वा᳓रि - मा᳓यो+++(=सुख)+++भवाय वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
प᳓ञ्च - पशु᳓भ्यो वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
ष᳓ड् - राय᳓स्-पो᳓षाय वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
सप्त᳓ - +++(यज्ञेषु)+++ सप्त᳓भ्यो हो᳓त्राभ्यो वि᳓ष्णुस् त्वा᳓ ऽन्वेतु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
स᳓खायस् सप्त᳓पदा अभूम ।
सख्य᳓न्ते गमेयम् ।
+++(नायम् भागः २००३-तमे पुस्तके ऽस्ति। अध्येतव्यम्??)+++
सखेति सप्तमे पदे जपति ॥
स᳓खा +++(हे)+++ सप्त᳓पदा भव।
स᳓खायौ सप्त᳓पदा बभूव+++(=बभूविव)+++।
सख्य᳓न् ते गमेयम्।
सख्या᳓त् ते मा᳓ योषम्+++(=पृथकृतो मा भूवं)+++।
सख्या᳓न् मे मा᳓ योष्ठाः।
स᳓म् अयाव, स᳓ङ्कल्पावहै,
सं᳓ प्रियौ रोचिष्णू᳓+++(=दीप्यमानौ)+++
सुमनस्य᳓मानौ+++(=सुमनायमानौ)+++ ।
इ᳓षम् ऊ᳓र्जम् अभि᳓ संव᳓सानौ
स᳓न् नौ म᳓नाँसि सं᳓ व्रता᳓
स᳓म् उ चित्ता᳓न्य् आ᳓करम् ।
+++(साम= आ+अमः।)+++
सा᳓ +++(ऋक्)+++ त्व᳓म् अस्य्
अ᳓मू+++(→अमः=साम)+++ ऽह᳓म्,
अ᳓मूऽह᳓म् अस्मि। +++(५)+++
+++(बह्व्-ऋचानां तु अमोऽहम् इति एव पाठः ।)+++
सा᳓ त्वं᳓ द्यौ᳓र्, अहं᳓ पृथिवी᳓।
त्वँ᳓ रे᳓तो, ऽहँ᳓ रेतोभृ᳓त्।
त्वं᳓ म᳓नो ऽह᳓म् अस्मि वा᳓क्।
त्वँ᳓ सा᳓माह᳓मस्म्य् ऋ᳙क्।
त्वँ᳓+++(त्वँ)+++ सा᳓ मा᳓म् अ᳓नुव्रता भव।
पुँसे᳓ पुत्रा᳓य वे᳓त्तवै+++(=लाभाय)+++,
श्रियै᳓ पुत्रा᳓य वे᳓त्तवा,
ए᳓हि सूनृते+++(=प्रियवाग्वति)+++ ।। (3)
प्रधानहोमः
प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा, यथास्थानम् उपविश्यान्वारब्धायाम् उत्तरा +++(१६)+++ आहुतीर् जुहोति - “सोमाय जनिविदे स्वाहे"त्येतैः प्रतिमन्त्रम् ॥
षोडश प्रधानाहुतिमन्त्राः
सो᳓माय जनि+++(=जाया)+++वि᳓दे स्वा᳓हा ।
गन्धर्वा᳓य जनि-वि᳓दे स्वा᳓हा ।
अग्न᳓ये जनिवि᳓दे स्वा᳓हा ।
कन्यला᳓+++(=कन्यैव, लशब्द उपजनः)+++ पितृ᳓भ्यो यती᳓+++(=गच्छन्ती)+++
पतिलोक᳓म्
अ᳓व+++(उपसर्गः)+++ +++(कन्या)+++दीक्षा᳓म् अदास्थ+++(=अवक्षपितवती त्यक्तवती ←दीङ् क्षये)+++ स्वा᳓हा ।
प्रे᳓तो᳓ मुञ्चा᳓ति, +++(←चादिलोपे विभाषा)+++ ना᳓ऽमु᳓तस्+++(=पतिलोकात्)+++
सुबद्धा᳓म् अमु᳓तस् करत्+++(=कुरु)+++ ।
य᳓थेय᳓म् इन्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपुत्रा᳓ सुभ᳓गा᳓ ऽसति+++(=स्यात्)+++ ।+++(र५)+++
इमा᳓न् त्व᳓म् इन्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपुत्राँ᳓ सुभ᳓गां कुरु ।
द᳓शाऽस्यां पुत्रा᳓न् आ᳓ धेहि
प᳓तिम् एकादशं᳓ कृधि ।+++(५)+++
अग्नि᳓र् ऐतु प्रथमो᳓ देव᳓तानाँ
सो᳙ऽस्यै प्रजां᳓ मुञ्चतु मृत्यु-पाशा᳓त् ।
त᳓द् अयँ᳓ रा᳓जा व᳓रुणो᳓ ऽनुमन्यतां
य᳓थेयँ᳓ स्त्री᳓ पौ᳓त्रम् अघ᳓न्+++(=पापजं व्यसनम्)+++ न᳓ रो᳓दात् ।+++(र५)+++
इमा᳓म् अग्नि᳓स् त्रायतां गा᳓र्हपत्यः
प्रजा᳓म् अस्यै नयतु दीर्घ᳓म् आ᳓युः ।
अ᳓शून्योपस्था+++(!)+++, जी᳓वताम् अस्तु माता᳓
पौ᳓त्रम् आनन्द᳓म् अभि᳓ प्र᳓बुद्ध्यताम् इय᳓म् ।+++(५)+++
मा᳓ ते गृहे᳓ निशि᳓ +++(रोदन)+++घो᳓ष उ᳓त्थाद्
अन्य᳓त्र त्व᳓द्+++(=त्वत्तः)+++ रुदत्य᳙स् सव्ँ᳓ विशन्तु ।
मा᳓ त्वं᳓ विकेश्य् उ᳓र आ᳓ व᳓धिष्ठा+++(=आताडयेः)+++ जीव᳓पत्नी
पति-लोके᳓ वि᳓राज, प᳓श्यन्ती प्रजाँ᳓ सुमनस्य᳓मानाम् ।+++(५)+++
द्यौ᳓स् ते पृष्ठँ᳓ रक्षतु, वायु᳓र् ऊरू᳓,
अश्वि᳓नौ च स्त᳓नन्, +++(स्तनं)+++ ध᳓यन्तँ+++(=चूसन्तम्)+++ सविता᳓ऽभि᳓ रक्षतु ।+++(५)+++
आ᳓ वा᳓ससः परिधा᳓नाद् +++(प᳓रि त्वा गिर्-वणो इत्यादिना)+++ बृ᳓हस्प᳓तिर्,
वि᳓श्वे देवा᳓ अभि᳓रक्षन्तु पश्चा᳓त् ।
अप्रजस्तां᳓ पौत्र-मृत्युं᳓
पाप्मा᳓नम् उत᳓ वा ऽघ᳓म् ।
शीर्ष्ण᳓स् स्र᳓जम् इवोन्मु᳓च्य
द्विष᳓द्भ्यः प्र᳓तिमुञ्चामि पा᳓शम् । +++(५)+++
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
१४ त्वन्नो अग्ने …{Loading}…
त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
त्व᳓म् अग्ने अया᳓+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अया᳓ स᳓न् म᳓नसा हितः᳓ ।
अया᳓ स᳓न् हव्य᳓म् ऊहिषे
ऽया᳓ नो धेहि भेषज᳓म् ॥ (4)
अश्मारोहणम्, लाजहोमाः
अश्मानमास्थापयति
अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥
आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++
लाजहोमः
अथास्या अञ्जलावुपस्तीर्य, द्विर् लाजानोप्याभिघारयति।
+++(वर एव तस्याः पाणिना)+++ जुहोति “इयं नारी"ति ॥
इय᳓न् नार्य् उ᳓पब्रूते
कु᳓ल्पान्य् +++(=लाजान्)+++ आवपन्तिका᳓+++(=आवपन्ती)+++ ।
दीर्घायु᳓र् अस्तु मे प᳓तिर्
जी᳓वातु+++(=जीव्यात्)+++ शर᳓दश् शत᳓म् ।+++(र५)+++
प्रदक्षिणमन्त्राः
उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++
+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++
तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++
पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++
वि᳓श्वा उत᳓ त्व᳓या वयं᳓
धा᳓रा उदन्या᳙+++(=उदक-सम्बन्धिनीः)+++ इव ।
अ᳓तिगाहेमहि द्वि᳓षः ।+++(५)+++
अश्मानमास्थापयति
अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥
आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++
द्वितीयो लाजहोमः
होमश्चोत्तरया +++(=अर्यमणं नु देवम्)+++ ॥
अर्यम᳓णन् नु᳓+++(=क्षिप्रं)+++ देवं᳓
कन्या᳙+++(ः)+++ अग्नि᳓म् +++(च)+++ अयक्षत +++(पतिलाभाय, तथेयम् अपि)+++।
स᳓ इमां᳓ देवो᳓ अध्वरः᳓+++(=अहिंसितः)+++
प्रे᳓तो᳓ +++(पितृकुलान्)+++ मुञ्चा᳓ति, ना᳓ऽमु᳓तस्+++(=पतिलोकात्)+++
सुबद्धा᳓म् अमु᳓तस् करत्+++(=कुरु)+++ ।+++(५)+++
पुनः परिक्रमणम् ॥
+++(अश्मन)+++ आस्थापनम् ॥
+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++
तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++
पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++
वि᳓श्वा उत᳓ त्व᳓या वयं᳓
धा᳓रा उदन्या᳙+++(=उदक-सम्बन्धिनीः)+++ इव ।
अ᳓तिगाहेमहि द्वि᳓षः ।+++(५)+++
आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++
अश्मानमास्थापयति
अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥
आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++
तृतीयो लाजहोमः
होमश्चोत्तरया +++(=त्वमर्यमा भवसि)+++॥
त्व᳓म् अर्यमा᳓ भवसि य᳓त् कनी᳓+++(न्या)+++नान्
ना᳓म स्वधा᳓+++(=अन्न)+++वत् स्व᳙र्यं+++(र्ग्यं)+++ बिभ᳓र्षि ।
अञ्ज᳓न्ति+++(=सिञ्चन्ति)+++ वृक्षँ᳓ सु᳓धितन्+++(=सुष्ठु निहितं)+++ न᳓ गो᳓भिर्+++(=गोविकारैराज्यादिभिः)+++
य᳓द्द᳓म्पती स᳓+++(मान)+++मनसा+++(सौ)+++ कृणो᳓षि ।
पुनः परिक्रमणम् ॥
जयादि प्रतिपद्यते ॥
प्रदक्षिणमन्त्राः
उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++
+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++
तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++
पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++
वि᳓श्वा उत᳓ त्व᳓या वयं᳓
धा᳓रा उदन्या᳙+++(=उदक-सम्बन्धिनीः)+++ इव ।
अ᳓तिगाहेमहि द्वि᳓षः ।+++(५)+++
अश्मानमास्थापयति
अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥
आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++
वैवाहिकाग्नेर्नित्यधारणम् ।
+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥
योक्त्रविमोकः, वध्वाः स्वगृहं प्रति नयनम् ।
योक्त्त्रं विमुञ्चति
+++(=प्र त्वा मुञ्चामीति)+++ योक्त्रं विमुच्य, तां ततः प्र वा वाहयेत् +++(=रथादिभिर्नयनं)+++, प्र वा हारयेत् +++(=मनुष्यवाह्येन शिबिकादिना नयनम्)+++ ॥
प्र᳓ त्वा मुञ्चामि व᳓रुणस्य पा᳓शाद् +++(योक्त्र-विमोकेन)+++
ये᳓न त्वा᳓ ऽबद्ध्नात् सविता᳓ सुके᳓तः+++(=सुप्रज्ञानो)+++ ।
धातु᳓श् च यो᳓नौ सुकृत᳓स्य लोके᳓
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
स्योन᳓न्+++(=सुखं)+++ ते सह᳓ प᳓त्या करोमि ।+++(र४)+++
इमं᳓ वि᳓ष्यामि+++(=विस्रंसयामि)+++ व᳓रुणस्य पा᳓शं
य᳓म् अ᳓बद्ध्नीत सविता᳓ सुशे᳓वः+++(=सुसुखः)+++ ।
धातु᳓श्च यो᳓नौ सुकृत᳓स्य लोके᳓
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
ऽरिष्टां+++(=अविनाशिनीम्)+++ त्वा सह᳓ प᳓त्या करोमि ।
अनुगतस्यौपासनाग्नेस् समाधानमन्त्रः
अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥
अया᳓श्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चाग्ने᳓ ऽस्य् अनभिशस्ती᳓श्च+++(=अनवद्यः)+++
सत्य᳓म् इ᳓त् त्व᳓म्+++(←स्वरः शोधितः)+++ अया᳓ असि ।
अ᳓यसा+++(←अय् + असुँन्)+++ म᳓नसा धृतो᳓
अय᳓सा+++(← इण् + असुँन्)+++ हव्य᳓म् ऊहिषे+++(=वहस्व)+++
अया᳓ नो धेहि भेषज᳓म् ।।+++(५)+++
प्रयाणकाले रथस्योत्तम्भनी
युग्ययोः योजनप्रकारः
उत्तरा +++(=सत्येनोत्तभितेत्येषा )+++ रथस्योत्तम्भनी ॥
सत्ये᳓नो᳓त्तभिता भू᳓मिस्
सू᳓र्येणो᳓त्तभिता द्यौः᳓ ।
ऋते᳓नाऽऽदित्या᳓स् ति᳓ष्ठन्ति
दिवि᳓ सो᳓मो अ᳓धि श्रितः᳓ ।+++(५)+++
वाहाव् उत्तराभ्यां युनक्ति
वाहावुत्तराभ्यां +++(=युञ्जन्ति ब्रध्नं)+++ युनक्ति दक्षिणमग्रे ॥
युञ्ज᳓न्ति ब्रद्ध्न᳓म्+++(=महान्तम्)+++ अरुष᳓ञ्+++(=गन्तारं)+++
च᳓रन्तम् प᳓रि तस्थु᳓षः ।
+++(यावद्)+++ रो᳓चन्ते रोचना᳓ दिवि᳓ ।+++(र५)+++
+++(रथादि)+++यो᳓गेयोगे तव᳓स्+++(=गति[वत्])+++तरव्ँ
वा᳓जेवाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ स᳓खाय+++(ः)+++ इ᳓न्द्रम् ऊत᳓ये ।+++(५)+++
आरोहन्तीम् उत्तराभिर् अभिमन्त्रयते
आरोहतीमुत्तराभिरभिमन्त्रयते +++(=“सुकिंशुकमि"त्येवमादिभिः)+++ ॥
सु॒किँ॒शु॒क+++(पुष्प)+++ँ, +++(निर्माणेन)+++ श॑ल्म॒लिं, वि॒श्वरू॑पँ॒,
हिर॑ण्य-वर्णँ, सु॒वृतँ॑, सुच॒क्रम् +++(रथम्)+++।
आरो॑ह वध्व् अ॒मृत॑स्य लो॒कँ +++(तत्सङ्केतत्वेन)+++
स्यो॒नं+++(=सुखं)+++ पत्ये॑ वह॒तुं+++(=स्त्रीधनं)+++ कृ॑णुष्व ।+++(४)+++
उ᳓दुत्तर᳓म् आरो᳓हन्ती
व्यस्य᳓न्ती पृतन्यतः᳓+++(=योद्धुकामान्)+++ ।
मूर्धा᳓नं प᳓त्युर् आ᳓ रोह
प्रज᳓या च विरा᳓ड् भव ।+++(५)+++
सम्रा᳓ज्ञी श्व᳓शुरे भव
सम्रा᳓ज्ञी श्वश्रुवां᳓ भव ।
न᳓नान्दरि सम्रा᳓ज्ञी भव
सम्रा᳓ज्ञी अ᳓धि देवृ᳓षु ।+++(५)+++
स्नुषा᳓णाँ श्व᳓शुराणां
प्रजा᳓याश् च ध᳓नस्य च ।
प᳓तीनाञ् च देवॄणा᳓ञ् च
सजाता᳓नां विरा᳓ड् भव ।+++(५)+++
सूत्रे वर्त्मनोर् व्यवस्तृणाति
+++(द्वे)+++ सूत्रे वर्त्मनोर् +++(=चक्रयोर्)+++ व्यवस्तृणात्त्य् +++(=तिर्यक्स्तृणाति)+++ उत्तरया +++(= नीललोहित इत्येतया)+++ नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥
नीललोहिते᳓ +++(सूत्रे)+++ भवतः
+++(एकतरेण?)+++ +++(कु)+++कृत्या᳓ सक्ति᳓र् +++(दूरं)+++ व्यज्यते ।
ए᳓धन्तेऽस्या ज्ञात᳓यः
+++(एकतरेण?)+++ प᳓तिर् बन्धे᳓षु बध्यते ।
ते ते उत्तराभिर् +++(= ये वध्वश्चन्द्रमित्येताभिः)+++ अभियाति +++(= उपरि गच्छति)+++ ॥
+++(ते सूत्रे उत्तराभिरभियाति)+++
ये᳓ वद्ध्व᳓श् चन्द्रं᳓+++(=आह्लादकं)+++ वहतुं᳓+++(=स्त्रीधनं)+++
य᳓क्ष्मा य᳓न्ति ज᳓नाँ अ᳓नु ।
पु᳓नस् ता᳓न् यज्ञि᳓या देवा᳓
न᳓यन्तु य᳓त आ᳓गताः ।+++(र४)+++
मा᳓ विदन् परिपन्थि᳓नो
य᳓ आसी᳓दन्ति द᳓म्पती ।
सुगे᳓भिर् दुर्ग᳓म् +++(तौ)+++ अ᳓तीताम्
अ᳓प द्रा+++(द्रव)+++न्त्व् अ᳓रातयः ।
सुगं᳓ प᳓न्थानम् आ᳓रुक्ष+++(ह)+++म्
अ᳓रिष्टँ स्वस्ति-वा᳓हनम् ।
य᳓स्मिन् वीरो᳓ न᳓ रि᳓ष्यत्य्,
अन्ये᳓षां विन्द᳓ते व᳓सु ॥ (6)
विशेष-स्थानातिक्रमणम्
तीर्थ-स्थाणु+++(=गवां कण्डूयनार्थ निखातः स्तम्भः)+++-चतुष्पथव्यतिक्रमे चोत्तरां +++(=ता मन्दसाना)+++ जपेत् ॥
तीर्थादिव्यतिक्रमे जपः
ता᳓+++(=तौ)+++ मन्दसाना᳓+++(=स्तूयमानौ)+++ म᳓नुषो दुरोण᳓+++(=गृहे)+++ आ᳓
धत्तँ᳓ रयिं᳓ दश᳓-वीरं वचस्य᳓वे+++(=वचनवते)+++ ।
कृतं᳓+++(=कुरुतं)+++ तीर्थँ᳓ सु-प्रपाणँ᳓ शुभस्-पती +++(अश्विनौ)+++,
स्थाणुं᳓ पथेष्ठा᳓म् अ᳓प दुर्मतिँ᳓ हतम् ।
+++(नावमुत्तरयानुमन्त्रयते)+++
नावम् उत्तरयानुमन्त्रयते +++(=अयं नो मह्याः पारं स्वस्ति)+++ ॥
अय᳓न् नो मह्याः᳓+++(=महत्याः [नद्याः])+++ पारँ᳓
स्वस्ति᳓ नेषद् व᳓नस्प᳓तिः ।
सी᳓रा+++(=नदि!)+++ नस् सुत᳓रा भव
दीर्घायुत्वा᳓य व᳓र्चसे ।
न च नाव्यांस् +++(=तरयितॄन्)+++ तरती वधूः पश्येत् ॥
तीर्त्वोत्तरां +++(=अस्य पारः)+++ जपेत् ॥
+++(तीर्त्वा जपः)+++
अस्य +++(नद्यादेः)+++ पारे᳓ +++(तीरे)+++ निरृत᳓स्य+++(=निस्तरितस्य)+++
जीवा᳓ ज्यो᳓तिर् अशीमहि ।
मह्या᳓+++(=महत्यै)+++ इन्द्र+++(स्)+++ स्वस्त᳓ये +++(ऽस्तु)+++।
श्मशानादिव्यतिक्रमे होमः
श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(= “यदृतेचिद्” इत्याद्यास्सप्त)+++ हुत्वा जयादि प्रतिपद्यते, परिषेचनान्तं करोति ॥
य᳓द् ऋते᳓-चिद् अभिश्रि᳓+++(श्लि)+++षः
पुरा᳓ जर्तृ᳓+++(तु)+++भ्य आतृ᳓दः+++(=दृढीकुर्वन्ति)+++ ।
स᳓न्धाता सन्धिं᳓ मघ᳓वा पुरोव᳓सुर्+++(=बहुधनः)+++,
नि᳓ष्+++(=संस्)+++कर्ता वि᳓हृ+++(ह्रु)+++तं+++(=विनष्टं)+++ पु᳓नः । +++(स्वा᳓हा!)+++
इ᳓डाम्+++(=अन्नम्)+++ अग्ने पुरु=दँ᳓सँ+++(=बहुदर्शनीयं)+++
सनि᳓ङ् गो᳓श् शश्वत्तमँ᳓ ह᳓वम् आनाय साध+++(य)+++ ।
स्या᳓न् नस् सू+++(सु)+++नु᳓स् त᳓नयो+++(=पौत्रः)+++विजा᳓वा᳓+++(विजनक)+++
ऽग्ने सा᳓ ते सुमति᳓र् भूत्व् अस्मे᳓+++(=स्मासु)+++ ।
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
क्षीरिवृक्षाद्यतिक्रमे जपः
+++(“सकृदेव, न पुनः पुनरित्यर्थः” इति हरदत्तः।)+++ क्षीरिणाम् अन्येषां वा लक्ष्मण्यानां +++(= प्रसिद्धानां सीमावृक्षणामित्यर्थः)+++ वृक्षाणां नदीनां धन्वनां +++(=दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति)+++ च व्यतिक्रम उत्तरे +++(=“ये गन्धर्वाः” इति वृक्षाणां व्यतिक्रमे,“या ओषधयः” इति नदीनां धन्वनाम् ।)+++ यथालिङ्गं जपेत्॥
ये᳓ गन्धर्वा᳓ अप्सर᳓सश् च देवी᳓र्
एषु᳓ वृक्षे᳓षु वानस्पत्ये᳓ष् आ᳓सते ।
शिवा᳓स् ते᳓ अस्यै᳓ वद्ध्वै᳙ भवन्तु
मा᳓ हिँसिषुर् वहतु᳓म्+++(=स्त्रीधनम्)+++ ऊह्य᳓मानाम् ।
नद्याद्यतिक्रमे जपः
या᳓ ओ᳓षधयो या᳓ नद्यो᳙
या᳓नि+++(यानि)+++ ध᳓न्वानि+++(=निर्जलस्थानानि)+++ ये᳓ व᳓ना+++(ः)+++ ।
ते᳓ त्वा वधु प्रजा᳓वतीं
प्र᳓ त्वे᳓+++(=त्वां)+++ मुञ्चन्त्व् अँ᳓हसः ।
गृहप्रवेशः
+++(ज्ञातिधनसंयुक्तान् )+++ गृहान् उत्तरया +++(=“सङ्काशयामि” इत्यनया)+++ सङ्काशयति +++(=दर्शयति)+++॥
+++(गृहानुत्तरया संकाशयति, तत्र वहतुः पूर्वं प्रापयितव्यः।)+++
सं᳓काशयामि+++(=प्रदर्शयामि)+++ वहतुं᳓+++(=स्त्रीधनं)+++ ब्र᳓ह्मणा
गृहै᳓र् +++(सह)+++ अ᳓घोरेण च᳓क्षुषा मै᳓त्रेण ।
+++(आभरणादिकम्)+++ पर्या᳓णद्धं विश्व᳓रूपं य᳓द् अस्याँ᳓
स्योनं᳓ प᳓तिभ्यस्+++(=पत्यादिभ्यः)+++ सविता᳓ कृणोतु त᳓त् ।+++(र४)+++
वाहावुत्तराभ्यां +++(“आवामगन्” इति द्वाभ्याम्)+++ विमुञ्चति दक्षिणमग्रे।
+++(वाहौ विमुञ्चति)+++
आ᳓ वाम् अगन्त् सुमति᳓र्, वाजिनी+++(=अश्वी)+++वसू
न्य् +++(हे)+++ अ᳓श्विना, हृत्सु᳓ +++(गृहप्राप्ति)+++का᳓माँ अयँसत+++(=नियती कृताः)+++ ।
अ᳓भूतङ् गोपा᳓ मिथुना᳓ शुभस्-पती
प्रिया᳓ अर्यम्णो᳓ दु᳓र्याँ+++(=गृहान्)+++ अशीमहि+++(=प्रविशेम)+++ ।
+++(वाह!)+++ अय᳓न् नो देव᳓स् सविता᳓ बृ᳓हस्प᳓तिर्
इन्द्राग्नी᳓ मित्रा᳓व᳓रुणा स्वस्त᳓ये ।
त्व᳓ष्टा वि᳓ष्णुः प्रज᳓या सँरराणः᳓+++(=सन्ददानः)+++
का᳓म+++(य्)+++ आ᳓यातं का᳓माय त्वा वि᳓मुञ्चतु ॥ (7)
लोहितं चर्माऽऽनडुहं प्राचीनग्रीवम् उत्तर+++(=ऊर्ध्व)+++लोमम् मध्येऽगारस्योत्तरया +++(=“शर्मा वर्मे"त्येतया)+++ ऽऽस्तीर्य, गृहान् प्रपादयन्न् उत्तरां +++(=“गृहान् भद्रान्”)+++ वाचयति, दक्षिणेन पदा +++(गृहान् प्रपादयन्)+++।
+++(चर्मास्तरणम्)+++
श᳓र्म व᳓र्मेद᳓म् आ᳓हरा+
ऽस्यै᳓ ना᳓र्या उपस्ति᳓रे+++(=उपस्तरणे)+++ ।
सि᳓नीवालि+++(=शुक्लप्रथमाकला)+++ प्र᳓जायताम्
इयं᳓ भ᳓गस्य सुमता᳓व् असत् ।
+++(गृहान् प्रपादयन् वधूं वाचयति)+++
गृहा᳓न् भद्रा᳓न्त् सुम᳓नसः प्र᳓पद्ये
+अ᳓-वीर-घ्नी वीर᳓वतस् सुवी᳓रान् ।
इ᳓रां+++(=अन्नं)+++ व᳓हतो घृत᳓म् +++(प्र+)+++उक्ष᳓माणास्
ते᳓ष्व् अहँ᳓ सुम᳓नास् सं᳓ विशामि ।+++(र५)+++
न च देहलीमभि+++(धि)+++तिष्ठति।
औपासने त्रयोदश होममन्त्राः
उत्तरपूर्वे देशे ऽगारस्याग्नेर् उपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा +++(=“आगन्गोष्ठ"मित्याद्याः, लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्बलीयस्त्वात् )+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते
आ᳓गन् गोष्ठं᳓ म᳓हिषी गो᳓भिर् अ᳓श्वैर्
आ᳓युष्मत्-पत्नी, प्रज᳓या स्वर्वि᳓त् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
बह्वीं᳓ प्रजा᳓ञ् जन᳓यन्ती +++(सुरत्ने→)+++सु᳓रत्ने-
-म᳓म् अग्निँ᳓ शत᳓-हिमास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।
+++(पुरा हिमवदृतुभिर् वर्षाणि गण्यन्ते स्मेति विस्मयः।)+++
अय᳓म् अग्नि᳓र् गृह᳓-पतिस्+++(!)+++
सु-सँस᳓त्+++(=शोभनसदनः)+++ पुष्टिव᳓र्द्धनः ।
य᳓था भ᳓गस्या+++(=भगाय)+++ऽऽभ्यां᳓ द᳓दद्
रयिं᳓ पु᳓ष्टिम् अ᳓थो प्रजा᳓म् ।
प्रजा᳓या आभ्यां प्रजापत
इ᳓न्द्राग्नी श᳓र्म यच्छतम् ।
य᳓थै᳓नयोर् न᳓ प्रमीया᳓ता+++(य्)+++
उभ᳓योर् जी᳓वतोः प्रजा᳓ ।
ते᳓न भूते᳓न हवि᳓षा
ऽय᳓म् आ᳓प्यायतां पु᳓नः।
जायां᳓ या᳓म् अस्मा आ+अ᳓वाक्षुस्
तां᳓ र᳓सेनाभि᳓ वर्धताम् ॥
अभि᳓वर्धतां प᳓यसा
+अभि᳓ राष्ट्रे᳓ण वर्द्धताम् ।
रय्या᳓ सह᳓स्र-पोषसा
इमौ᳓ स्ताम् अ᳓नपेक्षितौ ।+++(र४)+++
इहै᳓व᳓ स्तं मा᳓ वि᳓योष्टं
वि᳓श्वम् आ᳓युर् व्य᳙श्नुतम् ।
मह्या᳓+++(य्)+++ इन्द्र+++(स्)+++ स्वस्त᳓ये +++(ऽस्तु)+++ ।+++(र४)+++
ध्रुवै᳓धि᳓ पोष्या म᳓यि
म᳓ह्यन् त्वा ऽदाद् बृ᳓हस्प᳓तिः ।
म᳓या प᳓त्या प्रजा᳓वती
सं᳓ जीव शर᳓दश् शत᳓म् ।+++(र४)+++
त्व᳓ष्टा जाया᳓म् अजनयत्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्व᳓ष्टा अस्यै+++(स्याः)+++ त्वां᳓ प᳓तिम् ।
त्व᳓ष्टा सह᳓स्रम् आ᳓यूँषि
दीर्घ᳓म् आ᳓युः कृणोतु वाम् ।
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः ॥
उपवेषनम्
परिषेचनान्तं कृत्वोत्तरया +++(=इह गावः प्रजायध्वम्)+++ चर्मण्युपविशत उत्तरो वरः +++(प्राङ्मुखौ)+++ ।
+++(उत्तरया चर्मण्युपविशतः। आमन्त्रितनिघातः छान्दसत्वान्नभवति ।)+++
इह᳓ गा᳓वः प्र᳓जायध्वम्
इहा᳓श्वा इह᳓ पू᳓रुषाः ।
इहो᳓+++(ह+उ)+++ सह᳓स्र-दक्षिणो
राय᳓स्-पो᳓षो नि᳓षीदतु ।+++(र५)+++
अथास्याः पुंस्वो +++(=या पुमांसमेव सूते न स्त्रियं सा )+++ जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य +++(=“सोमेनादित्या”)+++ तस्मै फलान्युत्तरेण +++(=प्रस्वस्थः प्रेयः)+++ यजुषा प्रदायोत्तरे +++(=“इह प्रियं प्रजयाः”)+++ जपित्वा वाचं यच्छत +++(=मौनमाचरतः)+++ आ नक्षत्रेभ्यः ॥
+++(अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति।)+++
सो᳓मेनादित्या᳓ बलि᳓नस्
सो᳓मेन पृथिवी᳓ दृढा᳓ ।
अ᳓थो न᳓क्षत्राणाम् एषा᳓म्
उप᳓स्थे सो᳓म आ᳓धि+++(हि)+++तः।
+++(तस्मै फलानि प्रयच्छति)+++
+++(हे फलानि!)+++ प्र᳓ स्व᳓स्+++(=सूताः)+++ स्थः,
प्रे᳓यं᳓ प्रज᳓या भु᳓वने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।
+++(उत्तरे जपति)+++
इह᳓ प्रिय᳓म् प्रज᳓या ते स᳓म् ऋध्यताम्
अस्मि᳓न् गृहे᳓ गा᳓र्हपत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
एना᳓ प᳓त्या तनु᳓वं सं᳓ सृजस्व
अ᳓था जि᳓व्री +++(=जीर्णा)+++ विद᳓थम्+++(=यज्ञं)+++ आ᳓ वदासि +++(पौत्रादिभ्यः)+++।
सुमङ्गली᳓र् इयं᳓ वधू᳓र्
इमाँ᳓ समेत प᳓श्यत ।
सौ᳓भाग्यम् अस्यै᳓ दत्वा᳓य+++(=दत्वा)+++-
अ᳓था᳓ऽऽस्तं +++(स्वस्वगृहाणि)+++ वि᳓ प᳓रेतन+++(=गच्छत)+++ ।+++(र४)+++
तारादर्शनम्
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशम् उपनिष्क्रम्योत्तराभ्यां +++(=ध्रुवक्षितिर् ध्रुवयोनिः)+++ यथालिङ्गं +++(=तेनोत्तरस्याम् ऋचि सर्वेषां सप्तर्षीणां कृत्तिकादिनाम् अरून्धत्याश्च सहदर्शनम्)+++ ध्रुवम् अरुन्धतीं च दर्शयति॥
+++(ध्रुवं दर्शयति)+++
ध्रुव᳓-क्षितिर् ध्रुव᳓-योनिर्
ध्रुव᳓म् असि ध्रुव᳓तस् स्थित᳓म् ।
त्व᳓न् न᳓क्षत्राणां मेथ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ अ᳓सि
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स᳓ मा पाहि पृतन्यतः᳓+++(=योद्धुकामात्)+++ ।
+++(अरुन्धतीं दर्शयति। ६ कृत्तिकाः + अरुन्धती = ७ कृत्तिकाः सप्तऋषिपन्त्यः। अरुन्धती स्थिरा, शिष्टास् त्यक्ताः शङ्कया।)+++
सप्त-ऋष᳓यः प्रथमां᳓ कृ᳓त्तिकानाम्
अरुन्धती᳓म् य᳓द् ध्रुव᳓ताँ ह᳓ निन्युः᳓।
ष᳓ट् कृ᳓त्तिका-मुख्ययोगं᳓ व᳓हन्ति +++(तस्याम्)+++
+++(वधूर्)+++ इय᳓म् अस्मा᳓कम् एधत्व् अष्टमी᳓ ।+++(र५)+++
होमविशेषाः
उपाकरण समापनयोः काण्डर्षीणां स्विष्टकृत्-स्थानीयः होमः
+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३
०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य …{Loading}…
स᳓दसस्प᳓तिम् अ᳓द्भुतं
प्रिय᳓म् इ᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ +++(=दानरूपम्)+++ मेधा᳓म् अयासिषम् ६
स्वयं प्रज्वलिते ऽग्नौ समिदाधानम्
सर्वत्र स्वयं +++(धमनादि पुरुषप्रयत्नमन्तरेण)+++ प्रज्वलितेऽग्नावुत्तराभ्यां +++(=उद्दीप्यस्व जातवेदः, मा नो हिंसीः)+++ समिधावादध्यात् ५
उ᳓द्दीप्यस्व जातवेदो
अपघ्न᳓न् नि᳓रृतिं म᳓म ।
पशूँ᳓श् च म᳓ह्यम् आ᳓ वह
जी᳓वनञ् च दि᳓शो दिश ।+++(र५)+++
मा᳓ नो हिँसीज् जातवेदो
गा᳓म् अ᳓श्वं पु᳓रुषञ् ज᳓गत् ।
+++(परहवींष्य्)+++ अ᳓बिभ्रद्+++(न्)+++ अ᳓ग्न आ᳓गहि+++(=आगच्छ)+++,
श्रिया᳓ मा प᳓रिपातय ॥ (9)
स्थालीपाकः
अथैनाम् आग्नेयेन स्थालीपाकेन +++(वर ऋत्विग् इव)+++ याजयति +++(अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।)+++॥
पत्न्य् अवहन्ति +++(व्रीहीन् यवान् वा नवान्। न तु श्रपणादिकमपि। पर्वसु पतिर् एवावहन्यात्।)+++ ॥
+++(शिष्टं स्थालीपाककर्मान्यत्रोक्तम्। अत्र तु विवाहाङ्गत्वात् शम्या परिधय इति केचित्, नेत्यन्ये।)+++
योऽस्यापचितस् तस्मा ऋषभं ददाति +++(वराय याजकेन न दक्षिणा वध्वा देयेति भावेन, तत्प्रतिनिधिः)+++॥
ब्रह्मचर्यम् होमः समावेशनं च
एतदहर् विजानीयाद् यदहर् भार्याम् आवहते +++(विवाहाब्दिकम् अत्रोक्तम् इति हरदत्तः)+++ ७
त्रिरात्रमुभयोरधश् शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ८
तयोश् शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥
दण्डोत्थापनमन्त्रः
तं +++(दण्डं)+++ चतुर्थ्या ऽपररात्र +++(=रात्रेस्तृतीयो भागः)+++ उत्तराभ्याम् +++(=“उदीर्ष्वात” इत्येताभ्यां)+++ उत्थाप्य, प्रक्षाल्य, निधाय,
उदीर्ष्वा᳓ऽतो विश्वावसो +++(गन्धर्व)+++
न᳓मसेडामहे त्वा ।
अन्या᳓म् इच्छ प्रफर्व्यँ᳙+++(=प्रथमवयसं)+++
सञ्जायां᳓ प᳓त्या सृज ।
उ᳓दीर्ष्व+++(=उद्गच्छ)+++ +अ᳓तः प᳓तिवती ह्य्+ए᳓षा᳓
विश्वा᳓वसुं न᳓मसा गीर्भि᳓र् ईट्टे+++(=याचे)+++ ।
अन्या᳓म् इच्छ पितृ-ष᳓दं व्य᳙क्तां
स᳓ ते भागो᳓ जनु᳓षा त᳓स्य विद्धि ॥
शेष-होम-मन्त्राः
अग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(=सप्त प्रधानाहुतीर्जुहोति “अग्ने प्रायश्चित्ते"इत्येवमाद्याः)+++ हुत्वा जयादि प्रतिपद्यते।
अ᳓ग्ने प्रायश्+++(=विनाश)+++-चित्ते+++(=सन्धातः)+++!
त्व᳓न् देवा᳓नां प्रा᳓यश्चित्तिर् असि।
ब्राह्मण᳓स् त्वा नाथ᳓-कामः प्र᳓पद्ये।
या᳓ऽस्यां᳓ पतिघ्नी᳓ तनूः᳓
प्रजाघ्नी᳓ पशुघ्नी᳓ लक्ष्मिघ्नी᳓,
जारघ्नी᳓म् अस्यै ता᳓ङ् कृणोमि स्वा᳓हा ।+++(र५)+++
वा᳓यो प्रायश्चित्ते! त्व᳓न् देवा᳓नां प्रा᳓यश्चित्तिर् असि।
ब्राह्मण᳓स् त्वा नाथ᳓-कामः प्र᳓पद्ये।
या᳓ऽस्यां᳓ पतिघ्नी᳓ तनूः᳓
प्रजाघ्नी᳓ पशुघ्नी᳓ लक्ष्मिघ्नी᳓,
जारघ्नी᳓म् अस्यै ता᳓ङ् कृणोमि स्वा᳓हा ।+++(र५)+++
आ᳓दित्य प्रायश्चित्ते! त्व᳓न् देवा᳓नां प्रा᳓यश्चित्तिर् असि।
ब्राह्मण᳓स् त्वा नाथ᳓-कामः प्र᳓पद्ये।
या᳓ऽस्यां᳓ पतिघ्नी᳓ तनूः᳓
प्रजाघ्नी᳓ पशुघ्नी᳓ लक्ष्मिघ्नी᳓,
जारघ्नी᳓म् अस्यै ता᳓ङ् कृणोमि स्वा᳓हा ।+++(र५)+++
प्र᳓जापते प्रायश्चित्ते!
त्व᳓न् देवा᳓नां प्रा᳓यश्चित्तिर् असि।
या᳓ऽस्यां᳓ पतिघ्नी᳓ तनूः᳓
प्रजाघ्नी᳓ पशुघ्नी᳓ लक्ष्मिघ्नी᳓,
जारघ्नी᳓म् अस्यै ता᳓ङ् कृणोमि स्वा᳓हा ।+++(र५)+++
प्रसव᳓श्+++(=अनुज्ञा)+++ चोपयाम᳓श्+++(=पृथिवी)+++ च
+++(इयं वा उपयामः इति श्रुतेः)+++
का᳓टश्+++(=लिङ्गरूपरुद्रः)+++ चार्णव᳓श् च
धर्णसि᳓श्+++(=गृहं)+++ च द्र᳓विणञ् च
भ᳓गश् चान्त᳓रिक्षञ् च
सि᳓न्धुश् च समुद्र᳓श् च
स᳓रस्वाँश् च विश्व᳓व्यचाश् च
ते᳓ यं᳓ द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि,
त᳓म् एषाञ् ज᳓म्भे+++(=दन्ते)+++ दध्मस् स्वा᳓हा ।
+++(वसन्तादीनां षण्णामृतूनां द्वौद्वौ मासौ-)+++
म᳓धुश् च मा᳓धवश् च
शुक्र᳓श् च शु᳓चिश् च
न᳓भश् च नभस्य᳙श् च
+इष᳓श् चोर्ज᳓श् च
स᳓हश् च सहस्य᳙श् च
त᳓पश् च तपस्य᳙श् च
ते᳓ यं᳓ द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
त᳓म् एषाञ् ज᳓म्भे+++(=दन्ते)+++ दध्मस् स्वा᳓हा ।
चित्त᳓ञ् च चि᳓त्तिश् च+
+आ᳓कूतञ्+++(=अभिप्रेतम्)+++ चा᳓कूतिश्+++(=अभिप्रायः)+++ च᳓
+अ᳓धीतञ् चा᳓धीतिश् च
वि᳓ज्ञातञ्च विज्ञा᳓नञ् च
ना᳓म च क्र᳓तुश्+++(=आकृतिः)+++ च
द᳓र्शश् च पूर्ण᳓मासश् च
ते᳓ यं᳓ द्विष्मो᳓
य᳓श् च नो द्वे᳓ष्टि
त᳓म् एषाञ् ज᳓म्भे+++(=दन्ते)+++ दध्मस् स्वा᳓हा ।
वध्वाश् शिरस्य् आज्यशेषानयनम्
भू᳓स् स्वा᳓हा, भु᳓वस् स्वा᳓हा, सु᳓वस् स्वा᳓होँ᳓ स्वा᳓हा ॥ (10)
+++(भूरादयः त्रयो लोकाः । ओमिति ब्रह्म ॥)+++
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्र व्याख्याने दशमः खण्डः
परस्परवीक्षणम्
परिषेचनान्तं कृत्वा, अपरेणाग्निं प्राचीम् उपवेश्य तस्याश् शिरस्याज्यशेषाद् व्याहृतिभिर् ओङ्कारचतुर्थाभिरानीयोत्तराभ्यां +++(=“अपश्यं त्वे"त्येताभ्यां)+++ यथालिङ्गं +++(=पूर्वया वधूः उत्तरया वरः)+++ मिथस्समीक्ष्य,
+++(वधूर् वरं समीक्षते)+++
अ᳓पश्यन् त्वा म᳓नसा चे᳓कितानं+++(=जानन्तं)+++
त᳓पसो जातं᳓ त᳓पसो वि᳓भूतम् ।
इह᳓ प्रजा᳓म् इह᳓ रयिँ᳓ र᳓राणः
प्र᳓जायस्व प्रज᳓या पुत्रकाम ।
+++(वरो वधूम् ईक्षते)+++
अ᳓पश्यन् त्वा म᳓नसा दी᳓ध्यानाँ+++(=ध्यायन्तीं)+++
स्वा᳓यां तनूँ᳓+++(न्वां)+++ ऋत्वि᳓ये +++(काले)+++ ना᳓थमानाम् ।
उ᳓प मा᳓म् +++(सम्भोगकाले)+++ उच्चा᳓ युवति᳓र् बु᳓भूयाः+++(=अनुभूयाः)+++
प्र᳓जायस्व प्रज᳓या पुत्रकामे ।+++(४)+++
उत्तरया +++(=“समञ्जन्त्वि"त्येतया)+++ ऽज्यशेषेण हृदयदेशौ संमृज्य,
+++(उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति)+++
स᳓मञ्जन्तु वि᳓श्वे देवाः᳓
स᳓मा᳓पो हृ᳓दयानि नौ ।
सं᳓ मातरि᳓श्वा सं᳓ धाता᳓
स᳓म् उ दे᳓ष्ट्री+++(=दात्री [फलानाम्])+++ दिदेष्टु नौ ।+++(र५)+++
अथ जपः
उत्तरास् तिस्रो +++(=“प्रजापते तन्व"मित्याद्याः)+++ जपित्वा,
प्र᳓जापते तन्वं᳙ मे जुषस्व
त्व᳓ष्टर् देवे᳓भिस् सह᳓ साम᳓+++(न= सममान)+++ इन्द्र ।
वि᳓श्वैर् देवै᳓ राति᳓भिस् सँ रराणः᳓
पुँसां᳓ बहूनां᳓ मात᳓रस् स्याम ।+++(र४)+++
+++(गृहप्रवेशे - )+++
आ᳓ नः प्रजा᳓ञ् जनयतु प्रजा᳓पतिर्
आजरसा᳓य +++(स्नेहाय)+++ स᳓मनक्त्व् अर्यमा᳓ ।
अ᳓-दुर्-मङ्गलीः पतिलोक᳓म् आ᳓ विश
श᳓न् नो भव द्विप᳓दे श᳓ञ् च᳓तुष्पदे ।
तां᳓ पूषञ् छिव᳓तमाम् ए᳓रयस्व
य᳓स्यां बी᳓जं मनुष्या᳙ व᳓पन्ति ।
या᳓ न ऊरू᳓ उशती᳓+++(=कामयमाना)+++ विस्र᳓+++(श्र)+++यातै+++(=विश्लिष्टौ कुर्यात्)+++
य᳓स्याम् उश᳓न्तः+++(=कामयमानाः)+++ प्र᳓हरेम शे᳓फम् ॥+++(५)+++ (11)
शेषं +++(=“आरोहोरु"मित्यादि)+++ समावेशने जपेत् ॥
+++(अन्तरात्मन्!)+++ आ᳓रोहोरु᳓म् उ᳓पबर्हस्व बाहुं᳓
प᳓रिष्वजस्व जायाँ᳓ सुमनस्य᳓मानः +++(=प्रीयमाणः)+++ ।
त᳓स्यां पुष्यतं मिथुनौ᳓ स᳓योनी (=सङ्गतोपस्थौ)
बह्वीं᳓ प्रजां᳓ जन᳓यन्तौ स᳓रेतसा ।
आर्द्र᳓या᳓+++(आज्याक्तया)+++ऽरण्या +++(अग्निम्)+++ य᳓त्रा᳓+++(था)+++ऽमन्थत्,
+++(तथा)+++ पु᳓रुषं +++(गर्भम्)+++ पु᳓रुषेण +++(शेफेन)+++ शक्रः᳓ ।
त᳓द् एतौ᳓ मिथुनौ᳓ स᳓योनी+++(=सङ्गतोपस्थौ)+++
प्रज᳓याऽमृ᳓तेनेह᳓ गच्छतम् । +++(5)+++
अन्यो वैनाम् अभिमन्त्रयेत +++(अत्र सुदर्शनाचार्यः - इदं च “अहं गर्भमदधाम्” इत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वा)+++११
अहं᳓ ग᳓र्भम् अ᳓दधाम् ओ᳓षधीष्व्
अहं᳓ वि᳓श्वेषु भु᳓वनेष्व् अन्तः᳓ ।
अहं᳓ प्रजा᳓ अजनयं पितॄृणा᳓म्
अहं᳓ ज᳓निभ्यो +++(=जन्याः = वध्वाः)+++ अपरी᳓षु +++(=पश्चात्कालस्नुषासु)+++ पुत्रा᳓न् ।+++(५)+++
पुत्रि᳓णेमा᳓ कुमारि᳓णा
वि᳓श्वम् आ᳓युर् व्य᳙श्नुतम् ।
उभा᳓ हि᳓रण्य-पेशसा+++(=रूपौ)+++
वीति᳓+++(=हविर्)+++होत्रा कृत᳓द्वसू (=कृतवसू)।
दशस्य᳓न्त्वा +++(=दशस्यन्तौ =दातारौ)+++ ऽमृ᳓ताय कँ᳓ +++(पादपूरणे)+++ श᳓+++(स)+++म् ऊ᳓धो
रोमशँ᳓ हथो+++(=श्लिष्टं कुरुतम्)+++ देवे᳓षु कृणु᳓तो दु᳓वः (=परिचरणम्)।+++(४)+++
+++(भावयव्यस्य राज्ञो भार्याम् भावयव्यानीमिन्द्रः पत्युस्सखा परिहसन् उवाच उपभोगयोग्या त्वं न भवसि रोमाणि ते नोत्पन्नानीति । सा तमब्रवीत्- उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाहमस्मि रोमशा गन्धारिणामिवाविका इति ॥)+++