अस्य विस्तारो धर्मशास्त्रे ऽत्र।
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १
शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्माँस् त्र्यवरान् अनर्थावेक्षो भोजयेत् २
होममन्त्राः
अन्नाहुतिः
पित्रे
अन्नस्योत्तराभिर् जुहोति ३
य᳓न् मे माता᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पिता᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।+++(र५)+++
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
या᳓स् ति᳓ष्ठन्ति, या᳓ धा᳓वन्ति,
या᳓ आर्द्रोघ्नीः᳓+++(=कूलादिघ्नीः)+++ परितस्थु᳓षीः ।
अद्भि᳓र् वि᳓श्वस्य भर्त्री᳓भिर्
अन्त᳓र् अन्यं᳓ पितु᳓र् दधे, +++(र५)+++
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।
पितामहाय
य᳓न् मे पितामही᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
अन्त᳓र् दधे प᳓र्वतैर्
अन्त᳓र् म᳓ह्या पृथिव्या᳓ ।
आभि᳓र् दिग्भि᳓र् अनन्ता᳓भिर्
अन्त᳓र् अन्यं᳓ पितामहा᳓द् दधे
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।
प्रपितामहाय
य᳓न् मे प्रपितामही᳓ प्रलुलो᳓भ+++(प्र᳓लुलोभ)+++ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः प्रपितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
अन्त᳓र्दध ऋतु᳓भिर्
अहोरात्रै᳓श् च +++(काल)+++सन्धि᳓भिः ।
अर्धमासै᳓श् च मा᳓सैश् च+
अन्त᳓र् अन्यं᳓ प्रपितामहा᳓द् दधे
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
अन्येभ्यः
ये᳓ चेह᳓ पित᳓रो ये᳓ च ने᳓ह
याँ᳓श् च विद्म᳓ याँ᳓ उ च न᳓ प्र विद्म᳓ ।
अ᳓ग्ने ता᳓न् वे᳓त्थ
य᳓दि ते᳓ जातवेदस् त᳓या+++(→स्वधया)+++ प्रत्तँ᳓+++(→प्रत्तया = प्रदत्तया)+++ स्वध᳓या मदन्तु
स्वा᳓हा ।
आज्याहुतयः
आज्याहुतीरुत्तराः ४
स्वा᳓हा पित्रे᳓
पित्रे᳓ स्वा᳓हा
स्वा᳓हा पित्रे᳓
पित्रे᳓ स्वा᳓हा ।
स्वधा᳓ स्वा᳓हा
अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।
अभिमर्शः कर्त्रा
एतद्वा विपरीतम् ५
सर्वमुत्तरैरभिमृशेत् ६
एष᳓ ते तत +++(स्वधासमुद्रः)+++
म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् अग्नि᳓श् च पृथिवी᳓ च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽग्नि᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पित्रे᳓ ऽक्षितो᳓ ऽनुपदस्तः स्वधा᳓ भव
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, +र्च᳓स् ते महिमा᳓।
एष᳓ ते पितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् वायु᳓श् चान्त᳓रिक्षञ् च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था वायु᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पितामहा᳓या᳓क्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, सा᳓मानि ते महिमा᳓।
एष᳓ ते प्रपितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् आदित्य᳓श् च द्यौ᳓श् च
ता᳓वत्यस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽऽदित्यो᳓ ऽक्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं प्रपितामहा᳓या᳓ऽक्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, य᳓जूँषि ते महिमा᳓ ॥ (19)
कॢप्तान्वा प्रतिपूरुषम् ७
भोक्तृ-स्पर्शनम्
उत्तरेण यजुषोपस्पर्शयित्वा ८
+++(हे अन्न -)+++ पृथिवी᳓ ते पा᳓त्रं,
द्यौ᳓र् अपिधा᳓नम्।
ब्र᳓ह्मणस् त्वा मु᳓खे जुहोमि।
ब्राह्मणा᳓नान् त्वा प्राणापान᳓योर् जुहोमि।
+++(भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य, द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य)+++
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अ᳓क्षितम् असि।
मै᳓षां क्षेष्ठा+++(←क्षी क्षये)+++ अमु᳓त्रा+++(→परलोके)+++ऽमु᳓ष्मिल्ँ लोके᳓ +++(च ब्राह्मणानाम्)+++ ।
पिण्डदानम्
तेषूत्तरैरपो दत्त्वा
+++(दर्भेष्व् अपो ददाति)+++
मार्ज᳓यन्तां म᳓म पित᳓रो,
मार्ज᳓यन्तां म᳓म पितामहा᳓
मार्ज᳓यन्तां म᳓म प्रपितामहाः᳓ ।
मार्ज᳓यन्तां म᳓म मात᳓रो,
मार्ज᳓यन्तां म᳓म पितामह्यो᳙,
मार्ज᳓यन्तां म᳓म प्रपितामह्यः᳙ ।
उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा
उत्तरैर् दक्षिणापवर्गान् पिण्डान्दत्त्वा
एत᳓त्ते तताऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
एत᳓त्ते पितामहाऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
एत᳓त्ते प्रपितामहाऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
एत᳓त्ते मातर् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
एत᳓त्ते पितामह्य् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
एत᳓त्ते प्रपितामह्य् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।
मार्ज᳓यन्तां म᳓म पित᳓रो,
मार्ज᳓यन्तां म᳓म पितामहा᳓
मार्ज᳓यन्तां म᳓म प्रपितामहाः᳓ ।
मार्ज᳓यन्तां म᳓म मात᳓रो,
मार्ज᳓यन्तां म᳓म पितामह्यो᳙,
मार्ज᳓यन्तां म᳓म प्रपितामह्यः᳙ ।
उत्तरैरुपस्थानम्
पूर्ववदुत्तरैरपो दत्त्वा
उत्तरैरुपस्थाय
ये᳓ च वो᳓ +++(पितरः)+++ ऽत्र,
ये᳓ चास्मा᳓स्व् आ᳓शँसन्ते+++(→प्रार्थयन्ते स्वधाम्)+++
या᳓श् च वो᳓ ऽत्र
या᳓श् चास्मा᳓स्व् आ᳓शँसन्ते,
ते᳓ च +++(स्वधां)+++ वहन्तां,
ता᳓श् च +++(स्वधां)+++ वहन्ताम्।
तृ᳓प्यन्तु भवन्तः,
तृ᳓प्यन्तु भवत्यः।
तृ᳓प्यत तृ᳓प्यत तृ᳓प्यत ।
उभयान् पिण्डान् परिषिञ्चति
उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य
पुत्रा᳓न् पौ᳓त्रान् अभि᳓ तर्प᳓यन्तीर्
आ᳓पो म᳓धुमतीर् इमाः᳓
स्वधां᳓ +++(मातृसहित)+++पितृ᳓भ्यो अमृ᳓तं दु᳓हाना
आ᳓पो देवी᳓र् उभ᳓याँस् तर्पयन्तु ।
तृ᳓प्यत तृ᳓प्यत तृ᳓प्यत ।
शेष-प्राशनम्
न्युब्ज्य पात्राण्य्
उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा
प्रोक्ष्यपात्राणि
द्वन्द्वमभ्युदाहृत्य
सर्वतस् समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।
प्राणे᳓ नि᳓विष्टो ऽमृ᳓तं+++(→अमरणहेतुमन्नं)+++ जुहोमि, ब्र᳓ह्मणि म आत्मा᳓ऽमृतत्वा᳓य ।