अस्य विस्तारो ऽत्र।
या माघ्याः पौर्णमास्या उपरिष्टाद्+++(=कृष्णपक्षे)+++ व्यष्टका
तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०
पूर्वेद्युः सायम् औपकार्यम्
तस्यास्सायमौपकार्यम् ११
अपूपं चतुश्शरावं श्रपयति १२
अष्टाकपाल इत्येके १३
सप्तम्यां रात्राव् अपूप-होमः
पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरया ऽपूपाज्जुहोति १
यां᳓ ज᳓नाः प्रति-न᳓न्दन्ति
रा᳓त्रिं धेनु᳓म् इवायती᳓म् ।
संवत्सर᳓स्य या᳓ प᳓त्नी +++(एकाष्टका)+++
सा᳓ नो अस्तु सुमङ्गली᳓
स्वा᳓हा ।
सिद्धश् शेषस् तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २
गवालम्भः
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३
तूष्णीं पञ्चाज्याहुतीर् हुत्वा
श्वोभूते वपाहोममन्त्रः
तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४
व᳓ह वपां᳓ जातवेदः पितृ᳓भ्यो
य᳓त्रैनान् वे᳓त्थ नि᳓हितान् पराके᳓+++(=दूरे)+++ ।
मे᳓दसः कू᳓ल्या+++(=नद्या)+++ उ᳓प ता᳓न् क्षरन्तु
सत्या᳓ एता᳓ आशि᳓षस् सन्तु का᳓मैस्
स्वा᳓हा ।
मांसौदनमुत्तराभिः
माँसोदनमुत्तराभिः ५
यां᳓ ज᳓नाः प्रति-न᳓न्दन्ति
रा᳓त्रिं धेनु᳓म् इवायती᳓म् ।
संवत्सर᳓स्य या᳓ प᳓त्नी +++(एकाष्टका)+++
सा᳓ नो अस्तु सुमङ्गली᳓
स्वा᳓हा ।
इय᳓म् +++(उषाः)+++ एव᳓ सा᳓ या᳓ प्रथमा᳓ व्यौ᳓च्छद्+++(←उछीँ विवासे)+++
अन्त᳓र् अस्या᳓ञ् +++(पृथिव्यां)+++ चरति +++(आदित्यम्)+++ प्र᳓विष्टा ।
वधू᳓र् जजान नव-ग᳓ज्+++(गा)+++ ज᳓नित्री
त्र᳓य+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महिमा᳓नस् सचन्ते+++(=भजन्ते)+++ ॥
+++(मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ)+++
छ᳓न्दस्वती उष᳓सा+++(सौ)+++ पे᳓पिशाने+++(=दीप्यमाने)+++
समानय्ँ᳓ यो᳓निम् +++(आदित्यं)+++ अ᳓नु सञ्च᳓रन्ती ।
सू᳓र्यपत्नी वि᳓ चरतᳶ प्र-जानती᳓
केतु᳓ङ् कृण्वाने᳓ अज᳓रे भू᳓रिरेतसा+++(सौ)+++ ॥
ऋत᳓स्य प᳓न्थाम् अ᳓नु +++(कार्यभेदात्)+++ तिस्र᳓ आ᳓गुस्
त्र᳓यो घर्मा᳓सो अ᳓नु ज्यो᳓तिषा᳓ ऽगुः ।
प्रजा᳓म् ए᳓का र᳓क्षत्य्, ऊ᳓र्जम् ए᳓का
व्रत᳓म् ए᳓का रक्षति देवयूना᳓म् ॥
एकाष्टकां᳓ पश्यत दो᳓हमानाम्
अ᳓न्नं माँस᳓वद् घृत᳓वत् स्वधा᳓वत् ।
त᳓द् ब्राह्मणै᳓र् अतिपूत᳓म् अनन्त᳓म् अक्षय्य᳓म्
अमु᳓ष्मिल्ँ लोके᳓ स्फी᳓तिं गच्छतु मे पितृ᳓भ्यः
स्वा᳓हा ।
औलूखला᳓+++(=उलूखलाः)+++ ग्रा᳓वाणो घो᳓षम् अक्रत
हविः᳓ कृण्व᳓न्तः परिवत्सरी᳓णम् ।
एकाष्टके᳓ सुप्रजा᳓ वीर᳓वन्तो
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥
एकाष्टका᳓ त᳓पसा त᳓प्यमाना
संवत्सर᳓स्य प᳓त्नी दुदुहे प्र᳓पीना ।+++(४)+++
तं᳓ दो᳓हम् उ᳓पजीवाथ+++(=उपजीवत)+++ पित᳓रस्
सह᳓स्र-धारम् अमु᳓ष्मिल्ँ लोके᳓
स्वा᳓हा ॥ (20)
पिष्टान्नम् उत्तरया जुहोति
पिष्टान्नमुत्तरया ६
+++(एकाष्टके!)+++ उक्थ्य᳙श् चास्य् अतिरात्र᳓श् च
साद्यस्क्री᳓श्+++(=सद्यस्क्र-क्रतुः)+++ छ᳓न्दसा सह᳓ ।
अपूप-घृता᳓हुते न᳓मस् ते
अस्तु माँस-पिप्प᳓ले+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वा᳓हा ।
आज्याहुतीरुत्तराः
आज्याहुतीरुत्तराः ७
भूः᳓- पृथिव्य्+++(व्या)+++ अ᳙ग्नि᳓ना+ऋचा᳓
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
भु᳓वो - वायु᳓ना ऽन्त᳓रिक्षेण सा᳓म्ना
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
स्व᳓र् - दि᳓वा ऽऽदित्ये᳓न य᳓जुषा
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।+++(५)+++
जन᳓द्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अद्भि᳓र् अ᳓थर्वाङ्गिरो᳓भिर्
अमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
रोचना᳓य +अजिरा᳓य+++(←अज गतिक्षेपणयोः)+++ +अग्न᳓ये देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।
केत᳓वे+++(=ज्ञात्रे)+++ म᳓नवे ब्र᳓ह्मणे देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।
स्वधा᳓ स्वा᳓हा ।
अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९
दध्यञ्जलिहोमः
अथैतदपरं दध्न एवाञ्जलिना जुहोति यया +++(ऋचा)+++ ऽपूपम् १०
अन्वष्टका
अत +++(=अष्टकागाव)+++ एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११
तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२