प्रायश्चित्तानि

फलादिपातः

यद्येनं वृक्षात् फलमभिनिपतेद् वयो +++(=पक्षी)+++ वा ऽभिविक्षिपेद् अवर्षतर्क्ये वा बिन्दुर् अभिनिपतेत् तदुत्तरैर् +++(ऽयदि वृक्षादिऽत्यादिभिः)+++ यथालिङ्गं प्रक्षालयीत ८

अद्भुतदर्शनम्

आगारस्थूणाविरोहणे+++(=अङ्कुरजनने)+++, +++(अगारे)+++ मधुन उपवेशने, कुप्त्वां+++(चुल्ल्यां, अम्बरीषे)+++ कपोतपददर्शने, ऽमात्यानां +++(अमा सह वसन्तीति पुत्रभ्रात्रादयः, तेषाम् बहूनाम्)+++ शरीर-रेषणे+++(=व्याधौ मरणे वा)+++, ऽन्येषु चाद्भुतोत्पातेष्व्
अमावास्यायां निशायां +++(= चतुर्धाविभक्तायां रात्रेः द्वतीये भागे)+++ यत्रापां न शृणुयात्
तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा +++(“इमं मे वरुण, तत्वायामि"इत्येकादश)+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते ९

परिषेचनान्तं कृत्वा
ऽभिमृतेभ्य उत्तरया +++(ऽइमं जीवेभ्यऽ इत्येतया)+++ दक्षिणतो ऽश्मानम् +++(मृत्युवारणार्थम्)+++ परिधिं दधाति १०