चोदनम्
१६ ०३ जन्मनोऽधि तृतीये ...{Loading}...
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ १६.३ ॥
… अथापि ब्राह्मणं - “रिक्तो वा एषो ऽनपिहितो यन् मुण्डस् - तस्यैतद् अपिधानं यच् छिखे"ति ८
कर्म
१६ ०४ ब्राह्मणानाम् भोजनम् ...{Loading}...
ब्राह्मणानां भोजनम् +++(इत्यादिकम्)+++ उपायनवत्॥
+++(ब्राह्मणान् भोजयित्वा
ऽशिषो वाचयित्वा
कुमारं भोजयित्वेत्य् एतावद् इह द्रष्टव्यम् ।)+++
केशेषु सीमाकल्पनम्
०२ ०२ शम्याः परिध्यर्थे ...{Loading}...
शम्याः+++(=युगकीलाः)+++ परिध्यर्थे विवाह+उपनयन-समावर्तन-सीमन्त-चौल-गोदान-प्रायश्चित्तेषु २ +++(अथ परिधीन् परिदधाति। तत आघारसमिधौ।)+++
१६ ०५ सीमन्तवद् अग्नेर् ...{Loading}...
सीमन्तवद् अग्नेर् उपसमाधानादि ॥
१६ ०६ अपरेणाग्निम् प्राञ्चमुपवेश्य ...{Loading}...
अपरेणाग्निं प्राञ्चम् उपवेश्य
त्रेण्या शलल्या+++(=शल्यक-सूचयः)+++, त्रिभिर् दर्भ-पुञ्जीलैः+++(=सविशाखा नाडीभिः)+++, शलालु+++(=अपक्वोदुम्बर)+++-ग्लप्सेन+++(=गुच्छेन)+++ +इति
तूष्णीं केशान् विनीय यथर्षि शिखा निदधाति।
१६ ०७ यथा वैषाम् ...{Loading}...
यथा वैषां कुल-धर्मः स्यात् ॥
१६ ०८ अपाँ ...{Loading}...
उपनयनवद् दिग्-वपनाद्य् अपां संसर्जनाद्य्-आ-केश-निधानात् समानम् ॥ १६.८ ॥
+++(अधो यथापेक्षं लिङ्गपरिवर्तनं स्यात्।)+++
दिग्वपनम् ...{Loading}...
शिरस उन्दनम्
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...
ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++
संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++
हरदत्तो ऽत्र।
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु ।
उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५
०२ आप उन्दन्तु ...{Loading}...
+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।
+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++
प्रवपनम्
१० ०६ त्रींस्त्रीन् ...{Loading}...
त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६
०३ येनावपत्सविता क्षुरेण ...{Loading}...
+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।
०४ येन पूषा ...{Loading}...
+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...
+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०६ येन पूषा ...{Loading}...
+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑ ।
क्षुर-शोधन-मन्त्रणम्
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...
वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७
०७ यत्क्षुरेण मर्चयता ...{Loading}...
+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः ।
केश-दर्भ-निक्षेपः
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...
आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८
०८ उप्त्वाय केशान् ...{Loading}...
उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥
क्षुरविश्रान्तिः
१६ ०९ क्षुरँ प्रक्षाल्य ...{Loading}...
क्षुरं प्रक्षाल्य निदधाति ॥
१६ १० तेन त्र्यहम् ...{Loading}...
तेन त्र्य्-अहं कर्म-निवृत्तिः ॥
वरदानम्
१६ ११ वरन् ददाति ...{Loading}...
वरं ददाति ॥