जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।
भू᳓र् अपां᳓ त्वौ᳓षधीनाँ र᳓सं प्रा᳓शयामि।
शिवा᳓स्त आ᳓प ओ᳓षधयस् सन्त्व्,
अनमीवा᳓स् त आ᳓प ओ᳓षधयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।
भु᳓वोऽपाँ᳓ …।
सु᳓वरपां᳓ …।
भू᳓र्भु᳓वस्सु᳓वरपां᳓ …।
तैत्तिरेण माँसेनेत्येके।