जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।
भूर् अ॒पां त्वौष॑धीनाँ॒ रसं॒ प्राश॑यामि।
शि॒वास्त॒ आप॒ ओष॑धयस् सन्त्व्,
अनमी॒वास्त॒ आप॒ ओष॑धयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।
भुवो॒ऽपाँ …।
सुव॑र॒पां …।
भूर्भुव॒स्सुव॑र॒पां …।
तैत्तिरेण माँसेनेत्य् एके २
तैत्तिरेण माँसेनेत्येके।