तैषी+++(=पौष)+++-पक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६
एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च -
काण्डादि+++(-अध्ययन)+++-दूर्वारोपणोदधि-धावनवर्जम् २४
अवगाहः, प्राणायामः
प्राचीमुदीचीं वा सगणो दिशम् उपनिष्क्रम्य
यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः +++(=तीरतृणवत्यः)+++ शङ्खिन्यः, तासाम् अन्तं गत्वा
ऽभिषेकान् कृत्वा
सुरभिमत्या ऽब्लिङ्गाभिर् वारुणीभिर्+++(=“अवते हेड, उदुत्तमम्, इमं मे वरुण, तत्वा यामी"त्य् एताभिः)+++ हिरण्यवर्णाभिः+++(=“हिरण्यवर्णाश् शुचयः पावका” इति चतसृभिः)+++ पावमनीभिर्+++(=“पवमानः सुवर्जन” इत्येतेनानुवाकेन)+++ इति मार्जयित्वा
ऽन्तर्-जल-गतो ऽघ-मर्षणेन+++(=तृचेन “ऋतं च सत्यं च” इत्य् अघमर्षण-दृष्टेन)+++ त्रीन् प्राणायामान् धारयित्वा
उत्तीर्याचम्योपोत्थाय
दर्भान् अन्योन्यस्मै सम्प्रदाय
शुचौ देशे प्राक्-कूलैर् दर्भैर् आसनानि कल्पयन्ति ९
मन्त्राः
+++(pegasus-प्रोष्ठपदासु)+++ दधि-क्रा᳓व्णो अकारिषं
जिष्णो᳓र् अ᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत्
प्र᳓ ण आ᳓यूँषि तारिषत् ।
आपो हि ष्ठा …{Loading}…
आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥
यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥
+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
य᳓स्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++
वारुण्यः …{Loading}…
अ᳓व ते हे᳓ळो+++(←हेड् अवज्ञायां)+++ वरुण न᳓मोभिर्
अ᳓व यज्ञे᳓भिर् ईमहे+++(→नयामः)+++ हवि᳓र्भिः ।
क्ष᳓यन्न्+++(=निवसन्)+++ अस्म᳓भ्यम् असुर प्रचेता
रा᳓जन्न् ए᳓नांसि शिश्रथः+++(=शिथिलीकुरु)+++ कृता᳓नि ॥
उ᳓द् उत्तमं᳓ वरुण पा᳓शम् अस्म᳓द्
अ᳓वाधमं᳓ वि᳓ मध्यमं᳓ श्रथाय
अ᳓था वय᳓म् आदितिय व्रते᳓ त᳓व
अ᳓नागसो अ᳓दितये सियाम
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
हिरण्यवर्णाश् शुचयः …{Loading}…
हि᳓रण्य-वर्णाश् शु᳓चयः पावका᳓
या᳓सु जातः᳓ कश्य᳓पो या᳓स्व् इ᳓न्द्रः ।
अग्नि᳓य्ँ या᳓ ग᳓र्भन् दधिरे᳓, वि᳓रूपास् -
ता᳓स् त आ᳓पश् शँ᳓ स्योना᳓ +++(=सुखा)+++ भवन्तु ।+++(५)+++
या᳓साँ रा᳓जा व᳓रुणो या᳓ति म᳓ध्ये,
सत्यानृते᳓ अवप᳓श्यञ् ज᳓नानाम् ।
मधुश्-चु᳓तश् शु᳓चयो याᳶ᳓ पावका᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।
या᳓सान् देवा᳓ दिवि᳓ कृण्व᳓न्ति भक्षय्ँ᳓ -
या᳓ अन्त᳓रिक्षे बहुधा᳓ भ᳓वन्ति ।
याᳶ᳓ पृथिवी᳓म् प᳓यसोन्द᳓न्ति शुक्रा᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।
शिवे᳓न मा च᳓क्षुषा पश्यतापश् -
शिव᳓या तनु᳓वो᳓प स्पृशत त्व᳓चम् मे ।
स᳓र्वाँ अग्नीँ᳓र् अप्सु-ष᳓दो हुवे वो,
म᳓यि व᳓र्चो ब᳓लम् ओ᳓जो नि᳓ धत्त ।
प᳓वमानस् सु᳓वर्-ज᳓नः ।
पवि᳓त्रेण +++(नाना-विषयेषु)+++ वि᳓चर्षणिः ।
यᳶ᳓ पो᳓ता स᳓ पुनातु मा ।
पुन᳓न्तु मा देवजनाः᳓ ।
पुन᳓न्तु म᳓नवो धिया᳓ ।
पुन᳓न्तु वि᳓श्व आय᳓वः+++(=मनुष्याः)+++ ।
जा᳓तवेदᳶ पवि᳓त्रवत् ।
पवि᳓त्रेण पुनाहि+++(=पुनीहि)+++ मा ।
शुक्रे᳓ण देव दी᳓द्यत् ।
अ᳓ग्ने क्र᳓त्वा+++(=प्रज्ञया)+++ क्र᳓तूँर् अ᳓नु ॥46॥
य᳓त् ते पवि᳓त्रम् अर्चि᳓षि ।
अ᳓ग्ने वि᳓ततम् अन्तरा᳓ ।
ब्र᳓ह्म ते᳓न पुनीमहे ।
उभा᳓भ्यान् देव सवितः ।
पवि᳓त्रेण सवे᳓न च ।
इद᳓म् ब्र᳓ह्म पुनीमहे ।+++(5)+++
वैश्वदेवी᳓ पुनती᳓ देव्य् आ᳓गात्+++(=आगच्छतु)+++ ।
य᳓स्यै बह्वी᳓स् तनु᳓वो वीत᳓-पृष्ठाः+++(=कान्त-स्तुतयः)+++ ।
त᳓या म᳓दन्तस् सध-मा᳓द्येषु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
वयँ᳓ स्याम प᳓तयो रयीणा᳓म् ॥47॥
वैश्वानरो᳓ रश्मि᳓भिर् मा पुनातु ।
वा᳓तᳶ प्राणे᳓नेषिरो᳓+++(←इष गतौ)+++ मयोभूः᳓ ।
द्या᳓वापृथिवी᳓ प᳓यसा प᳓योभिः +++(इति क्रमशः)+++ ।
ऋता᳓वरी+++(=ऋतवत्यौ)+++ यज्ञि᳓ये मा पुनीताम् ।
बृह᳓द्भिस् सवितस् तृ᳓भिः+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
व᳓र्षिष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव म᳓न्मभिः+++(=मननीयैः)+++ ।
अ᳓ग्ने द᳓क्षैᳶ पुनाहि मा ।
ये᳓न देवा᳓ अ᳓पुनत ।
ये᳓ना᳓पो दिव्य᳓ङ् क᳓शः+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
ते᳓न दिव्ये᳓न ब्र᳓ह्मणा ॥48॥
इद᳓म् ब्र᳓ह्म पुनीमहे ।
यᳶ᳓ पावमानी᳓र् अध्ये᳓ति ।
ऋ᳓षिभिस् स᳓म्भृतँ र᳓सम् ।
स᳓र्वँ स᳓ पूत᳓म् अश्ञाति ।
स्वदित᳓म्+++(=स्वादुकृतं)+++ मातरि᳓श्वना+++(=वायुना)+++ ।
पावमानी᳓र् यो᳓ अध्ये᳓ति ।
ऋ᳓षिभिस् स᳓म्भृतँ र᳓सम् ।
त᳓स्मै स᳓रस्वती दुहे ।
क्षीरँ᳓ सर्पि᳓र् म᳓धूदक᳓म् ।
पावमानी᳓स् स्वस्त्य्-अ᳓यनीः ॥49॥
सु-दु᳓घा हि᳓ प᳓यस्वतीः ।
ऋ᳓षिभिस् स᳓म्भृतो र᳓सः ।
ब्राह्मणे᳓ष्व् अमृ᳓तँ हित᳓म् ।
पावमानी᳓र् दिशन्तु नः ।
इमल्ँ᳓ लोक᳓म् अ᳓थो अमु᳓म् ।
का᳓मान्त् स᳓मर्धयन्तु नः ।
देवी᳓र् देवै᳓स् समा᳓भृताः ।
पावमानी᳓स् स्वस्त्य्-अ᳓यनीः ।
सु-दु᳓घा हि᳓ घृतश्-चु᳓तः+++(=क्षारयित्र्यः)+++ ।
ऋ᳓षिभिस् स᳓म्भृतो र᳓सः ॥50॥
ब्राह्मणे᳓ष्व् अमृ᳓तँ हित᳓म् ।
ये᳓न देवाᳶ᳓ पवि᳓त्रेण ।
आत्मा᳓नम् पुन᳓ते स᳓दा ।
ते᳓न सह᳓स्र-धारेण ।
पावमान्यᳶ᳓ पुनन्तु मा ।
प्राजापत्य᳓म् पवि᳓त्रम् ।
शतो᳓द्यामँ हिरण्म᳓यम् ।
ते᳓न ब्रह्म-वि᳓दो वय᳓म् ।
पूत᳓म् +++(यथा तथा स्वीयम्)+++ ब्र᳓ह्म पुनीमहे ।
इ᳓न्द्रस् सुनीती᳓+++(त्या)+++ सह᳓ मा पुनातु ।
सो᳓मस् स्वस्त्या᳓ व᳓रुणस् समी᳓च्या+++(=सम्यगञ्चनया)+++ ।
यमो᳓ रा᳓जा प्रमृणा᳓भिᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जात᳓वेदा मा+ऊर्ज᳓यन्त्या पुनातु ॥51॥
विस्तारः (द्रष्टुं नोद्यम्)
जले निमज्जने विनियोग आपस्तम्बगृह्यसूत्र उक्तः।
ऋतं᳓ च सत्यं᳓ चाभी᳙द्धात्
त᳓पसो᳓ ऽध्यजायत ।
त᳓तो रा᳓त्रिर् +++(रात्र्य् इति शाकले)+++ अजायत
त᳓तः समुद्रो᳓ अर्णवः᳓+++(←अर्णः = जलम्)+++ ॥
समुद्रा᳓द् अर्णवा᳓द्+++(←अर्णः = जलम्)+++ अ᳓धि
संवत्सरो᳓ अजायत ।
अहो-रात्रा᳓णि विद᳓धद्
वि᳓श्वस्य +++(नेत्राभ्यां)+++ मिषतो᳓ +++(प्राणिजातस्य)+++ वशी᳓ +++(प्रजापतिर् demiurge)+++॥
सूर्या-चन्द्रम᳓सौ धाता᳓
यथा-पूर्व᳓म् अकल्पयत् ।
दि᳓वं च पृथिवीं᳓ चान्त᳓रिक्षम् अ᳓थो स्वः᳙+++(=लोक-विशेषम्)+++ ॥
ब्रह्मणे, प्रजा-पतये, बृहस्-पतये,
ऽग्नये, वायवे, सूर्याय,
चन्द्रमसे, नक्षत्रेभ्यः,
ऋतुभ्यस्, संवत्सराय,
इन्द्राय राज्ञे, सोमाय राज्ञे, यमाय राज्ञे, वरुणाय राज्ञे, वैश्रवणाय राज्ञे,
वसुभ्यो, रुद्रेभ्य, आदित्येभ्यो,
विश्वेभ्यो देवेभ्यस्, साध्येभ्यो,
मरुद्भ्य, ऋभुभ्यो,
भृगुभ्यो, ऽङ्गिरोभ्य, +++(कल्पयामि)+++ इति +++(२४)+++ देवगणानाम् +++(स्थापन-क्रमेण +उदग्-अपवर्गाण्य् आसनानि दर्भैः प्रागग्रैः कल्पयति।)+++ १०
अथर्षयः -
विश्वामित्रो जमदग्निर् भरद्वाजो गौतमो ऽत्रिर् वसिष्ठः +++(अरुन्धत्याः कल्पान्तर-दर्शनात्)+++ कश्यप इत्य् एते सप्तर्षयः।
सप्तर्षिभ्यः +++(देवानाम् उत्तरत आसनानि दर्भैः)+++ कल्पयित्वा, दक्षिणतो +++(प्राचीन-प्रवणे)+++ ऽगस्त्याय कल्पयन्ति ११
+++(निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि)+++
ततो यावद् +++(सप्तर्षिभिः)+++ एक-वैद्य्-अन्तैः कल्पयन्ति १२
प्राचीनावीतानि कृत्वा
+++(देवानाम् अगस्त्यस्य च दक्षिणा-प्रवणदेशे दक्षिणाग्रैः प्रत्यग्-अपवर्गम्)+++ दक्षिणतो
वैशम्पायनाय, पैङ्गये, तित्तिरये, उखाय,
आत्रेयाय पदकाराय, कौण्डिन्याय वृत्तिकाराय,
बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय,
आचार्येभ्य ऊर्ध्व-रेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः
कल्पयामीति +++(दर्भैर् आसनानि कल्पयति)+++ ॥ १३
अथ यथास्वं +++(=जीवपितृकत्वं परिगणय्य)+++ पितृभ्यः कल्पयन्ति
मातामहेभ्यश् च पृथक् १४
तर्पणम्
यज्ञोपवीतानि कृत्वा
तेष्व् एव देशेषु, तथैवानुपूर्व्या, तैर् एव नामभिर्,
देवान् ऋषींश् च तर्पयन्ति।
वैशम्पायन-प्रभृतींस् तु मातुः प्रपितामह-पर्यन्तान् प्राचीनावीतिनस् तर्पयन्ति।
“अमुं तर्पयाम्य्, अमुं तर्पयाम्य्, अमुं तर्पयामी"ति १५
अध्ययनम्
यज्ञोपवीतानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् १७
काण्डादीन्प्रथमोत्तमौ वा १८
दूर्वारोपणम्, अवगाहः, धावनम्, समापनम्
“काण्डात् काण्डात् प्ररोहन्ती"ति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
काण्डा॑त्-काण्डात् प्र॒रोह॑न्ती॒
परु॑षᳶपरुष॒ᳶ+++(=पर्वणः पर्वणः)+++ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु
स॒हस्रे॑ण श॒तेन॑ च ।
अपः प्रगाह्योदधिं कुर्वन्ति +++(=क्षोभयन्ति)+++ २०
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति २१
उद्गाह्य +आतमितोर् +++(=श्रमं यावत्)+++ आजिं +++(प्राचीमुदीचीं वा)+++ धावन्ति २२
प्रत्येत्य
+अभिदानानि+++(=??)+++ सक्तुभिर् ओदनेनेति
ब्राह्मणान् भोजयित्वा वाचयति २३
+++(पारायण-समाप्तौ)+++ प्रत्येत्य ब्राह्मण-भोजनादि कर्म प्रतिपद्यते २५