तैषी+++(=पौष)+++-पक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६
एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च -
काण्डादि+++(-अध्ययन)+++-दूर्वारोपणोदधि-धावनवर्जम् २४
अवगाहः, प्राणायामः
प्राचीमुदीचीं वा सगणो दिशम् उपनिष्क्रम्य
यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः +++(=तीरतृणवत्यः)+++ शङ्खिन्यः, तासाम् अन्तं गत्वा
ऽभिषेकान् कृत्वा
सुरभिमत्या ऽब्लिङ्गाभिर् वारुणीभिर्+++(=“अवते हेड, उदुत्तमम्, इमं मे वरुण, तत्वा यामी"त्य् एताभिः)+++ हिरण्यवर्णाभिः+++(=“हिरण्यवर्णाश् शुचयः पावका” इति चतसृभिः)+++ पावमनीभिर्+++(=“पवमानः सुवर्जन” इत्येतेनानुवाकेन)+++ इति मार्जयित्वा
ऽन्तर्-जल-गतो ऽघ-मर्षणेन+++(=तृचेन “ऋतं च सत्यं च” इत्य् अघमर्षण-दृष्टेन)+++ त्रीन् प्राणायामान् धारयित्वा
उत्तीर्याचम्योपोत्थाय
दर्भान् अन्योन्यस्मै सम्प्रदाय
शुचौ देशे प्राक्-कूलैर् दर्भैर् आसनानि कल्पयन्ति ९
मन्त्राः
######## ०६ दधिक्राव्णो अकारिषं …{Loading}…
+++(pegasus-प्रोष्ठपदासु)+++ दधि-क्रा᳓व्णो अकारिषं
जिष्णो᳓र् अ᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत्
प्र᳓ ण आ᳓यूँषि तारिषत् ।
######## आपो हि ष्ठा …{Loading}…
आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥
यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥
+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
यस्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++
######## वारुण्यः …{Loading}…
अ᳓व ते हे᳓ळो+++(←हेड् अवज्ञायां)+++ वरुण न᳓मोभिर्
अ᳓व यज्ञे᳓भिर् ईमहे+++(→नयामः)+++ हवि᳓र्भिः ।
क्ष᳓यन्न्+++(=निवसन्)+++ अस्म᳓भ्यम् असुर प्रचेता
रा᳓जन्न् ए᳓नांसि शिश्रथः+++(=शिथिलीकुरु)+++ कृता᳓नि ॥
उ᳓द् उत्तमं᳓ वरुण पा᳓शम् अस्म᳓द्
अ᳓वाधमं᳓ वि᳓ मध्यमं᳓ श्रथाय
अ᳓था वय᳓म् आदितिय व्रते᳓ त᳓व
अ᳓नागसो अ᳓दितये सियाम
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
######## हिरण्यवर्णाश् शुचयः …{Loading}…
हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
यासा॑न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँ -
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाँ॑ अ॒ग्नीँर् अ॑प्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त ।
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतूँ॒र् अनु॑ ॥46॥
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा॑त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम् ।
बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम् अ॑श्ञाति ।
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर् मधू॑द॒कम् ।
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्त् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ।
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
प्रा॒जा॒प॒त्यम् प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे ।
इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥
विस्तारः (द्रष्टुं नोद्यम्)
जले निमज्जने विनियोग आपस्तम्बगृह्यसूत्र उक्तः।
ऋतं᳓ च सत्यं᳓ चाभी᳙द्धात्
त᳓पसो᳓ ऽध्यजायत ।
त᳓तो रा᳓त्रिर् +++(रात्र्य् इति शाकले)+++ अजायत
त᳓तः समुद्रो᳓ अर्णवः᳓+++(←अर्णः = जलम्)+++ ॥
समुद्रा᳓द् अर्णवा᳓द्+++(←अर्णः = जलम्)+++ अ᳓धि
संवत्सरो᳓ अजायत ।
अहो-रात्रा᳓णि विद᳓धद्
वि᳓श्वस्य +++(नेत्राभ्यां)+++ मिषतो᳓ +++(प्राणिजातस्य)+++ वशी᳓ +++(प्रजापतिर् demiurge)+++॥
सूर्या-चन्द्रम᳓सौ धाता᳓
यथा-पूर्व᳓म् अकल्पयत् ।
दि᳓वं च पृथिवीं᳓ चान्त᳓रिक्षम् अ᳓थो स्वः᳙+++(=लोक-विशेषम्)+++ ॥
ब्रह्मणे, प्रजा-पतये, बृहस्-पतये,
ऽग्नये, वायवे, सूर्याय,
चन्द्रमसे, नक्षत्रेभ्यः,
ऋतुभ्यस्, संवत्सराय,
इन्द्राय राज्ञे, सोमाय राज्ञे, यमाय राज्ञे, वरुणाय राज्ञे, वैश्रवणाय राज्ञे,
वसुभ्यो, रुद्रेभ्य, आदित्येभ्यो,
विश्वेभ्यो देवेभ्यस्, साध्येभ्यो,
मरुद्भ्य, ऋभुभ्यो,
भृगुभ्यो, ऽङ्गिरोभ्य, +++(कल्पयामि)+++ इति +++(२४)+++ देवगणानाम् +++(स्थापन-क्रमेण +उदग्-अपवर्गाण्य् आसनानि दर्भैः प्रागग्रैः कल्पयति।)+++ १०
अथर्षयः -
विश्वामित्रो जमदग्निर् भरद्वाजो गौतमो ऽत्रिर् वसिष्ठः +++(अरुन्धत्याः कल्पान्तर-दर्शनात्)+++ कश्यप इत्य् एते सप्तर्षयः।
सप्तर्षिभ्यः +++(देवानाम् उत्तरत आसनानि दर्भैः)+++ कल्पयित्वा, दक्षिणतो +++(प्राचीन-प्रवणे)+++ ऽगस्त्याय कल्पयन्ति ११
+++(निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि)+++
ततो यावद् +++(सप्तर्षिभिः)+++ एक-वैद्य्-अन्तैः कल्पयन्ति १२
विश्वास-टिप्पनी
हिरन्यकेश्यनुसारेण -
- कृष्ण-द्वैपायनाय जीतू-कर्ण्याय तरुक्षाय तृणी-बिन्दवे
- वर्मिणे वरूथिने वाजिने
- वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे
- सोमशुष्मायणाय सत्ववते
- बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय
- गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय
- बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय
- विष्णवे रुद्राय स्कन्दाय काशीश्वराय श्वराय
- धर्मायार्थाय कामाय क्रोधाय
- वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे
- सवित्रे सावित्र्यै
- वेदेभ्यश्च पृथक्
- पृथग् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६
प्राचीनावीतानि कृत्वा
+++(देवानाम् अगस्त्यस्य च दक्षिणा-प्रवणदेशे दक्षिणाग्रैः प्रत्यग्-अपवर्गम्)+++ दक्षिणतो
वैशम्पायनाय, पैङ्गये, तित्तिरये, उखाय,
आत्रेयाय पदकाराय, कौण्डिन्याय वृत्तिकाराय,
बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय,
आचार्येभ्य ऊर्ध्व-रेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः
कल्पयामीति +++(दर्भैर् आसनानि कल्पयति)+++ ॥ १३
अथ यथास्वं +++(=जीवपितृकत्वं परिगणय्य)+++ पितृभ्यः कल्पयन्ति
मातामहेभ्यश् च पृथक् १४
तर्पणम्
यज्ञोपवीतानि कृत्वा
तेष्व् एव देशेषु, तथैवानुपूर्व्या, तैर् एव नामभिर्,
देवान् ऋषींश् च तर्पयन्ति।
वैशम्पायन-प्रभृतींस् तु मातुः प्रपितामह-पर्यन्तान् प्राचीनावीतिनस् तर्पयन्ति।
“अमुं तर्पयाम्य्, अमुं तर्पयाम्य्, अमुं तर्पयामी"ति १५
अध्ययनम्
यज्ञोपवीतानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् १७
काण्डादीन्प्रथमोत्तमौ वा १८
दूर्वारोपणम्, अवगाहः, धावनम्, समापनम्
“काण्डात् काण्डात् प्ररोहन्ती"ति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
काण्डा॑त्-काण्डात् प्र॒रोह॑न्ती॒
परु॑षᳶपरुष॒ᳶ+++(=पर्वणः पर्वणः)+++ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु
स॒हस्रे॑ण श॒तेन॑ च ।
अपः प्रगाह्योदधिं कुर्वन्ति +++(=क्षोभयन्ति)+++ २०
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति २१
उद्गाह्य +आतमितोर् +++(=श्रमं यावत्)+++ आजिं +++(प्राचीमुदीचीं वा)+++ धावन्ति २२
प्रत्येत्य
+अभिदानानि+++(=??)+++ सक्तुभिर् ओदनेनेति
ब्राह्मणान् भोजयित्वा वाचयति २३
+++(पारायण-समाप्तौ)+++ प्रत्येत्य ब्राह्मण-भोजनादि कर्म प्रतिपद्यते २५