विवाहे समावेशनम् पृथग् उक्तम्। रजसः प्रादुर्भावात्स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत +++(=ऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिः)+++ १३ चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति १