०१ या त ...{Loading}...
या त॑ ए॒षा र॑रा॒ट्या॑+++(=ललाट्या)+++ त॒नूर्
म॒न्योर् मृ॒ध्रस्य॒+++(=मृदुत्वस्य)+++ नाशि॑नी ।
तान् दे॒वा ब्र॑ह्मचा॒रिणो॒
विन॑यन्तु सुमे॒धसः॑ ।+++(५)+++
०१ या त ...{Loading}...
मूलम्
या त॑ ए॒षा र॑रा॒ट्या॑ त॒नूर्म॒न्योर्मृ॒द्ध्रस्य॒ नाशि॑नी ।
तान्दे॒वा ब्र॑ह्मचा॒रिणो॒ विन॑यन्तु सुमे॒धसः॑ ।
हरदत्तः
यस्य क्रोधमपनेतुकामः तमुत्तराभ्यामभिमन्त्रयते - या त इति ॥ या ते एषा रराट्या ललाटे भवा मन्योः तनूः क्रोधस्य वेषः भ्रुकुट्यादिः क्रुध्रस्य । मृदुनामैतत्, भावप्रधानं च ॥ मृदुत्वस्य नासिनी क्रुद्धो हि मृदुत्वं जहाति । तां मन्योस्तनूं देवाः ब्रह्मचारिणः ब्रह्मणि मन्त्रे प्रतिपाद्यत्वेन चरन्तः विनयन्तु अपनयन्तु सुमेधसः सुप्रज्ञाः ॥
०२ यत्त एतन्मुखेऽमतम् ...{Loading}...
यत् त॑ ए॒तन् मुखे॑ ऽम॒तꣳ
र॒राट॒म्+++(=ललाटम्)+++ उद् इ॑व॒ विध्य॑ति ।
वि ते॒ क्रोध॑न् नयामसि॒
गर्भ॑म् अश्वत॒र्या इ॑व ।+++(५)+++
०२ यत्त एतन्मुखेऽमतम् ...{Loading}...
मूलम्
यत्त॑ ए॒तन्मुखे॑ऽम॒तꣳ र॒राट॒मुदि॑व॒ विद्ध्य॑ति ।
वि ते॒ क्रोध॑न्नयामसि॒ गर्भ॑मश्वत॒र्या इ॑व ।
हरदत्तः
यत्त इति ॥ यदेतत् ते तव मुखे अमतं सतामसंमतं रराट मुद्विध्यतीव, क्रुद्धस्य यद्भुवोस्स्पन्दनं ललाटे नाडीनां च स्फुरणं तदभिप्रायमेतत् । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । तं ते क्रोधं विनयामसि विनयामः गर्भमश्वतर्या इव अश्वतरीणां गर्भग्रहणं मरणहेतुः । अतो विनेतव्यस्स भवति ॥
०३ अवज्यामिव धन्वनो ...{Loading}...
अव॑ज्याम् इव॒ धन्व॑नो
हृ॒दो म॒न्युं त॑नोमि ते ।
इन्द्राऽपा॑स्य+++(=अपनय)+++ फलि॒गम्+++(=उपस्थेन्द्रियं)+++ अ॒न्येभ्यः॒
पुरु॑षेभ्यो॒ ऽन्यत्र॒ मत् ।+++(५)+++
०३ अवज्यामिव धन्वनो ...{Loading}...
मूलम्
अव॑ज्यामिव॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते ।
इन्द्रापा॑स्य फलि॒गम॒न्येभ्यः॒ पुरु॑षेभ्यो॒ऽन्यत्र॒ मत् ।
हरदत्तः
असम्भवेप्सुः परेषां स्थूलाडारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्संबाध उपवहेत् - अव ज्यामिवेति ॥ हे स्त्रि । ते तव हृदो हृदयात् मन्युं मन्युशब्देनात्र चित्तविकारत्वसाम्यात्कामो लक्ष्यते । कामं परपुरुषविषयं अवतनोमि अवततं करोमि अपनयामि ज्वामिव धन्वनः यथा धनुः कार्यायोग्यं चिकीर्षन्तोऽवततज्यं कुर्वन्ति तद्वत् । हे इन्द्र । त्वमपि अस्याः पलिगं उपस्थेन्द्रियं अन्येभ्यः पुरुषेभ्यः अपास्य अपनय- यथा ते न प्रविशन्ति तथा कुरु । कुतोऽन्येभ्य इत्यपेक्षायामुच्यते - अन्यत्र मत् । पञ्चम्यन्तात् त्रल् । मत्तोऽन्येभ्यः ॥
०४ यदहन् धनेन ...{Loading}...
यद् अ॒हं धने॑न॒ प्रप॒ण२ꣳश् च॑रामि॒
धने॑न देवा॒ धन॑म् इ॒च्छमा॑नः ।+++(५)+++
तस्मि॒न्त् सोमो॒ रुच॒म् आ द॑धात्व्
अ॒ग्निर् इन्द्रो॒ बृह॒स्पति॑श् च॒ स्वाहा॑ ।+++(र५)+++
०४ यदहन् धनेन ...{Loading}...
मूलम्
यद॒हं धने॑न॒ प्रप॒ण२ꣳश्च॑रामि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः ।
तस्मि॒न्त्सोमो॒ रुच॒मा द॑धात्व॒ग्निरिन्द्रो॒ बृह॒स्पति॑श्च॒ स्वाहा॑ ।
हरदत्तः
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया जुहुयात् यदहमिति ॥ हे देवाः धनेन धनं मूल्यभूतं इच्छमानोऽहं यत् । तृतीया वा लुक् । येन धनेन प्रपणन् व्यवहरन् चरामि । तस्मिन् पण्ये सोमो रुचमादधातु अग्न्यादयश्च, यथा तत् क्षिप्रं विक्रीतं भवति ॥
०५ परि त्वा ...{Loading}...
परि॑ त्वा॒ गिरे॑र् अमि॒हं+++(←मिह सेचने)+++
परि॒ भ्रातुः॒ परि॒ष्+++(स्)+++वसुः॑ ।
परि॒ सर्वे॑भ्यो ज्ञा॒तिभ्यः॒
परि॑-षीतः॒+++(=बद्धः)+++ क्वे॑ष्यसि॑ ।
०५ परि त्वा ...{Loading}...
मूलम्
परि॑ त्वा॒ गिरे॑रमि॒हं परि॒ भ्रातुः॒ परि॒ष्वसुः॑ ।
परि॒ सर्वे॑भ्यो ज्ञा॒तिभ्यः॒ परि॑षीतः॒ क्वे॑ष्यसि॑ ।
हरदत्तः
यं कामयेत नायं अविच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत् - परि त्वेति ॥ हे भृत्य । त्वा त्वां अहं पर्यमिहम् । मिह सेचने । मूत्रेण परिषिञ्चामि गिरेः पञ्चमीश्रुतेरर्वागिति । गम्यते । गिरेरर्वाक् । गिरिग्रहणं देशान्तरोपलक्षणम् । तव देशान्तरप्राप्तेरर्वागित्यर्थः । एवं परिभ्रातुः परिष्वसुः परिसर्वेभ्यो ज्ञातिभ्यः भ्रात्रादि समीपगमनादर्वागित्यर्थः । एवं मया परिषीतः । छान्दसं दीर्घत्वम् । परिषितः मूत्रेण परितो बद्धः त्वं क्व एष्यसि छान्दसं पररूपत्वम् । न त्वया क्वापि गन्तुं शक्यमित्यर्थः ॥
०६ शश्वत्परिकुपितेन सङ्क्रामेणाविच्छिदा ...{Loading}...
शश्व॒त् परि॑-कुपितेन॒
संक्रा॑मेणाऽवि॒च्छिदा॑ ।
उ॒लेन॒+++(=स्थूलेन)+++ परि॑-षीतो+++(=बद्धो)+++ ऽसि॒
परि॑षीतोऽस्य् उ॒लेन॑ ।
०६ शश्वत्परिकुपितेन सङ्क्रामेणाविच्छिदा ...{Loading}...
मूलम्
शश्व॒त्परि॑कुपितेन॒ संक्रा॑मेणावि॒च्छिदा॑ ।
उ॒लेन॒ परि॑षीतोऽसि॒ परि॑षीतोऽस्यु॒लेन॑ ।
हरदत्तः
शश्वदिति ॥ शश्वत् दीर्घकालं परिषीतोऽसीत्यनेन सम्बन्धः । परिकुपितेन तवापसरणशङ्कया परिकुपितेन मया संक्रामेण भूमौ संक्रान्तेन अविच्छिदा अविच्छिन्नेन उलेन उलाः स्थूलाः पिपीलिकाः जातावेकवचनम् । उलानां पङ्क्तिसदृशेन मूत्रेण परिषीतोसि परितो बद्धोऽसि परिषीतोऽस्युलेन । दृढार्थं पुनर्वचनम् ॥
०७-०८ आवर्तन वर्तयेत्येषा ...{Loading}...
आ व॑र्तन वर्तय॒ नि
नि॑वर्तन वर्त॒येन्द्र॑ नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भूम्या॒श् चत॑स्रᳶ प्र॒दिश॒स्
ताभि॒रा व॑र्तया॒ पुनः॑ ।+++(५)+++
आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ ।
०७-०८ आवर्तन वर्तयेत्येषा ...{Loading}...
मूलम्
आव॑र्तन वर्त॒येत्ये॒षा ।
आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ ।
हरदत्तः
येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युप समाधायोत्तरा आहुतीर्जुहुयात् - आवर्तनेति ॥ प्रत्यागमनमावृत्तिः गम नादुपरतिर्निवृत्तिः । आवर्तयतीति आवर्तनः । निवर्तयतीति निवर्तनः आङ आख्यातेन सम्बन्धः अन्य आङध्याहर्तव्यः हे आवर्तन । आवर्तय मदीयान् भृत्यान् । हे निवर्तन । निवर्तय तानेव । हे इन्द्र । नर्दबुद नर्द इति शब्दार्थः बुद इति शरनाम आबुन्दं वृत्रहाददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्साधुर्बुन्दो हिरण्मयः इति दर्शनात् शब्दितशर प्रसिद्धशर इत्यर्थः । भूम्याः सम्बन्धिन्यः चतस्रः प्रदिशः प्रधानदिशः प्राच्याद्याः ताभिः । विभक्तिव्यत्ययः । ताभ्यः पुनरावर्तय । येन पथा आवर्तते स आवर्तनः । यस्मिन्नेव निवर्तते स निवर्तनः । तत्र आवर्तनाय निवर्तनाय च देवाय स्वाहा ॥
०९ अनुपोऽह्वदनुह्वयो निवर्तो ...{Loading}...
अनु॑ पो+++(=वो)+++ ऽह्व॒द् अनु॑ह्वयो॒+++(=अनुह्वाता)+++
निव॑र्तो वो॒ न्यवी॑वृतत् ।
ऐ॒न्द्रः परि॑क्रोशो वः॒
परि॑क्रोशतु स॒र्वतः॑ ।+++(र४)+++
०९ अनुपोऽह्वदनुह्वयो निवर्तो ...{Loading}...
मूलम्
अनु॑पोऽह्व॒दनु॑ह्वयो॒ निव॑र्तो वो॒ न्यवी॑वृतत् ।
ऐ॒न्द्रः परि॑क्रोशो वः॒ परि॑क्रोशतु स॒र्वतः॑ ।
हरदत्तः
अनु पोऽह्वदिति ॥ पः युष्मदादेशस्य वसो वकारस्य छान्दसः पकारः । वः युष्मान अन्वह्वत् अनुह्वयतु पृष्ठतः स्थित्वा आगच्छतेति ब्रवीतु प्रतिकूलं हि तद्गमने अनुह्वयः अनुह्वाता पुरुषः निवर्तयतीति निवर्तः सोपि पः वः न्यवीवृतत् निवर्तयतु । ऐन्द्रः इन्द्रसम्बन्धी देवकृत इत्यर्थः परिक्रोशः निषेधशब्दः गच्छतां प्रति कूलशब्दः वः युष्मान् सर्वतः परिक्रोशतु निषेधतु ॥
१० यदि मामति ...{Loading}...
यदि॒ माम् अति॒ मन्या॑ध्वा॒+++(ध्वै)+++
अदे॒वा दे॒वव॑त्-तरम् ।
इन्द्रः॒ पाशे॑न सि॒क्त्वावो॒+++(←षिञ् बन्धने)+++
मह्य॒म् इद् वश॒म् आ न॑या॒त्
स्वाहा॑ ।
१० यदि मामति ...{Loading}...
मूलम्
यदि॒ मामति॒ मन्या॑द्ध्वा॒ अदे॒वा दे॒वव॑त्तरम् ।
इन्द्रः॒ पाशे॑न सि॒क्त्वावो॒ मह्य॒मिद्वश॒मा न॑या॒त्स्वाहा॑ ।
हरदत्तः
यदीति ॥ यदि यूयं मामति मन्याध्वै अतिक्रम्य मन्यध्वं अदेवाः देवरहिताः देववत्तरं अतिशयेत देवयन्तं मां यद्यतिमन्यध्वं तदा इन्द्रः पाशेन वः युष्मान् सिक्त्वा । षिञ् बन्धने । ककार उपजनः सित्वा बद्ध्वा मह्यमित ममैव वशं आनयतु ॥
११ यदि वृक्षाद्यद्यन्तरिक्षात्फलमभ्यपतत्तदु ...{Loading}...
यदि॑ वृ॒क्षाद् यद्य् अ॒न्तरि॑क्षा॒त्
फल॑म् अ॒भ्यप॑त॒त् तद् उ॑ वा॒युर् ए॒व ।
यत्रास्पृ॑क्षत् त॒नुवं॒ यत्र॒ वास॒
आपो॑ बाधन्तां॒ निर्ऋ॑तिं परा॒चैः+++(=पराङ्मुखीं)+++ ।
११ यदि वृक्षाद्यद्यन्तरिक्षात्फलमभ्यपतत्तदु ...{Loading}...
मूलम्
यदि॑ वृ॒क्षाद्यद्य॒न्तरि॑क्षा॒त्फल॑म॒भ्यप॑त॒त्तदु॑ वा॒युरे॒व ।
यत्रास्पृ॑क्षत्त॒नुवं॒ यत्र॒ वास॒ आपो॑ बाधन्तां॒ निर्ऋ॑तिं परा॒चैः ।
हरदत्तः
यद्येनं वृक्षात् फलमभिनिपतेत् तदङ्गं प्रक्षाळयीत - यदीति ॥ यदि वृक्षात् यदि वाऽन्तरिक्षात् फलमभ्यपतत् ममोपरि, तत् वायुरेव । उकारोऽनर्थकः । वायुवशेनैव तदापन्नं न दुर्निमित्तमित्यर्थः । तच्च फलं यत्र प्रदेशे मम तनुवं शरीरं अस्पृशत् वासः वस्रं वा यत्रास्पृशत् । यच्छब्दश्रवणात् तच्छब्दोऽध्याहार्यः । ततः प्रदेशात् निर्ऋतिं तन्निमित्तां कृच्छ्रापत्तिं पराचैः पराङ्मुखीं आपः प्रक्षालनसाधनभूताः बाधन्तां अपनुदन्ताम् ॥
१२ ये पक्षिणः ...{Loading}...
ये प॒क्षिणः॑ प॒तय॑न्ति॒
बिभ्य॑तो॒ निर्ऋ॑तैस् स॒ह ।
ते मा॑ शि॒वेन॑ श॒ग्मेन॒+++(=सुखेन)+++
तेज॑सोन्दन्तु॒+++(=क्लेदयन्तु)+++ वर्च॑सा ।
१२ ये पक्षिणः ...{Loading}...
मूलम्
ये प॒क्षिणः॑ प॒तय॑न्ति॒ बिभ्य॑तो॒ निर्ऋ॑तैस्स॒ह ।
ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सोन्दन्तु॒ वर्च॑सा ।
हरदत्तः
वयो वाऽभिविक्षिपेत् - य इति ॥ ये विभक्तिव्यत्वयः । यत्र प्रदेशे पक्षिणः पतयन्ति पतन्ति बिभ्यतो मा ममोपरि निर्ऋतैः अमङ्गलैः सह । ते तं प्रदेशं शिवेन शान्तेन शग्मेन सुखेन तेज सोन्दन्तु क्लेदयन्तु वर्चसा च इमा आपः ॥
१३ दिवो नु ...{Loading}...
दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद्
अ॒पाꣳ स्तोको॑ अ॒भ्यप॑तच् छि॒वेन॑ ।
सम् अ॒हम् इ॑न्द्रि॒येण॒ मन॑सा॒ समागां॒
ब्रह्म॑णा+++(=मन्त्रेण)+++ संपृञ्चा॒नस् सु॒कृता॑ कृ॒तेन॑+++(=प्रयुक्तेन)+++ ।+++(र४)+++
१३ दिवो नु ...{Loading}...
मूलम्
दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद॒पाꣳ स्तोको॑ अ॒भ्यप॑तच्छि॒वेन॑ ।
सम॒हमि॑न्द्रि॒येण॒ मन॑सा॒ समागां॒ ब्रह्म॑णा संपृञ्चा॒नस्सु॒कृता॑ कृ॒तेन॑ ।
हरदत्तः
अवर्ष।तर्के वा बिन्दुरभिनिपतेत् - दिवो न्विति ॥ दिवो वा बृहतोऽन्तरिक्षाद्वा अयं अपां स्तोको बिन्दुः मां अभ्यपतत् ममोपरि पतितः, तत्र शिवेत अहमिन्द्रियेण मनसा च समागां संङ्गच्छेयं एतन्निबन्धनं दुर्निमित्तं इन्द्रियाणां बुद्धेर्मा भूत् । ब्रह्मणा मन्त्रेण संपृचानः आद्भिरात्मानं संसृजन् सुकृता सुष्ठु कार्ये करोतीति सुकृत् तेन ब्रह्मणा कृतेन मया प्रयुक्तेन ॥
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
इम꣡म् मे वरुण श्रुधी
ह꣡वम् अद्या꣡ च मॄळय+
तुवा꣡म् अवस्यु꣡र् आ꣡ चके
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
me ← ahám (pronoun)
{case:DAT, number:SG}
śrudhi ← √śru- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
adyá ← adyá (invariable)
{}
ca ← ca (invariable)
{}
hávam ← háva- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥ḷaya ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
avasyúḥ ← avasyú- (nominal stem)
{case:NOM, gender:M, number:SG}
cake ← √kā- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:MED}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
पद-पाठः
इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।
त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥
Hellwig Grammar
- imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- me ← mad
- [noun], genitive, singular
- “I; mine.”
- varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- śrudhī ← śru
- [verb], singular, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
- adyā ← adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- mṛḍaya ← mṛḍay ← √mṛḍ
- [verb], singular, Present imperative
- “pardon.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- avasyur ← avasyuḥ ← avasyu
- [noun], nominative, singular, masculine
- “seeking protection; helpless.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- cake ← kan
- [verb], singular, Perfect indicative
- “like; delight; desire.”
सायण-भाष्यम्
हे वरुण मे मदीयम् इमं हवम् आह्वानं श्रुधि ऋणु । किं च अद्य अस्मिन् दिने मृळय अस्मान् सुखय । अवस्युः रक्षणेच्छुः अहं त्वां वरुणम् आभिमुख्येन चके शब्दयामि स्तौमीत्यर्थः ॥ श्रुधि । ‘श्रु श्रवणे ‘। लोटो हिः । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ’ इति हेर्धिरादेशः । ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । अन्येषामपि दृश्यते ’ इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात् ‘सुप आत्मनः क्यच् । ‘क्याच्छन्दसि’ इति उप्रत्ययः । आ चके । ‘कै गै शब्दे ’ । अस्मात् लिटि ‘आदेचः’ (पा. सू. ६. १. ४५ ) इति आत्वम् । द्विर्भावचुत्वे । ‘आतो लोप इटि च । ( पा. सू. ६. ४. ६४ ) इति आकारलोपः। ‘तिङ्ङतिङः’ इति निघातः ॥
हरदत्तः
इमं मे वरुण इति ॥ हे वरुण । इमं मे हवं आह्वानं श्रुधि शृणु । श्रुत्वा च अद्या च अद्यैव मृडय सुखय यस्मात् त्वां अहं अवस्युः पालनकाम आचके आगायामि स्तुवे ॥
Wilson
English translation:
“Hear, Varuṇa, this my invocation; make us this day happy; I have appealed to you, hoping for protection.”
Jamison Brereton
Now hear my call, Varuṇa, and today have mercy.
It is you whom I desire, seeking help.
Griffith
Varuna, hear this call of mine: be gracious unto us this day
Longing for help I cried to thee.
Geldner
Erhör, o Varuna, diesen Ruf von mir und sei heut barmherzig! Nach dir verlange ich hilfesuchend.
Grassmann
O höre heute meinen Ruf und sei mir gnädig, Varuna; Schutzsuchend sehn’ ich mich nach dir.
Elizarenkova
Услышь, о Варуна, этот зов мой
И будь милостив сегодня!
К тебе я стремлюсь в поисках помощи.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) सब से उत्तम विपश्चित् ! (अद्य) आज (अवस्युः) अपनी रक्षा वा विज्ञान को चाहता हुआ मैं (त्वाम्) आपकी (आ चके) अच्छी प्रकार प्रशंसा करता हूँ, आप (मे) मेरी की हुई (हवम्) ग्रहण करने योग्य स्तुति को (श्रुधि) श्रवण कीजिये तथा मुझको (मृळय) विद्यादान से सुख दीजिये॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे परमात्मा जो उपासकों द्वारा निश्चय करके सत्य भाव और प्रेम के साथ की हुई स्तुतियों को अपने सर्वज्ञपन से यथावत् सुन कर उनके अनुकूल स्तुति करनेवालों को सुख देता है, वैसे विद्वान् लोग भी धार्मिक मनुष्यों की योग्य प्रशंसा को सुन सुखयुक्त किया करें॥१९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वरुण विद्वन् ! अद्यावस्युरहं त्वामाचके प्रशंसामि त्वं मे मम हवं श्रुधि शृणु, मां च मृळय॥१९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) प्रत्यक्षमनुष्ठितम् (मे) मम (वरुण) सर्वोत्कृष्टजगदीश्वर विद्वन् वा (श्रुधी) शृणु। अत्र बहुलं छन्दसि श्नोर्लुक् श्रुशृणुपॄकृवृभ्यश्छन्दसि (अष्टा०६.४.१०२) इति हेर्द्ध्यादेशो अन्येषामपि इति दीर्घश्च। (हवम्) आदातुमर्हं स्तुतिसमूहम् (अद्य) अस्मिन् दिने (च) समुच्चये (मृळय) सुखय (त्वाम्) विद्वांसम् (अवस्युः) आत्मनो रक्षणं विज्ञानं चेच्छुः (आ) समन्तात् (चके) प्रशंसामि॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथेश्वरः खलूपासकैः सत्यप्रेम्णा यां प्रयुक्तां स्तुतिं सर्वज्ञतया यथावच्छ्रुत्वा तदनुकूलतया स्तावकेभ्यः सुखं प्रयच्छति, तथैव विद्वद्भिरपि भवितव्यम्॥१९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा परमात्मा उपासकांद्वारे निश्चयाने, सत्य प्रेमाने केलेली स्तुती आपल्या सर्वज्ञतेने योग्य रीतीने ऐकून अनुकूल स्तुती करणाऱ्यांना सुख देतो तसे विद्वान लोकांनीही धार्मिक माणसांची योग्य प्रशंसा ऐकून त्यांना सुखी करावे. ॥ १९ ॥
१० प्रजापते न ...{Loading}...
प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
010 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - कः
- ऋषिः - हिरण्यगर्भः प्राजापत्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡जापते न꣡ त्व꣡द् एता꣡नि अन्यो꣡
वि꣡श्वा जाता꣡नि प꣡रि ता꣡ बभूव
य꣡त्कामास् ते जुहुम꣡स् त꣡न् नो अस्तु
वयं꣡ सियाम प꣡तयो रयीणा꣡म्
मूलम् - तैत्तिरीयम्
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु । व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular;; repeated line
Morph
anyáḥ ← anyá- (nominal stem)
{case:NOM, gender:M, number:SG}
etā́ni ← eṣá (pronoun)
{case:ACC, gender:N, number:PL}
ná ← ná (invariable)
{}
prájāpate ← prajā́pati- (nominal stem)
{case:VOC, gender:M, number:SG}
tvát ← tvám (pronoun)
{case:ABL, number:SG}
babhūva ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
jātā́ni ← √janⁱ- (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}
pári ← pári (invariable)
{}
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
juhumáḥ ← √hu- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
yátkāmāḥ ← yátkāma- (nominal stem)
{case:NOM, gender:M, number:PL}
pátayaḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:PL}
rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
पद-पाठः
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
Hellwig Grammar
- prajāpate ← prajāpati
- [noun], vocative, singular, masculine
- “Prajapati; Brahma; Dakṣa.”
- na
- [adverb]
- “not; like; no; na [word].”
- tvad ← tvat ← tvad
- [noun], ablative, singular
- “you.”
- etāny ← etāni ← etad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); etad [word].”
- anyo ← anyaḥ ← anya
- [noun], nominative, singular, masculine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- jātāni ← jan
- [verb noun], accusative, plural
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- pari
- [adverb]
- “from; about; around.”
- tā ← tad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- babhūva ← bhū
- [verb], singular, Perfect indicative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- yatkāmās ← yad
- [noun]
- “who; which; yat [pronoun].”
- yatkāmās ← kāmāḥ ← kāma
- [noun], nominative, plural, masculine
- “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”
- te ← tvad
- [noun], dative, singular
- “you.”
- juhumas ← juhumaḥ ← hu
- [verb], plural, Present indikative
- “sacrifice; offer; pour; worship.”
- tan ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- vayaṃ ← vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- patayo ← patayaḥ ← pati
- [noun], nominative, plural, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- rayīṇām ← rayi
- [noun], genitive, plural, masculine
- “wealth; property.”
सायण-भाष्यम्
हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ’ इति शेर्लोपः ॥ जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भवतु । तथा वयं च रयीणां धनानां पतयः ईश्वराः स्याम भवेम ॥ नामन्यतरस्याम् ’ इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
हे प्रजापते! त्वदन्यः कश्चिदपि जातानि उत्पन्नानि यान्येतानि विश्वानि लोकजातानि सन्ति ता तानि परिबभूव परितो व्याप्तुं त्वत् त्वत्तोऽन्यः कोऽपि न समर्थः । वयं यत्कामा येन फलकामेन युक्ताः सन्तस्ते तुभ्यं जुहुमः तत्फलं नोऽस्माकमस्तु सिध्यतु । वयं त्यत्प्रसादाद्रयीणां धनानां पतयः स्याम ॥
हरदत्तः
प्रजापत इति ॥ हे प्रजापते त्वत् त्वत्तः अन्यः एतानि विश्वा विश्वानि जातानि जनिमन्ति वस्तूनि कश्चिदपि न परिबभूव । परिपूर्वो भवतिः परिग्रहे वर्तते । वर्तमाने लिट्, परिगृह्वाति । न त्वदन्यः परिग्रहीतुं समर्थ इत्यर्थःस । ता तान्येतानि प्रसिद्धानि भुवनादीनीत्यर्थः यत्कामा यत् कामयमाना वयं ते तुभ्यं जुहुमः तन्नः अस्माकं अस्तु संपद्यताम् । कि पुनस्तत्? वयं रयीणां पतयः स्याम ॥
भट्टभास्कर-टीका
हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥
हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥
हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥
Wilson
English translation:
“No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 10.20; Nirukta 10.43
Jamison Brereton
O Prajāpati! No one other than you has encompassed all these things that have been born.
Let what we desire as we make oblation to you be ours. We would be lords of riches.
Keith
O Prajapati, none other than thou
Hath encompassed all these beings;
Be that ours for which we sacrifice to thee
May we be lords of wealth.
O Prajapati, none other than thou
Comprehendeth all these creatures [6].
What we seek when we sacrifice to thee, let that be ours;
May we be lords of riches.
Griffith
Prajapati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts’ desire when we invoke thee: may we have store of riches in possession.
Geldner
Prajapati, kein anderer als du umspannt schützend alle diese Geschöpfe. Mit welchem Wunsche wir dir opfern, der werde uns zuteil! Wir möchten Gebieter von Reichtümern sein!
Grassmann
Pradschāpati, kein anderer als du nur hält alle diese Wesen hier umschlungen, Um was wir heischend flehn, das mög’ uns werden; wir mögen sein die Herren reicher Schätze.
Elizarenkova
О Праджапати! Никто, кроме тебя,
Не охватил все эти существа.
С каким желанием мы совершаем тебе возлияния, да сбудется оно для нас!
Какого бога мы почтили жертвенным возлиянием?
अधिमन्त्रम् (VC)
- कः
- हिरण्यगर्भः प्राजापत्यः
- विराट्त्रिष्टुप्
- धैवतः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे उत्पन्नमात्र के पालक स्वामी ! (त्वत्-अन्यः) तुझसे भिन्न (विश्वा जातानि) सब उत्पन्न हुईं (ता-एता) उन पूर्व की इन वर्तमान की वस्तुओं को (न परि बभूव) न परिभव करता है-अधिकृत करता है (यत्कामाः) जिस कामना को रखते हुए हम (ते जुहुमः) तेरे लिये अपने भाव को समर्पित करते हैं (तत्-नः अस्तु) वह हमारे लिये होवे, (वयम्) हम (रयीणाम्) विविध धनों के (पतयः स्याम) स्वामी होवें ॥१०॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - जो वस्तुएँ पूर्व उत्पन्न हुईं या वर्तमान में होती हैं, उन सबका परमात्मा अधिष्ठाता है, अन्य नहीं, जिस-जिस कामना को लेकर मनुष्य भावना प्रस्तुत करते हैं, वह पूरी होती है, मनुष्य आवश्यक धनों के स्वामी बन जाते हैं ॥१०॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे प्रजायमानानां पालयितः स्वामिन् ! (त्वत्-अन्यः) त्वत्तो भिन्नः (ता-एतानि विश्वा जातानि न परि बभूव) सर्वाणि खलूत्पन्नानि तानि पूर्वाणि तथेमानि सम्प्रत्युत्पन्नानि वस्तूनि न परि भवति-नाधिकरोति (यत्कामाः-ते जुहुमः) यः कामो येषां ते तुभ्यं स्वात्मभावं समर्पयेम (तत्-नः-अस्तु) तदभीष्टमस्मभ्यं भवतु (वयं रयीणां पतयः स्याम) वयं सर्वविधधनानां स्वामिनो भवेम ॥१०॥
२० सम्राजञ्च … ...{Loading}...
०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...
स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।
२० सम्राजञ्च … ...{Loading}...
मूलम्
स॒म्राज॑ञ्च॒ …
हरदत्तः
सम्राजं चेति । गतम् ॥
२१-२३ व्याहृतीर्विहृताः ...{Loading}...
+++(व्याहृ॑ती॒र् विहृ॑ताः ।)+++
भूः। भुवः॑। सुवः॑।
२१-२३ व्याहृतीर्विहृताः ...{Loading}...
मूलम्
व्याहृ॑ती॒र्विहृ॑ताः ।
हरदत्तः
व्याहृतयश्च गताः ॥
२४ इमञ् जीवेभ्यः ...{Loading}...
इ॒मं +++(अश्मानं)+++ जी॒वेभ्यः॑ परि॒धिं द॑धामि॒
मैषां नु॑ गा॒द् अप॑रो॒ +++(बालः मृत्योर्)+++ अर्ध॑म् ए॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्+++(=दीर्घगान्)+++
ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ (22)
२४ इमञ् जीवेभ्यः ...{Loading}...
मूलम्
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां नु॑गा॒दप॑रो॒ अर्द्ध॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ (२२)
हरदत्तः
अभिमृतेभ्यः उत्तरया दक्षिणतोऽश्मानं परिधिं दधाति इमं जीवेभ्य इति ॥ इमं अश्मानं जीवेभ्यः जीवतामर्थाय परिधिं परिधीयते मृत्युस्तिरोधीयते येन तं परिधिं अश्मानं दधामि स्थापयामि । नः एषां जीवतां मध्ये कश्चिदपि अपरो वालः एतमर्धम् । छान्दसो धकारः एतमर्थं मृत्युलक्षणं मा गात् मा गमत् नु क्षिप्रमकाल एव । किन्तु शतं शरदः पुरूचीः बहून् दिवसान् व्याप्नुवंतीः जीवन्तु । मृत्युंतु अनेन पर्वतेन अश्मना तिरोदधतां तिरोहितं कुर्वन्तु ॥
ॐ एकाग्निकाण्डस्समाप्तः ॥