०१ उक्थ्यश्चास्यतिरात्रश्च …{Loading}…
+++(एकाष्टके!)+++ उक्थ्य᳙श् चास्य् अतिरात्र᳓श् च
साद्यस्क्री᳓श्+++(=सद्यस्क्र-क्रतुः)+++ छ᳓न्दसा सह᳓ ।
अपूप-घृता᳓हुते न᳓मस् ते
अस्तु माँस-पिप्प᳓ले+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वा᳓हा ।
मूलम्
उ॒क्थ्य॑श्चास्यतिरा॒त्रश्च॑ साद्य॒स्क्रीश्छन्द॑सा स॒ह ।
अ॒पू॒प॒घृ॒ताहु॑ते॒ नम॑स्ते अस्तु माँसपि॒प्पले॒ स्वाहा॑ ।
हरदत्तः
पिष्टान्नमुत्तरया जुहोति- उक्थ्यश्चेति ॥ हे एकाष्टके त्वमेव उक्थ्यश्चासि अतिरात्रश्च । साद्यस्क्रीः साद्यस्क्रो नाम क्रतुः, तस्य छान्दस ईकारः । छन्दसा सह, छन्दश्शब्देनैकदेशेन छन्दोमा अच्यन्ते । अपूपानां घृतस्य च आहुतिर्यस्यः तस्या आमन्त्रणम् । हे अपूपघृताहुते नमस्ते अस्तु मांसपिप्पले स्वादु फलं पिप्पलं तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात् । मांसमेव पिप्पलं यस्याः तस्या आमन्त्रणं हे मांसपिप्पले ॥
०२ भूः पृथिव्या …{Loading}…
भूः᳓- पृथिव्य्+++(व्या)+++ अ᳙ग्नि᳓ना+ऋचा᳓
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
०३ भुवो वायुना …{Loading}…
भु᳓वो - वायु᳓ना ऽन्त᳓रिक्षेण सा᳓म्ना
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
०४ स्वर्दिवा …{Loading}…
स्व᳙र् - दि᳓वा ऽऽदित्ये᳓न य᳓जुषा
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।+++(५)+++
मूलम्
भूः पृ॑थि॒व्य॑ग्निन॒र्चामुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
हरदत्तः
आज्याहुतीरुत्तराः - भूः पृथिवीति ॥ भूरादिव्याहृतयः उच्चारणमात्रेणोपकारकाः न पदान्तरैः संहत्यार्थमभिदधति ॥ पृथिवी तृतीयैकवचनस्य पूर्वसवर्णः पृथिव्या लोकेन अग्निना देवेन ऋचा देवेन एतैः कारणभूतैः अमुं हृदि स्थितं कामं मयि नियुनज्मि स्थापयामि । एतेनोत्तरे व्याख्याताः ॥
मूलम्
भुवो॑ वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
मूलम्
स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि …{Loading}…
जन᳓द्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अद्भि᳓र् अ᳓थर्वाङ्गिरो᳓भिर्
अमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।
मूलम्
ज॒नद॒द्भिरथ॑र्वाङ्गि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
हरदत्तः
अनदद्भिरिति ॥ जनदिति चतुर्थीं व्याहृतिरथर्ववेदे पठिता । जनत् अद्भिरिति पदच्छेदः । नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥
०६ रोचनायाजिराय …{Loading}…
रोचना᳓य +अजिरा᳓य+++(←अज गतिक्षेपणयोः)+++ +अग्न᳓ये देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।
०७ केतवे मनवे …{Loading}…
केत᳓वे+++(=ज्ञात्रे)+++ म᳓नवे ब्र᳓ह्मणे देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।
मूलम्
रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा॑ ।
हरदत्तः
रोचनायेति ॥ रोचनाय दीप्ताय अजिराय । अजगति क्षेपणयोः गमनस्वभावाय क्षेप्त्रे वा तमसाम्, एवम्भूताय अग्नये देवजातवे देवानां यष्टव्यानां ज्ञात्रे केतवे ज्ञात्रे मन्त्रे मनुनाम्ने वा ऋषये ब्राह्मणे ब्रह्मरूपाय ब्राह्मणानां वा योनिभवाय । आग्नेयो वै ब्राह्मणः इति ॥
मूलम्
के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा॑ ।
०८ स्वधा स्वाहा …{Loading}…
स्वधा᳓ स्वा᳓हा ।
०९ अग्नये कव्यवाहनाय …{Loading}…
अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।
मूलम्
स्व॒धा स्वाहा॑ ।
हरदत्तः
स्वधेति ॥ स्वधादयो गताः ॥
मूलम्
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
१० अन्नमिव ते …{Loading}…
अ᳓न्नम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।
११ वस्त्रमिव ते …{Loading}…
व᳓स्त्रम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।
१२ वित्तमिव ते …{Loading}…
वि᳓त्तम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।
१३ आशेव ते …{Loading}…
आशे᳓व+++(=मनोरथ इव)+++ +++(दृष्टेव)+++ ते दृशे᳓+++(=दर्शने)+++ भूयासम्।
१४ श्रद्धेव ते …{Loading}…
श्रद्धे᳓व +++(दृष्टेव)+++ ते दृशे᳓+++(=दर्शने)+++ भूयासम् ।
मूलम्
अन्न॑मिव ते दृ॒शे भू॑यासं ।
हरदत्तः
सनिमित्वोत्तरां जपेत् - अन्नमिवेति ॥ अन्नमिव ते दृशे दृष्ठ्योः भूयासं अन्ने दृष्टे यादृशी प्रीतिः तथा ते मयि भवतु । दातारं प्रत्यात्मनि वचनमेतत् । एवमुत्तरेष्वपि योज्यम् । आशा मनोरथः ॥
मूलम्
वस्त्र॑मिव ते दृ॒शे भू॑यासं ।
मूलम्
वित्त॑मिव ते दृ॒शे भू॑यासम् ।
मूलम्
आ॒शेव॑ ते दृ॒शे भू॑यासँ ।
मूलम्
श्र॒द्धेव॑ ते दृ॒शे भू॑यासम् ।
१५ स२ंस्रवन्तु दिशो …{Loading}…
सँ᳓स्रवन्तु दि᳓शो मही᳓स् +++(देयाः)+++
स᳓मा᳓ धावन्तु सूनृ᳓ताः +++(वाचः)+++ ।
स᳓र्वे का᳓मा अभि᳓यन्तु मा प्रिया᳓
अभि᳓ रक्षन्तु मा प्रियाः᳓ ।+++(र४)+++
मूलम्
सँस्र॑वन्तु॒ दिशो॑ म॒हीस्समा धा॑वन्तु सू॒नृताः॑ ।
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भि र॑क्षन्तु मा प्रि॒याः ।
हरदत्तः
संस्रवन्त्विति ॥ संस्रवन्तु संगत्य स्रवन्तु दिशो महीः महत्यः सर्वासु दिक्षु तव यद्देयं तन्मामागच्छतु समा वावान्तु सूनृताः प्रिया वाचः स्वागतमित्येवमादयः । सर्वे कामाः प्रियाः मामभियन्तु अभिगच्छन्तु । अभिरक्षन्तु मा प्रियाः स एवार्थः आदरार्थं पुनर्वचनम् ॥
१६ यशोऽसि यशोऽहन्त्वयि …{Loading}…
य᳓शोऽसि।
य᳓शोऽह᳓न् त्व᳓यि भूयासम् असौ+++(←दातुर्नामनिर्देशः)+++ ।
मूलम्
यशो॑ऽसि॒ यशो॒ऽहन्त्वयि॑ भूयासमसौ ।
हरदत्तः
यशोसीति ॥ यशोसि यशस्व्यसि अहं च त्वयि यशो भूयासम् यशस्वी भूयासं त्वं मे देहीत्यर्थः । एवं हि याचितुर्यशो भवति । असाविति दातुर्नामनिर्देशः संबुद्ध्या हे यज्ञशर्मन् । इति ॥
१७ अङ्कौ न्यङ्कावभितो …{Loading}…
अङ्कौ᳓+++(→भूतविशेषौ)+++ न्यङ्का᳓व् अभि᳓तो र᳓थय्ँ यौ᳓
ध्वान्तव्ँ᳓+++(=ध्वनितं)+++ वाताग्र᳓म् अ᳓नु सञ्च᳓रन्तौ ।
+++(तथा)+++ दूरे᳓हेतिर् इन्द्रिया᳓वान्+++(=बलवान्)+++ पतत्री᳓ +++(च)+++
ते᳓ नो ऽग्न᳓यᳶ+++(←अगिर्गत्यर्थः)+++ प᳓प्रयᳶ+++(←प्रा पूरणे)+++ पारयन्तु ।
मूलम्
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्ँयौ । ध्वा॒न्तव्ँ वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री । ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ।
हरदत्तः
रथे लब्धे तस्य चक्रे पक्षसी वा अभिमृशति - अङ्काविति ॥ ध्वान्तं । ध्वन शब्दे, छान्दस इडभावः । ध्वनितं वाताग्रम् । अगिर्गत्यर्थः वातवात् गन्तारं एवंभूतं रथं अभितः अनुसञ्चरन्तौ यौ अङ्कौ एवंनामानौ भूतविशेषौ तथा न्यङ्कौ यश्च दूरेहेतिः एवंनामा भूतविशेषः यश्च इन्द्रियावान् बलवान् पतत्री पतनशीलः एते भूतविशोषाः रथस्याधिष्ठातारः ते अग्नयः । अगिर्गत्यर्थः । गन्तारो रथेन सह । पप्रयः प्रा पूरणे कामानां पूरयितारः नः अस्मान् पारयन्तु पारं नयन्तु इष्टदेशं प्रापयन्तु ॥
१८ अद्ध्वनामद्ध्वपते स्वस्ति …{Loading}…
अ᳓ध्वनाम् अध्वपते
स्वस्ति᳓ मा सं᳓पारय ।
मूलम्
अद्ध्व॑नामद्ध्वपते स्व॒स्ति मा॒ संपा॑रय ।
हरदत्तः
यजुषाऽधिरोहिति-अध्वनामिति ॥ हे रथ । अध्वना मध्वपते अध्वपत इत्येवार्थः । यथा गवां गोपतिरिति । स्वस्थि यथा तथा मा मां संपारय सम्यक्पारं नय ॥
१९ अयं वामश्विनौ …{Loading}…
अयं᳓ वाम् अश्विनौ +++(अश्वि᳓नौ)+++ र᳓थो
मा᳓ दुःखे᳓ मा᳓ सुखे᳓ रिषत् ।
अ᳓रिष्टस् स्वस्ति᳓ गच्छतु
वि᳓ विघ्न᳓न् पृतनायतः᳓+++(पृ᳓तनायतः᳓)+++ ।
मूलम्
अ॒यं वा॑म॒श्विनौ॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत् ।
अरि॑ष्टस्स्व॒स्ति ग॑च्छतु॒ विवि॒घ्नन्पृत॑नाय॒तः ।
हरदत्तः
उत्तरयाऽभिप्रयाति - अयमिति ॥ हे अश्विना अश्विनौ अयं रथः वां युवयोः स्वभूतः ततश्च दुःखे सुखे वा अध्वनि मा रिषत् भग्नो मा भूत् । अरिष्ट एव स्वस्ति गच्छतु । विविघ्नन् । छान्दसं विशब्दस्य द्विर्वचनम् । विविधं घ्नम् कान्? पृतनायतः योद्धुकामान् ॥
२० अश्वोऽसि हयोऽस्यत्योऽसि …{Loading}…
+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अ᳓श्वो+++(=व्यापकः)+++ ऽसि । ह᳓यो+++(←हि गतौ)+++ ऽस्य्, अ᳓त्यो+++(←अत सातत्य-गमने)+++ ऽसि,
न᳓रो+++(=नेता)+++ ऽस्य्, अ᳓र्वा+++(←ऋ गतौ)+++ऽसि, स᳓प्तिर्+++(←सर्पतेः)+++ असि, वाज्य्+++(=वेगवान्)+++ अ᳙सि, वृ᳓षा ऽसि।
नृ-म᳓णा+++(=मन्त्यव्यो)+++ असि। य᳓युर् ना᳓मासि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++
+++(उपतिष्ठते)+++
आदित्या᳓नाम् प᳓त्व+++(=पतनशीलः)+++ +अ᳓न्विहि ।
Keith
thou art a horse, thou art a steed, thou art a runner, thou art a male, thou art a strong horse, thou art a racer, thou art powerful, thou art a stallion, thou art heroic hearted; ‘goer’ is thy name;
Keith
thou art a horse, thou art a steed, thou art a runner, thou art a male, thou art a strong horse, thou art a racer, thou art powerful, thou art a stallion, thou art heroic hearted; ‘goer’ is thy name;
मूलम्
अश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा॑स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि ।
मूलम्
अ᳓श्वोऽसि । ह᳓योऽसि᳓ । अ᳓त्योऽसि। न᳓रोऽसि᳓ । अ᳓र्वासि ।
स᳓प्तिरसि । वाज्य᳙सि । वृ᳓षासि । नृम᳓णा असि ।
य᳓युर्ना᳓मासि ।
पद-पाठः
अ᳓श्वः । असि । ह᳓यः । असि । अ᳓त्यः । असि । न᳓रः । असि ।
अ᳓र्वा । असि । स᳓प्तिः । असि । वाजी᳓ । असि । वृ᳓षा । असि । नृम᳓णा इ᳓ति नृ᳓-म᳓नाः । असि । य᳓युः । ना᳓म । असि ।
भट्टभास्कर-टीका
अश्वः व्यापकोसि अध्वनाम् । हयः क्रमणवानसि । हय गतिक्रान्त्योः । पचाद्यजन्तः, वृषादित्वादाद्युदात्तत्वम् । अत्यः सातत्येन गन्तुं समर्थोसि । अततेः ‘कृत्यल्युटो बहुलम्’ इति कर्तरि यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । नरोसि कर्मणां नेताऽसि । नृ नये, पूर्ववदच्, स्वरश्च । अर्वा अरणकुशलोसि । अर्तेर्वनिप्, साप्तिः सर्वत्र समवेतोसि । षप समवाये, क्तिन् । वाजी वेगवानसि । वृषा वर्षिता सेक्ता वाऽसि । ‘कनिन्युवृषि’ इत्यादिना कनिन् । नृमणाः नृषु मना यस्य, नॄन् मन्यते उपकरोति, नृभिर्वा मन्यसे उपकुर्विति । ‘गतिकारकयोरपि’ इत्यसुन् ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम्, ‘पूर्वपदात्संज्ञयामगः’ इति णत्वम् । ययुः यानशलिः । ‘यो द्वे च’ इत्युप्रत्ययः । ययुरित्यश्वमेधयोग्योश्व इत्याहुः । ययुर्नाम त्वमसि । ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्'35 इति ॥
हरदत्तः
अश्वे लब्धे आरोहणमन्त्रः - अश्वोसीति ॥ अश्नुतेऽध्वानमिति अश्वः हिनोति हयतीति वा हयः । हि गतौ, हय गतौ गमनशीलः । अत सातत्य गमने, तस्मात् अस्यः । नृत्यतेः नरः । अर्तेः अर्वा । सर्पतेः सप्तिः । वज गतौ, तस्मात् वाजी । वर्षतेः वृषा सेचनसमर्थः । नृषु शत्रृषु मनुष्येषु मनो यस्य हन्मीति च नृमणाः । यातेः ययुः अश्वमेधाश्वः । नाम प्रसिद्धौ । आदित्यानां अदितेः पुत्राणां देवानां पत्वा पतनशीळः एवम्भूतः स त्वं मां अन्विहि अनु गच्छ । मा मां व्यतिक्रमीः ॥
२१ हस्तियशसमसि हस्तियशसी …{Loading}…
हस्ति-यशस᳓म् असि, हस्ति-यशसी᳓ भूयासम्।
व᳓ह काल, व᳓ह श्रि᳓यं, माऽभि᳓ वह ।
इ᳓न्द्रस्य त्वा व᳓ज्रेणाभि᳓ नि᳓दधाम्य् असौ+++(←नामनिर्देशः?)+++ ।
मूलम्
ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒ वह॒ श्रियं॑ मा॒ऽभि व॑ह ।
इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ ।
हरदत्तः
हस्तिनी लब्धे आरोहणमन्त्रः - हस्तियशसमसीति ॥ हस्तियशसमसि हस्तिनां त्वं यशोभूतोसि । अहं च त्वया हस्तियपशसी भूयासम् । वह प्रापय मां हे कालवह कालस्कन्धवह मा मां श्रियंप्रभिवह श्रियं प्रापय । इन्द्रस्य वज्रेण तत्सदृशेनाङ्कुशेन त्वा त्वां अभिनिदधामि बध्नामि एवम्भूतमङ्कुशं तव मस्तके स्थापयामीत्यर्थः । असौ हे ऐरावत सुवतीक ॥
२२ अवजिह्वक निजिह्वकाव …{Loading}…
अ᳓वजिह्वक नि+++(→न्यक्)+++जिह्वक+
अ᳓व त्वा हवि᳓षा यजे ।
त᳓त् सत्यं᳓ य᳓द् अहं᳓ ब्र᳓वीम्य्
अ᳓धरो म᳓द् असौ᳓+++(←नामनिर्देशः)+++ वदात्
स्वा᳓हा ।+++(र५)+++
मूलम्
अव॑जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे ।
तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒त्स्वाहा॑ ।
हरदत्तः
संवादमेष्यन् फलीकरणमुष्टिं जुहोति - अवजिह्वकेति ॥ वाचीना जिह्वः यस्य तस्यामन्त्रणम्, हे अवजिह्वक एवं न्यग्भूता जिह्वा यस्य स निजिह्वकः हे निजिह्वक त्वा त्वां अहं हविषा अनेन फलीकरणमुष्टिरूपेण अवयजे यथा त्वमवाचीनो भवसि तथा यजे । तत्सत्यं अस्तु यदहं ब्रवीमि । किं पुनस्तत्? असौ यज्ञशर्मा मत्प्रति योगी मत् मत्तः अध्वरो भूत्वा वदात् वदेत् ॥
२३ आ ते वाचम् …{Loading}…
आ᳓ ते वा᳓चम् आस्या᳙न्+++(=आस्ये भवां)+++ +++(आ)+++दद, आ᳓ मनस्याँ᳓, हृ᳓दयाद् अ᳓धि ।+++(५)+++
य᳓त्र यत्र ते वा᳓ङ् नि᳓हिता, तां᳓ त आ᳓ददे ।
त᳓त् सत्यं᳓ य᳓द् अहं᳓ ब्र᳓वीम्य्, अ᳓धरो म᳓त् पद्यस्वासौ+++(←नामनिर्देशः)+++ ॥ (21)
मूलम्
आ ते॒ वाच॑मा॒स्या॑न्दद॒ आ म॑न॒स्याँ हृद॑या॒दधि॑ ।
यत्र॑ यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे ।
तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ ॥ (२१)
हरदत्तः
प्रतियोगिसन्निधौ जपः - आ त इति ॥ ते तव वाचं आस्यां आस्ये भवां आददे, मनस्यां मनसि भवां मनसा धियक्षितां च वाचमाददे, हृदयादधि हृदयस्योपरि या वाक् तां चाददे । अन्यत्रापि यत्रयत्र ते वाङ्निहिता तां ते तव स्यभूतां आददे । तत्सत्यमस्तु यदहं ब्रवीमि । किं पुनस्तत्? हे असौ यज्ञशर्मन् मत् मत्तः त्वं अधरः पद्यस्व पराभूतो भव विपन्नो वा भवेत्यर्थः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने एकविंशः खण्डः