०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...
+++(एकाष्टके!)+++ उ॒क्थ्य॑श् चास्य् अतिरा॒त्रश् च॑
साद्य॒स्क्रीश्+++(=सद्यस्क्र-क्रतुः)+++ छन्द॑सा स॒ह ।
अ॒पू॒प॒-घृ॒ताहु॑ते॒ नम॑स् ते
अस्तु माꣳस-पि॒प्पले॒+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वाहा॑ ।
०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...
मूलम्
उ॒क्थ्य॑श्चास्यतिरा॒त्रश्च॑ साद्य॒स्क्रीश्छन्द॑सा स॒ह ।
अ॒पू॒प॒घृ॒ताहु॑ते॒ नम॑स्ते अस्तु माꣳसपि॒प्पले॒ स्वाहा॑ ।
हरदत्तः
पिष्टान्नमुत्तरया जुहोति- उक्थ्यश्चेति ॥ हे एकाष्टके त्वमेव उक्थ्यश्चासि अतिरात्रश्च । साद्यस्क्रीः साद्यस्क्रो नाम क्रतुः, तस्य छान्दस ईकारः । छन्दसा सह, छन्दश्शब्देनैकदेशेन छन्दोमा अच्यन्ते । अपूपानां घृतस्य च आहुतिर्यस्यः तस्या आमन्त्रणम् । हे अपूपघृताहुते नमस्ते अस्तु मांसपिप्पले स्वादु फलं पिप्पलं तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात् । मांसमेव पिप्पलं यस्याः तस्या आमन्त्रणं हे मांसपिप्पले ॥
०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...
भूः- पृ॑थि॒व्य्+++(व्या)+++ अ॑ग्निना॑+ऋ॒चा ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑- वा॒युना॒ ऽन्तरि॑क्षेण॒ साम्ना॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्- दिवा॑ ऽऽदि॒त्येन॒ यजु॑षा॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।+++(५)+++
०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...
मूलम्
भूः पृ॑थि॒व्य॑ग्निन॒र्चामुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑ वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
हरदत्तः
आज्याहुतीरुत्तराः - भूः पृथिवीति ॥ भूरादिव्याहृतयः उच्चारणमात्रेणोपकारकाः न पदान्तरैः संहत्यार्थमभिदधति ॥ पृथिवी तृतीयैकवचनस्य पूर्वसवर्णः पृथिव्या लोकेन अग्निना देवेन ऋचा देवेन एतैः कारणभूतैः अमुं हृदि स्थितं कामं मयि नियुनज्मि स्थापयामि । एतेनोत्तरे व्याख्याताः ॥
०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...
ज॒नद्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अ॒द्भिर् अथ॑र्वाङ्गि॒रोभि॑र् अ॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...
मूलम्
ज॒नद॒द्भिरथ॑र्वाङ्गि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
हरदत्तः
अनदद्भिरिति ॥ जनदिति चतुर्थीं व्याहृतिरथर्ववेदे पठिता । जनत् अद्भिरिति पदच्छेदः । नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥
०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...
रो॒च॒नाय॑ +अ॒जि॒राय+++(←अज गतिक्षेपणयोः)+++ +अ॒ग्नये॑ दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
के॒तवे॒+++(=ज्ञात्रे)+++ मन॑वे॒ ब्रह्म॑णे दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...
मूलम्
रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा॑ ।
के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा॑ ।
हरदत्तः
रोचनायेति ॥ रोचनाय दीप्ताय अजिराय । अजगति क्षेपणयोः गमनस्वभावाय क्षेप्त्रे वा तमसाम्, एवम्भूताय अग्नये देवजातवे देवानां यष्टव्यानां ज्ञात्रे केतवे ज्ञात्रे मन्त्रे मनुनाम्ने वा ऋषये ब्राह्मणे ब्रह्मरूपाय ब्राह्मणानां वा योनिभवाय । आग्नेयो वै ब्राह्मणः इति ॥
०८-०९ स्वधा स्वाहा ...{Loading}...
स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
०८-०९ स्वधा स्वाहा ...{Loading}...
मूलम्
स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
हरदत्तः
स्वधेति ॥ स्वधादयो गताः ॥
१०-१४ अन्नमिव ते ...{Loading}...
अन्न॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वस्त्र॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वित्त॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
आ॒शेव॑+++(=मनोरथ इव)+++ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
श्र॒द्धेव॑ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम् ।
१०-१४ अन्नमिव ते ...{Loading}...
मूलम्
अन्न॑मिव ते दृ॒शे भू॑यासं॒ वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ वित्त॑मिव ते दृ॒शे भू॑यासमा॒शेव॑ ते दृ॒शे भू॑यास२ꣳ श्र॒द्धेव॑ ते दृ॒शे भू॑यासम् ।
हरदत्तः
सनिमित्वोत्तरां जपेत् - अन्नमिवेति ॥ अन्नमिव ते दृशे दृष्ठ्योः भूयासं अन्ने दृष्टे यादृशी प्रीतिः तथा ते मयि भवतु । दातारं प्रत्यात्मनि वचनमेतत् । एवमुत्तरेष्वपि योज्यम् । आशा मनोरथः ॥
१५ स२ंस्रवन्तु दिशो ...{Loading}...
स२ꣳस्र॑वन्तु॒ दिशो॑ म॒हीस् +++(देयाः)+++
समा धा॑वन्तु सू॒नृताः॑ +++(वाचः)+++ ।
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या
अ॒भि र॑क्षन्तु मा प्रि॒याः ।+++(र४)+++
१५ स२ंस्रवन्तु दिशो ...{Loading}...
मूलम्
स२ꣳस्र॑वन्तु॒ दिशो॑ म॒हीस्समा धा॑वन्तु सू॒नृताः॑ ।
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भि र॑क्षन्तु मा प्रि॒याः ।
हरदत्तः
संस्रवन्त्विति ॥ संस्रवन्तु संगत्य स्रवन्तु दिशो महीः महत्यः सर्वासु दिक्षु तव यद्देयं तन्मामागच्छतु समा वावान्तु सूनृताः प्रिया वाचः स्वागतमित्येवमादयः । सर्वे कामाः प्रियाः मामभियन्तु अभिगच्छन्तु । अभिरक्षन्तु मा प्रियाः स एवार्थः आदरार्थं पुनर्वचनम् ॥
१६ यशोऽसि यशोऽहन्त्वयि ...{Loading}...
यशो॑ऽसि।
यशो॒ऽहन् त्वयि॑ भूयासम् असौ+++(←दातुर्नामनिर्देशः)+++ ।
१६ यशोऽसि यशोऽहन्त्वयि ...{Loading}...
मूलम्
यशो॑ऽसि॒ यशो॒ऽहन्त्वयि॑ भूयासमसौ ।
हरदत्तः
यशोसीति ॥ यशोसि यशस्व्यसि अहं च त्वयि यशो भूयासम् यशस्वी भूयासं त्वं मे देहीत्यर्थः । एवं हि याचितुर्यशो भवति । असाविति दातुर्नामनिर्देशः संबुद्ध्या हे यज्ञशर्मन् । इति ॥
१७ अङ्कौ न्यङ्कावभितो ...{Loading}...
अ॒ङ्कौ+++(→भूतविशेषौ)+++ न्य॒ङ्काव् अ॒भितो॒ रथ॒य्ँ यौ
ध्वा॒न्तव्ँ+++(=ध्वनितं)+++ वा॑ता॒ग्रम् अनु॑ स॒ञ्चर॑न्तौ ।
+++(तथा)+++ दू॒रेहे॑तिर् इन्द्रि॒यावा॑न्+++(=बलवान्)+++ पत॒त्री +++(च)+++
ते नो॒ ऽग्नय॒ᳶ+++(←अगिर्गत्यर्थः)+++ पप्र॑यᳶ+++(←प्रा पूरणे)+++ पारयन्तु ।
१७ अङ्कौ न्यङ्कावभितो ...{Loading}...
मूलम्
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्ँयौ । ध्वा॒न्तव्ँ वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री । ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ।
हरदत्तः
रथे लब्धे तस्य चक्रे पक्षसी वा अभिमृशति - अङ्काविति ॥ ध्वान्तं । ध्वन शब्दे, छान्दस इडभावः । ध्वनितं वाताग्रम् । अगिर्गत्यर्थः वातवात् गन्तारं एवंभूतं रथं अभितः अनुसञ्चरन्तौ यौ अङ्कौ एवंनामानौ भूतविशेषौ तथा न्यङ्कौ यश्च दूरेहेतिः एवंनामा भूतविशेषः यश्च इन्द्रियावान् बलवान् पतत्री पतनशीलः एते भूतविशोषाः रथस्याधिष्ठातारः ते अग्नयः । अगिर्गत्यर्थः । गन्तारो रथेन सह । पप्रयः प्रा पूरणे कामानां पूरयितारः नः अस्मान् पारयन्तु पारं नयन्तु इष्टदेशं प्रापयन्तु ॥
१८ अद्ध्वनामद्ध्वपते स्वस्ति ...{Loading}...
अद्ध्व॑नाम् अध्वपते स्व॒स्ति मा॒ संपा॑रय ।
१८ अद्ध्वनामद्ध्वपते स्वस्ति ...{Loading}...
मूलम्
अद्ध्व॑नामद्ध्वपते स्व॒स्ति मा॒ संपा॑रय ।
हरदत्तः
यजुषाऽधिरोहिति-अध्वनामिति ॥ हे रथ । अध्वना मध्वपते अध्वपत इत्येवार्थः । यथा गवां गोपतिरिति । स्वस्थि यथा तथा मा मां संपारय सम्यक्पारं नय ॥
१९ अयं वामश्विनौ ...{Loading}...
अ॒यं वा॑म् अ॒श्विनौ॒ रथो॒
मा दुः॒खे मा सु॒खे रि॑षत् ।
अरि॑ष्टस् स्व॒स्ति ग॑च्छतु॒
विवि॒घ्नन् पृत॑नाय॒तः ।
१९ अयं वामश्विनौ ...{Loading}...
मूलम्
अ॒यं वा॑म॒श्विनौ॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत् ।
अरि॑ष्टस्स्व॒स्ति ग॑च्छतु॒ विवि॒घ्नन्पृत॑नाय॒तः ।
हरदत्तः
उत्तरयाऽभिप्रयाति - अयमिति ॥ हे अश्विना अश्विनौ अयं रथः वां युवयोः स्वभूतः ततश्च दुःखे सुखे वा अध्वनि मा रिषत् भग्नो मा भूत् । अरिष्ट एव स्वस्ति गच्छतु । विविघ्नन् । छान्दसं विशब्दस्य द्विर्वचनम् । विविधं घ्नम् कान्? पृतनायतः योद्धुकामान् ॥
२० अश्वोऽसि हयोऽस्यत्योऽसि ...{Loading}...
+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अश्वो॑+++(=व्यापकः)+++ ऽसि । हयो॒+++(←हि गतौ)+++ ऽस्य्, अत्यो॑+++(←अत सातत्य-गमने)+++ ऽसि,
नरो॒+++(=नेता)+++ ऽस्य्, अर्वा॑+++(←ऋ गतौ)+++ऽसि॒, सप्ति॑र्+++(←सर्पतेः)+++ असि, वा॒ज्य्+++(=वेगवान्)+++ अ॑सि॒, वृषा॑ ऽसि।
नृ॒-मणा॑+++(=मन्त्यव्यो)+++ असि॒। ययु॒र् नामा॑सि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++
+++(उपतिष्ठते)+++
आदि॒त्याना॒म् पत्व॑+++(=पतनशीलः)+++ +अन्वि॑हि ।
२० अश्वोऽसि हयोऽस्यत्योऽसि ...{Loading}...
मूलम्
अश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा॑स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि ।
हरदत्तः
अश्वे लब्धे आरोहणमन्त्रः - अश्वोसीति ॥ अश्नुतेऽध्वानमिति अश्वः हिनोति हयतीति वा हयः । हि गतौ, हय गतौ गमनशीलः । अत सातत्य गमने, तस्मात् अस्यः । नृत्यतेः नरः । अर्तेः अर्वा । सर्पतेः सप्तिः । वज गतौ, तस्मात् वाजी । वर्षतेः वृषा सेचनसमर्थः । नृषु शत्रृषु मनुष्येषु मनो यस्य हन्मीति च नृमणाः । यातेः ययुः अश्वमेधाश्वः । नाम प्रसिद्धौ । आदित्यानां अदितेः पुत्राणां देवानां पत्वा पतनशीळः एवम्भूतः स त्वं मां अन्विहि अनु गच्छ । मा मां व्यतिक्रमीः ॥
२१ हस्तियशसमसि हस्तियशसी ...{Loading}...
ह॒स्ति॒-य॒श॒सम् अ॑सि, हस्ति-यश॒सी भू॑यासम्।
वह॑ काल॒, वह॒ श्रियं॑, मा॒ऽभि व॑ह ।
इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्य् असौ+++(←नामनिर्देशः?)+++ ।
२१ हस्तियशसमसि हस्तियशसी ...{Loading}...
मूलम्
ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒ वह॒ श्रियं॑ मा॒ऽभि व॑ह ।
इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ ।
हरदत्तः
हस्तिनी लब्धे आरोहणमन्त्रः - हस्तियशसमसीति ॥ हस्तियशसमसि हस्तिनां त्वं यशोभूतोसि । अहं च त्वया हस्तियपशसी भूयासम् । वह प्रापय मां हे कालवह कालस्कन्धवह मा मां श्रियंप्रभिवह श्रियं प्रापय । इन्द्रस्य वज्रेण तत्सदृशेनाङ्कुशेन त्वा त्वां अभिनिदधामि बध्नामि एवम्भूतमङ्कुशं तव मस्तके स्थापयामीत्यर्थः । असौ हे ऐरावत सुवतीक ॥
२२ अवजिह्वक निजिह्वकाव ...{Loading}...
अव॑जिह्वक नि+++(→न्यक्)+++जिह्व॒का+
ऽव॑ त्वा ह॒विषा॑ यजे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्
अध॑रो॒ मद् अ॒सौ+++(←नामनिर्देशः)+++ व॑दा॒त्
स्वाहा॑ ।+++(र५)+++
२२ अवजिह्वक निजिह्वकाव ...{Loading}...
मूलम्
अव॑जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे ।
तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒त्स्वाहा॑ ।
हरदत्तः
संवादमेष्यन् फलीकरणमुष्टिं जुहोति - अवजिह्वकेति ॥ वाचीना जिह्वः यस्य तस्यामन्त्रणम्, हे अवजिह्वक एवं न्यग्भूता जिह्वा यस्य स निजिह्वकः हे निजिह्वक त्वा त्वां अहं हविषा अनेन फलीकरणमुष्टिरूपेण अवयजे यथा त्वमवाचीनो भवसि तथा यजे । तत्सत्यं अस्तु यदहं ब्रवीमि । किं पुनस्तत्? असौ यज्ञशर्मा मत्प्रति योगी मत् मत्तः अध्वरो भूत्वा वदात् वदेत् ॥
२३ आ ते वाचम् ...{Loading}...
आ ते॒ वाच॑म् आ॒स्या॑न्+++(=आस्ये भवां)+++ +++(आ)+++दद॒, आ म॑न॒स्याꣳ, हृद॑या॒द् अधि॑ ।+++(५)+++
यत्र॑ यत्र ते॒ वाङ् निहि॑ता॒, तां त॒ आद॑दे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्, अध॑रो॒ मत् प॑द्यस्वासौ+++(←नामनिर्देशः)+++ ॥ (21)
२३ आ ते वाचम् ...{Loading}...
मूलम्
आ ते॒ वाच॑मा॒स्या॑न्दद॒ आ म॑न॒स्याꣳ हृद॑या॒दधि॑ ।
यत्र॑ यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे ।
तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ ॥ (२१)
हरदत्तः
प्रतियोगिसन्निधौ जपः - आ त इति ॥ ते तव वाचं आस्यां आस्ये भवां आददे, मनस्यां मनसि भवां मनसा धियक्षितां च वाचमाददे, हृदयादधि हृदयस्योपरि या वाक् तां चाददे । अन्यत्रापि यत्रयत्र ते वाङ्निहिता तां ते तव स्यभूतां आददे । तत्सत्यमस्तु यदहं ब्रवीमि । किं पुनस्तत्? हे असौ यज्ञशर्मन् मत् मत्तः त्वं अधरः पद्यस्व पराभूतो भव विपन्नो वा भवेत्यर्थः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने एकविंशः खण्डः