०१ पृथिवी ते ...{Loading}...
+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑॑न् त्वा प्राणापा॒नयो॑॑र् जुहोमि।
भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।
०१ पृथिवी ते ...{Loading}...
मूलम्
पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णाना॑न्त्वा प्राणापा॒नयो॑र्जुहो॒म्यक्षि॑तमसि॒ मैषां॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑ल्ँ लो॒के ।
हरदत्तः
यजुषोपस्पर्शयति -पृथिवी त इति ॥ पृथिवी ते पात्रं भाजनं एवंनाम महदसि । पूर्वत्र चोक्तं यावानग्निश्च पृथिवी च इति । द्यौरपिधानं अपिधानमप्येवंप्रमाणमेव ते भवितुमर्हतीत्यर्थः । उपरिस्थितमपिधानम् । अधस्स्थितं भाजनम् दिवः पृथिव्याश्च तादृशमव स्थानम् । ब्रह्मणो ब्राह्मणस्य त्वा त्वां जुहोमि । अत्र पितरो देवता ब्राह्मणस्त्वाहवनीयार्थे इति- यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ इथि स्मृते । एवं पितृणामर्थाय ब्राह्मणमुखे जुहोमित्युक्तम् । इदानीं भुञ्जानानामपि तृप्तिरस्त्वित्याह - ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि हे अन्न त्वं अक्षयमसि । एषां पितृणां ब्राह्मणानां च मा क्षेष्ठाः क्षयं मा गमः अमुत्र परलोके पितॄणां अमुष्मिन् इह लोके ब्राह्मणानां च ॥
०२-०७ मार्जयन्ताम् मम ...{Loading}...
मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।
०२-०७ मार्जयन्ताम् मम ...{Loading}...
मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।
०२-०७ मार्जयन्ताम् मम ...{Loading}...
मूलम्
मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।
मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑ मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।
हरदत्तः
पिण्डदाने दर्भेष्वपो ददाति - मार्जयन्तामिति ॥ मार्जयन्तां अनेनोदकेन शुद्धा भवन्तु मम पितरः । एवमुत्तरे योज्याः ॥
०८-१९ एतत्ते ततासौ ...{Loading}...
ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
०८-१९ एतत्ते ततासौ ...{Loading}...
मूलम्
ए॒तत्ते॑ ततासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ प्रपितामहासौ॒ ये च॒ त्वामनु॑ ।
ए॒तत्ते॑ मातरसौ॒ याश्च॒ त्वा मन्वे॒तत्ते॑ पितामह्यसौ॒ याश्च॒ त्वामन्वे॒तत्ते॑ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑ ।
हरदत्तः
पिण्डदानम् - एतते ततेति । एतत् पिण्डं ते तुभ्यं तत पितः असौ यज्ञशर्मन् । ये च त्वामनु जीवन्ति तेभ्यश्च । एवमुत्तरे ॥
२० -२६ ये च ...{Loading}...
ये च॒ वो +++(पितरः)+++ ऽत्र॒, ये चा॒स्मास्व् आशꣳ॑सन्ते॒+++(→प्रार्थयन्ते स्वधाम्)+++
याश् च॒ वो ऽत्र॒ याश् चा॒स्मास्व् आशꣳ॑सन्ते॒,
ते च॑ +++(स्वधां)+++ वहन्तां॒,
ताश्च॑ +++(स्वधां)+++ वहन्ताम्।
तृप्य॑न्तु भवन्तः॒,
तृप्य॑न्तु भवत्यः॒।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
२० -२६ ये च ...{Loading}...
मूलम्
ये च॒ वोऽत्र॒ ये चा॒स्मास्वाशꣳ॑सन्ते॒ याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वाशꣳ॑सन्ते॒ ते च॑ वहन्तां॒ ताश्च॑ वहन्तां॒ तृप्य॑न्तु भवन्त॒स्तृप्य॑न्तु भवत्य॒स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
हरदत्तः
उत्तरैरुपस्थानम् - ये चेति ॥ हे पितरः ये च वः युष्मान् आशंसन्ते अत्र अस्मिन्कर्मणि ये च अस्मासु अस्मान् आशंसन्ते प्रार्थयन्ते । हे मातरः याश्च स्रियः अस्मत्कुले मृताः वः युष्मान् आशंसन्ते याश्चास्मासु अस्मान् आशंसन्ते ते च पुरुषाः बहन्तां प्राप्नुवन्तु स्वधां ताश्च स्त्रियः वहन्तां तृप्यन्तु भवन्तः पुरुषः तृप्यन्तु भवत्यः स्रियश्च । हे पितरो । मातरश्च । उभये यूयं तृप्यत तृप्यत तृप्यत ॥
२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...
पु॒त्रान् पौत्रा॑न् अ॒भि त॒र्पय॑न्ती॒र् आपो॒ मधु॑मतीर् इ॒माः
स्व॒धां +++(मातृसहित)+++पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीर् उ॒भयाꣳ॑स् तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...
मूलम्
पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः ।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयाꣳ॑स्तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
हरदत्तः
उभयान् पिण्डान् परिषिञ्चति - पुत्रानिति ॥ पुत्रान्पौत्रांश्च अभितर्पयन्ति अभितर्पयन्त्यः मधुमतीः मधुमत्यः मधुस्वादुयुक्ताः एवम्भूता इमा आप इत्येको वाक्यार्थः । ता आपः पितृभ्यः पिता मात्रा इत्येकशेषः । स्वधां स्वधारूपं अमृतं दुहानाः देवीः देव्याः उभयान् पितॄन् मातॄंश्च तर्पयन्तु । हे पितरः हे मातरः तृप्यत तृप्यत तृप्यत ॥
२९ प्राणे निविष्टोऽमृतम् ...{Loading}...
प्रा॒णे निवि॑ष्टो॒ ऽमृतं॑+++(→अमरणहेतुमन्नं)+++ जुहोमि॒, ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
२९ प्राणे निविष्टोऽमृतम् ...{Loading}...
मूलम्
प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
हरदत्तः
शेषप्राशनम् - प्राण इति ॥ प्राणे निविष्टः प्राणादीन् पञ्चवायून् अधिष्ठाय वर्तमानोऽहं अमृतं अमरणहेतुमन्नं जुहोमि । क्क? ब्रह्मणि परमात्मनि मे मम अमृतत्वाय आत्मा परमात्मरूपोऽहम् ॥
३० याञ् जनाः ...{Loading}...
यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली
स्वाहा॑ ।
३० याञ् जनाः ...{Loading}...
मूलम्
यां जनाः॑ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली स्वाहा॑ ।
हरदत्तः
अथाष्टकामन्त्राः । तत्र सप्तम्यां रात्रावपूपहोमः - यां जना इति ॥ यां रात्रिं जनाः प्रतिनन्दन्ति पूजयन्ति पूअपाहुत्या धेनुमिव आयतीं यथा दोहार्थं आगच्छन्तीं धेनुं प्रतिनन्दन्ति तद्वत् । किञ्च-संवत्सरस्य या पत्नी एकाष्टका नाम एषा वै संवत्सरस्य पत्नी यदेकाष्टका इत्यष्टकास्तुतिः । सप्तम्यास्तु तत्सामीप्यादेव स्तुतिः । सा रात्रिः नः अस्माकं सुमङ्गली शोभनमङ्गळा अस्तु ।
३१ वह वपाम् ...{Loading}...
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रै॒नान् वे॑त्थ॒ निहि॑तान् परा॒के+++(=दूरे)+++ ।
मेद॑सः॒ कूल्या॒+++(=नद्या)+++ उप॒ तान् क्ष॑रन्तु
स॒त्या ए॑षाम् आ॒शिष॑स् सन्तु॒ कामै॒स्
स्वाहा॑ ।
३१ वह वपाम् ...{Loading}...
मूलम्
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॒नान् वे॑त्थ॒ निहि॑तान्परा॒के ।
मेद॑सः॒ कूल्या॒ उप॒ तान्क्ष॑रन्तु स॒त्या ए॑षामा॒शिष॑स्सन्तु॒ कामै॒स्स्वाहा॑ ।
हरदत्तः
श्वोभूते वपाहोममन्त्रः - वह वपामिति ॥ हे जातवेदः पितृभ्यो वपां वह वपां वह वपां पितॄन्प्रापय । यत्र निहितान् स्थितान् एनान् पितॄन् वेत्थ वेत्सि - पराके दूरे । त्वया च वपायां प्राप्यमाणायां तान् पितॄन् मेदसः कूल्याः उपक्षरन्तु कृत्रिमास्सरितः कूल्याः । एषां पितॄणां एता आशिषश्च कामैस्सह सत्यास्सन्तु आशिषः प्रार्थनाः । कामाः तद्विषया काम्यन्त इति कृत्वा ॥
३२ याञ् जनाः ...{Loading}...
यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली॥
३२ याञ् जनाः ...{Loading}...
मूलम्
यां जनाः॑ प्रतिनन्द॒न्तीत्ये॒षा ।
हरदत्तः
मांसौदनमुत्तराभिः - यां जनाः प्रतिनन्दतीत्येषेति ॥ गता ॥
३३ इयमेव सा ...{Loading}...
इ॒यम् +++(उषाः)+++ ए॒व सा या प्र॑थ॒मा व्यौच्छ॑द्+++(←उछीँ विवासे)+++
अ॒न्तर् अ॒स्याञ् +++(पृथिव्यां)+++ च॑रति॒ +++(आदित्यम्)+++ प्रवि॑ष्टा ।
व॒धूर् ज॑जान नव॒-गज्+++(गा)+++ जनि॑त्री॒
त्रय॑+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महि॒मान॑स् सचन्ते+++(=भजन्ते)+++ ॥
३३ इयमेव सा ...{Loading}...
मूलम्
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्याञ्च॑रति॒ प्रवि॑ष्टा ।
व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनाम्महि॒मान॑स्सचन्ते ॥
हरदत्तः
इयमेवेति ॥ इयमेवैकाष्टका सा या उषाः प्रथमा आदित्यात्पूर्वं व्यौच्छत् व्युष्टा व्युच्छ्य च आदित्यं प्रविष्टा अन्तरस्यां पृथिव्यां रश्मिरूपेण चरति । या च वधूः जजान जायते भवति नवगत् या नवं एति गच्छति सा नवगत् जनित्री जनयित्री पुत्राणाम् । यां च एनां महिमानः महान्तः त्रयः अग्निरेकः अश्विनौ द्वौ सचन्ते भजन्ते एते वपादेवाः । प्रातर्यावाणो यदग्निरुषा अश्विनौ इति बह्वृच ब्राह्मणम् । एवम्भूता या उषाः सेयमेवैकाष्टकेत्यर्थः ॥
३४ छन्दस्वती उषसा ...{Loading}...
छन्द॑स्वती उ॒षसा॒+++(सौ)+++ पेपि॑शाने+++(=दीप्यमाने)+++
समा॒नय्ँ योनि॒म् +++(आदित्यं)+++ अनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्र-जान॒ती
के॒तुङ् कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा+++(सौ)+++ ॥
३४ छन्दस्वती उषसा ...{Loading}...
मूलम्
छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नय्ँयोनि॒मनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्रजान॒ती के॒तुङ्कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ॥
हरदत्तः
मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ तयोरुत्तरा - छन्दस्वती इति ॥ छन्दस्वती छन्दोभिः तद्वत्यौ छन्दोभिर्ह्येते स्तूयेते उषसा उषसौ पेपिशाने दीप्यमाने समानां एकं योनिं आदित्यं अनुसञ्चरन्ती अनुसञ्चरन्त्यौ दिवा अनुप्रविशन्त्यौ सूर्यपत्नी सूर्यः पतिः पालयिता ययोस्ते सूर्यपत्यौ विचरतः विविधं चरतः प्रजानती प्रजानत्यौ केतुं कृण्वाने सर्वस्य लोकस्य प्रज्ञानं कुर्वन्त्यौ सर्व एव प्राणिनः उषस्या गतायां प्रबुध्यन्ते । अजरे जरारहिते भूरिरेतसा । द्विवचनस्याकारः । भूरिरेतसौ प्रभूतनीहारोदके ये एवम्भूते उषसौ । ते अपि इयमेवेत्यनुवत्ये योज्यम् ॥
३५ ऋतस्य पन्थामनु ...{Loading}...
ऋ॒तस्य॒ पन्था॒म् अनु॑ +++(कार्यभेदात्)+++ ति॒स्र आगु॒स्
त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा ऽगुः॑ ।
प्र॒जाम् एका॒ रक्ष॒त्य्, ऊर्ज॒म् एका॑
व्र॒तम् एका॑ रक्षति देवयू॒+++(=याजका)+++नाम् ॥
३५ ऋतस्य पन्थामनु ...{Loading}...
मूलम्
ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षागुः॑ ।
प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका॑ व्र॒तमेका॑ रक्षति देवयू॒नाम् ॥
हरदत्तः
ऋतस्य पन्थामिति । ऋतस्य यज्ञस्य पन्थां मार्गं तिस्रः उषसः । कार्यभेदात्त्रित्वम् एका सती बहुधोषो व्युच्छसि इति भविष्यति । अन्वागु अन्वायन्ति । त्रयश्च धर्मासः । धृ क्षरणदीप्त्योः । दीप्ता अग्नय एता उषसः ज्योतिषा अन्वागुः अनुयन्ति । कार्यभेदं दर्शयति - तासां मध्ये एका देवयूनां देवयवो यजमानाः देवान्यष्टुमिच्छन्तीति तेषां प्रजां रक्षति । एका तु तेषामेव ऊर्जं बलं रक्षति । एका च तेषामेव व्रतं कर्म सन्ध्यावन्दनाग्निहोत्रादि रक्षति । एता अपि तिस्र इयमेवेति योज्यम् ॥
३६ एकाष्टकाम् पश्यत ...{Loading}...
ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒म्
अन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑त् स्व॒धाव॑त् ।
तद् ब्रा॑ह्म॒णैर् अ॑तिपू॒तम् अ॑न॒न्तम् अ॑क्ष॒य्यम्
अ॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒
स्वाहा॑ ।
३६ एकाष्टकाम् पश्यत ...{Loading}...
मूलम्
ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒मन्नं॑ मा॒ꣳ॒सव॑द्घृ॒तव॑त्स्व॒धाव॑त् ।
तद्ब्रा॑ह्म॒णैर॑तिपू॒तम॑न॒न्तम॑क्ष॒य्यम॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा॑ ।
हरदत्तः
एकाष्टकामिति । हे ब्राह्मणा । इमां एकाष्टकां पश्यत कीदृशीं? पितृभ्योऽन्नं दोहमानाम् । कीदृशमन्नं? मांसवत् घृतवत् स्वधावच्च पितॄणामेव यद्योग्यं मांसादि तेन तद्वत्, तत् अन्नं ब्राह्मणै रतिपूतं अतीव शोधितं अनन्तं अक्षय्यं क्षपयितुमशक्यं अमुष्मिन् लोके मे मम पितृभ्यः स्फीतिं वृद्धिं गच्छत् ॥
३७ औलूखला ग्रावाणो ...{Loading}...
औ॒लू॒ख॒ला+++(=उलूखलाः)+++ ग्रावा॑णो॒ घोष॑म् अक्रत
ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
३७ औलूखला ग्रावाणो ...{Loading}...
मूलम्
औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्रत ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
हरदत्तः
औलूखला इति ॥ स्वार्थिकः तद्धितः उलूखलाः ग्रावाणश्च पेषण्याद्याः घोषप्रक्रत शब्दं कुर्वन्ति हविः कृण्वन्तः अवघातपेष गादि द्वारेण हविः कुर्वन्तः परिवत्सरीणं वत्सरेवत्सरे भवम् । हे एकाष्टके । सुपजाः वचनव्यत्ययः । सुप्रजसः वीरवन्तः वीरैश्शूरैश्च तद्वन्तो भूत्वा वयं रयीणां पतयः स्याम त्वत्प्रसादात् ॥
३८ एकाष्टका तपसा ...{Loading}...
ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना
संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।+++(४)+++
तं दोह॒म् उप॑जीवाथ+++(=उपजीवत)+++ पि॒तर॑स्
स॒हस्र॑-धारम् अ॒मुष्मि॑ल्ँ लो॒के
स्वाहा॑ ॥ (20)
३८ एकाष्टका तपसा ...{Loading}...
मूलम्
ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।
तं दोह॒मुप॑जीवाथ पि॒तर॑स्स॒हस्र॑धारम॒मुष्मि॑ल्ँ लो॒के स्वाहा॑ ॥ (२०)
हरदत्तः
एकाष्टकेति ॥ इयमेकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी पाळयित्री दुदुहे दुग्धे प्रपीना प्रवृद्धा । तं दोहं हे पितरः यूयं उपजीवाथ उपजीवत सहस्रधारममुष्मिन् लोके परलोके ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने विंशः खण्डः