०१ यन्मे माता …{Loading}…
य᳓न् मे माता᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पिता᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।+++(र५)+++
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
मूलम्
यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम् (म्)आ॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
मासिश्राद्धे होममन्त्राः-यन्मे मातेति ॥ यत् रेतोऽन्यदीयं मे मा माता भर्तुः अननुव्रता अननुकूला चरती चरन्ती प्रलुलोभ प्रकर्षेण इयेष । साध्वीनामपि मानसव्यभिचारसम्भवादेवमुच्यते । तत् रेतः मे पिता वृङ्क्तां आच्छिद्य स्वीकरोतु । मानसव्यभिचारनिमित्तं रेतसि साङ्कर्यं मा भूत् । आभवतीति आभुः । एतावता निमित्तेन मा मां प्रति पितृत्वेन आभवन् अन्यः अवपद्यतां मोघाशो भवतु । यन्मया दीयमानं हविः तन्न लभतां । अमुष्मै यज्ञशर्मणे मत्पित्रे स्वाहा ॥
०२ यास्तिष्ठन्ति या …{Loading}…
या᳓स् ति᳓ष्ठन्ति, या᳓ धा᳓वन्ति,
या᳓ आर्द्रोघ्नीः᳓+++(=कूलादिघ्नीः)+++ परितस्थु᳓षीः ।
अद्भि᳓र् वि᳓श्वस्य भर्त्री᳓भिर्
अन्त᳓र् अन्यं᳓ पितु᳓र् दधे, +++(र५)+++
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।
मूलम्
यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ॑र्द्रो॒घ्नीः (प॑/)परि॑त॒स्थुषीः॑ ।
अ॒द्भिर्विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
या इति ॥ या आपः तिष्ठन्ति तटाकादिषु याश्च धावन्ति नदीषु याश्च परितस्थुषीः परितस्थुष्यः परितस्तिष्ठन्त्यः आर्द्रोघ्नीः आर्द्रौघ्न्यो भवन्ति कूलादिकमार्द्रप्रदेशं घ्नन्तीत्यर्थः । ताभिः अद्भिः विश्वस्य भर्त्रीभिः पितुरन्यं अस्मिन्कर्मणि भागित्वेनागच्छन्तं अन्तर्दधे व्यवहितं करोमि । शिष्टं गतम् ॥
०३ यन्मे पितामही …{Loading}…
य᳓न् मे पितामही᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
मूलम्
यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तामा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
यन्मे पितामहीत्यादि ॥ पूर्ववत् ॥
०४ अन्तर्दधे पर्वतैरन्तर्मह्या …{Loading}…
अन्त᳓र् दधे प᳓र्वतैर्
अन्त᳓र् म᳓ह्या पृथिव्या᳓ ।
आभि᳓र् दिग्भि᳓र् अनन्ता᳓भिर्
अन्त᳓र् अन्यं᳓ पितामहा᳓द् दधे
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।
मूलम्
अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या ।
आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
अन्तर्दध इति ॥ पर्वतैः मेरुप्रभृतिभिः अन्तर्दधे मह्या महत्या पृथिव्या आभिश्च दिग्भिः प्राच्यादिभिः अनन्ताभिः देशतः कालतश्च अन्तरहिताभिः पितामहादन्यमन्तर्दधे ॥
०५ यन्मे प्रपितामही …{Loading}…
य᳓न् मे प्रपितामही᳓ प्रलुलो᳓भ+++(प्र᳓लुलोभ)+++ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः प्रपितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
मूलम्
यन्मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तामा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
यन्मे प्रपितामहीत्यादि ॥ पूर्ववत् ॥
०६ अन्तर्दध ऋतुभिरहोरात्रैश्च …{Loading}…
अन्त᳓र्दध ऋतु᳓भिर्
अहोरात्रै᳓श् च +++(काल)+++सन्धि᳓भिः ।
अर्धमासै᳓श् च मा᳓सैश् च+
अन्त᳓र् अन्यं᳓ प्रपितामहा᳓द् दधे
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।
मूलम्
अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैश्च॑ स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश्च॒ मासै॑श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
अन्तर्दध इति ॥ ऋत्वादयः प्रसिद्धाः । सन्धयस्तेषामेव ऋत्वादीनाम् । तैः प्रपितामहादन्यमन्तर्दधे ॥
०७ ये चेह …{Loading}…
ये᳓ चेह᳓ पित᳓रो ये᳓ च ने᳓ह
याँ᳓श् च विद्म᳓ याँ᳓ उ च न᳓ प्र विद्म᳓ ।
अ᳓ग्ने ता᳓न् वे᳓त्थ
य᳓दि ते᳓ जातवेदस् त᳓या+++(→स्वधया)+++ प्रत्तँ᳓+++(→प्रत्तया = प्रदत्तया)+++ स्वध᳓या मदन्तु
स्वा᳓हा ।
मूलम्
ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वे॑त्थ॒ यदि॒ ते जा॑तवेद॒स्तया॑ प्र॒त्तँ स्व॒धया॑ मदन्तु॒ स्वाहा॑ ।
हरदत्तः
यइति ॥ ये च पितरः इह लोके तिष्ठन्ति ये च नेह तिष्ठन्ति यांश्च वयं विद्म जानीमः । यान् उ च । उकारोऽनर्थकः । न प्रविद्म । हे अग्ने । जातवेदः यदि त्वं तान् वेत्थ जानासि तेभ्यो यथार्हं त्वमेव प्रतिपादय । ते च तया प्रत्तम् । लिङ्गविभक्तिव्यत्ययः । प्रत्तया स्वधया मदन्तु तृप्यन्तु ॥
०८ स्वाहा पित्रे …{Loading}…
स्वा᳓हा पित्रे᳓
०९ पित्रे स्वाहा …{Loading}…
पित्रे᳓ स्वा᳓हा
१० स्वाहा पित्रे …{Loading}…
स्वा᳓हा पित्रे᳓
११ पित्रे स्वाहा …{Loading}…
पित्रे᳓ स्वा᳓हा ।
१२ स्वधा स्वाहा …{Loading}…
स्वधा᳓ स्वा᳓हा
१३ अग्नये कव्यवाहनाय स्वधा स्वाहा …{Loading}…
अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।
मूलम्
स्वाहा॑ पि॒त्रे
हरदत्तः
स्वाहा पित्रे इत्यादयो निगदसिद्धाः ।
मूलम्
पि॒त्रे स्वाहा॑
मूलम्
स्वाहा॑ पि॒त्रे
मूलम्
पि॒त्रे स्वाहा॑ ।
मूलम्
स्व॒धा स्वाहा॒
मूलम्
ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
हरदत्तः
कव्यवाहनः पितृणामग्निः ॥
१६ एष ते …{Loading}…
एष᳓ ते तत +++(स्वधासमुद्रः)+++
म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् अग्नि᳓श् च पृथिवी᳓ च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽग्नि᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पित्रे᳓ ऽक्षितो᳓ ऽनुपदस्तः स्वधा᳓ भव
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, +र्च᳓स् ते महिमा᳓।
एष᳓ ते पितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् वायु᳓श् चान्त᳓रिक्षञ् च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था वायु᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पितामहा᳓या᳓क्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, सा᳓मानि ते महिमा᳓।
एष᳓ ते प्रपितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् आदित्य᳓श् च द्यौ᳓श् च
ता᳓वत्यस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽऽदित्यो᳓ ऽक्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं प्रपितामहा᳓या᳓ऽक्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, य᳓जूँषि ते महिमा᳓ ॥ (19)
मूलम्
ए॒ष ते॑ तत॒ मधु॑माँ ऊ॒र्मिस् सर॑स्वा॒न्
यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीन् त ए॒तां मात्रा॑न् ददामि॒
यथा॒ऽग्निरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रे ऽक्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒तां
त्वँ स्व॒धां तैस्स॒होप॑जीव॒र्चस्ते॑ महिमा
ए॒ष ते॑ प्रपितामह॒ मधु॑माँ ऊ॒र्मिस्सर॑स्वा॒न्यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीन्त ए॒तां मात्रा॑न्ददामि॒
यथा॑ वा॒युरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒तां
त्वँ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमा
ए॒ष ते॑ प्रपितामह॒ मधु॑माँ ऊ॒र्मिस्सर॑स्वा॒न्यावा॑न्
आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा
ताव॑तीन्त ए॒तां मात्रा॑न्ददामि॒
यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒तां
त्वँ स्व॒धां तैस्स॒होप॑जीव॒ यजूँ॑षि ते महि॒मा ॥ (१९)
हरदत्तः
सर्वमन्नमुत्तरैरभिमृशेत् - हे तत पितः एष ते ऊर्मिः ऊर्मिमान् मधुमान् मध्वादियुक्तः सरस्वान् स्वधासमुद्रः । मिति मन्तव्यं, यतः - यावानग्निश्च पृथिवी च परिमाणेन तावत्यस्य मात्रा परिमाणं तावतीमेतां मात्रां ते ददामि । अथान्नं प्रत्याह - यथाऽग्निरक्षितः कदाचिदप्यनूनः अनुपदस्त उपक्षयरहितश्च एवं मह्यं पित्रे मम पित्रे अक्षितोऽनुपदस्तश्च स्वधा भव पितॄणामन्नं भव । अथ पितरं प्रत्युच्यते - तां स्वधां तैः अग्न्यादिभिस्सह त्वं उपजीव हे पितः यद्यपि अग्निः पृथीवी चेति द्वावेव प्रकृतौ तथाऽपि तैरिति बहुवचननिर्देशात् आद्यर्थावगतिः । ऋचस्ते महिमा सर्ववेदस्थाः सर्वा ऋचः तव महत्त्वम् । एतेनोत्तरौ मन्त्रौ व्याख्यातौ ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने एकोनविशः खण्डः