०१ यन्मे माता ...{Loading}...
यन् मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।+++(र५)+++
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०१ यन्मे माता ...{Loading}...
मूलम्
यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्तामा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
मासिश्राद्धे होममन्त्राः-यन्मे मातेति ॥ यत् रेतोऽन्यदीयं मे मा माता भर्तुः अननुव्रता अननुकूला चरती चरन्ती प्रलुलोभ प्रकर्षेण इयेष । साध्वीनामपि मानसव्यभिचारसम्भवादेवमुच्यते । तत् रेतः मे पिता वृङ्क्तां आच्छिद्य स्वीकरोतु । मानसव्यभिचारनिमित्तं रेतसि साङ्कर्यं मा भूत् । आभवतीति आभुः । एतावता निमित्तेन मा मां प्रति पितृत्वेन आभवन् अन्यः अवपद्यतां मोघाशो भवतु । यन्मया दीयमानं हविः तन्न लभतां । अमुष्मै यज्ञशर्मणे मत्पित्रे स्वाहा ॥
०२ यास्तिष्ठन्ति या ...{Loading}...
यास् तिष्ठ॑न्ति॒, या धाव॑न्ति॒,
या आ॑॑र्द्रो॒घ्नीः+++(=कूलादिघ्नीः)+++ परि॑त॒स्थुषीः॑॑ ।
अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र्
अ॒न्तर् अ॒न्यं पि॒तुर् द॑धे॒, +++(र५)+++
ऽमुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑ ।
०२ यास्तिष्ठन्ति या ...{Loading}...
मूलम्
यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ॑र्द्रो॒घ्नीः परि॑त॒स्थुषीः॑ ।
अ॒द्भिर्विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
या इति ॥ या आपः तिष्ठन्ति तटाकादिषु याश्च धावन्ति नदीषु याश्च परितस्थुषीः परितस्थुष्यः परितस्तिष्ठन्त्यः आर्द्रोघ्नीः आर्द्रौघ्न्यो भवन्ति कूलादिकमार्द्रप्रदेशं घ्नन्तीत्यर्थः । ताभिः अद्भिः विश्वस्य भर्त्रीभिः पितुरन्यं अस्मिन्कर्मणि भागित्वेनागच्छन्तं अन्तर्दधे व्यवहितं करोमि । शिष्टं गतम् ॥
०३ यन्मे पितामही ...{Loading}...
यन् मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०३ यन्मे पितामही ...{Loading}...
मूलम्
यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तामा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
यन्मे पितामहीत्यादि ॥ पूर्ववत् ॥
०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...
अ॒न्तर् द॑धे॒ पर्व॑तैर्
अ॒न्तर् मह्या॑ पृथि॒व्या ।
आ॒भिर् दि॒ग्भिर् अ॑न॒न्ताभि॑र्
अ॒न्तर् अ॒न्यं पि॑ताम॒हाद् द॑धे॒
ऽमुष्मै॒ स्वाहा॑॑ ।
०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...
मूलम्
अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या ।
आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
अन्तर्दध इति ॥ पर्वतैः मेरुप्रभृतिभिः अन्तर्दधे मह्या महत्या पृथिव्या आभिश्च दिग्भिः प्राच्यादिभिः अनन्ताभिः देशतः कालतश्च अन्तरहिताभिः पितामहादन्यमन्तर्दधे ॥
०५ यन्मे प्रपितामही ...{Loading}...
यन् मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०५ यन्मे प्रपितामही ...{Loading}...
मूलम्
यन्मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तामा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ।
हरदत्तः
यन्मे प्रपितामहीत्यादि ॥ पूर्ववत् ॥
०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...
अ॒न्तर्द॑ध ऋ॒तुभि॑र्
अहोरा॒त्रैश् च॑ +++(काल)+++स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश् च॒ मासै॑॑श् च+
अ॒न्तर् अ॒न्यं प्र॑पिताम॒हाद् द॑धे॒
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...
मूलम्
अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैश्च॑ स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश्च॒ मासै॑श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।
हरदत्तः
अन्तर्दध इति ॥ ऋत्वादयः प्रसिद्धाः । सन्धयस्तेषामेव ऋत्वादीनाम् । तैः प्रपितामहादन्यमन्तर्दधे ॥
०७ ये चेह ...{Loading}...
ये चे॒ह पि॒तरो॒ ये च॒ नेह॒
याँश् च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वेत्थ॒ यदि॒
ते जा॑तवेद॒स् तया॑॑ प्र॒त्तँ+++(→प्रत्तया = प्रदत्तया)+++ स्व॒धया॑ मदन्तु॒
स्वाहा॑॑ ।
०७ ये चेह ...{Loading}...
मूलम्
ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याꣳश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वे॑त्थ॒ यदि॒ ते जा॑तवेद॒स्तया॑ प्र॒त्त२ꣳ स्व॒धया॑ मदन्तु॒ स्वाहा॑ ।
हरदत्तः
यइति ॥ ये च पितरः इह लोके तिष्ठन्ति ये च नेह तिष्ठन्ति यांश्च वयं विद्म जानीमः । यान् उ च । उकारोऽनर्थकः । न प्रविद्म । हे अग्ने । जातवेदः यदि त्वं तान् वेत्थ जानासि तेभ्यो यथार्हं त्वमेव प्रतिपादय । ते च तया प्रत्तम् । लिङ्गविभक्तिव्यत्ययः । प्रत्तया स्वधया मदन्तु तृप्यन्तु ॥
०८-१३ स्वाहा पित्रे ...{Loading}...
-
स्वाहा॑ पि॒त्रे
-
पि॒त्रे स्वाहा॒
-
स्वाहा॑ पि॒त्रे
-
पि॒त्रे स्वाहा॑॑ ।
-
स्व॒धा स्वाहा॒
-
अग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑॑ ।
०८-१३ स्वाहा पित्रे ...{Loading}...
मूलम्
स्वाहा॑ पि॒त्रे पि॒त्रे स्वाहा॒ स्वाहा॑ पि॒त्रे पि॒त्रे स्वाहा॑ ।
स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
हरदत्तः
स्वाहा पित्रे इत्यादयो निगदसिद्धाः । कव्यवाहनः पितृणामग्निः ॥
१६ एष ते ...{Loading}...
ए॒ष ते॑ तत॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् अ॒ग्निश् च॑ पृथि॒वी च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॒ ऽग्निर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पि॒त्रे ऽक्षि॒तो ऽनु॑पदस्तः स्व॒धा भ॑व॒
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, +र्चस् ते॑ महिमा।
ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् वा॒युश् चा॒न्तरि॑क्षञ् च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ वा॒युर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, सामा॑नि ते महिमा।
ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ ऽऽदि॒त्यो ऽक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, यजूꣳ॑षि ते महि॒मा ॥ (19)
१६ एष ते ...{Loading}...
मूलम्
ए॒ष ते॑ तत॒ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्
यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीन् त ए॒तां मात्रा॑न् ददामि॒
यथा॒ऽग्निरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रे ऽक्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒तां
त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒र्चस्ते॑ महिमा
ए॒ष ते॑॑ प्रपितामह॒ मधु॑माँ ऊ॒र्मिस्सर॑स्वा॒न्यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीन्त ए॒तां मात्रा॑॑न्ददामि॒
यथा॑ वा॒युरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒तां
त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमा
ए॒ष ते॑ प्रपितामह॒ मधु॑माꣳ ऊ॒र्मिस्सर॑स्वा॒न्यावा॑न्
आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा
ताव॑तीन्त ए॒तां मात्रा॑न्ददामि॒
यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒तां
त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ यजूꣳ॑षि ते महि॒मा ॥ (१९)
हरदत्तः
सर्वमन्नमुत्तरैरभिमृशेत् - हे तत पितः एष ते ऊर्मिः ऊर्मिमान् मधुमान् मध्वादियुक्तः सरस्वान् स्वधासमुद्रः । मिति मन्तव्यं, यतः - यावानग्निश्च पृथिवी च परिमाणेन तावत्यस्य मात्रा परिमाणं तावतीमेतां मात्रां ते ददामि । अथान्नं प्रत्याह - यथाऽग्निरक्षितः कदाचिदप्यनूनः अनुपदस्त उपक्षयरहितश्च एवं मह्यं पित्रे मम पित्रे अक्षितोऽनुपदस्तश्च स्वधा भव पितॄणामन्नं भव । अथ पितरं प्रत्युच्यते - तां स्वधां तैः अग्न्यादिभिस्सह त्वं उपजीव हे पितः यद्यपि अग्निः पृथीवी चेति द्वावेव प्रकृतौ तथाऽपि तैरिति बहुवचननिर्देशात् आद्यर्थावगतिः । ऋचस्ते महिमा सर्ववेदस्थाः सर्वा ऋचः तव महत्त्वम् । एतेनोत्तरौ मन्त्रौ व्याख्यातौ ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने एकोनविशः खण्डः