2 18

०१ परमेष्ठ्यसि परमाम् ...{Loading}...

+++(अगारस्तूपे स्थितः)+++ प॒र॒मे॒ष्ठ्य् असि॑।
पर॒मां माँ॒ श्रियं॑ गमय ।

०१ परमेष्ठ्यसि परमाम् ...{Loading}...

मूलम्

प॒र॒मे॒ष्ठ्यसि॑ पर॒मां माँ॒ श्रियं॑ गमय ।

हरदत्तः

आग्रयणे हुतशेषं पिण्डीकृत्योत्तरेण यजुषाऽगारस्तूपे उद्विद्वेत् परमेष्ट्यसीति ॥ हे ओदनपिण्ड परमेष्ठ्यसि इदानीं परमे स्थाने स्थितोऽसि मां च परमां श्रियं गमय ॥

०२ प्रत्यवरूढो नो ...{Loading}...

प्र॒त्यव॑रूढो नो हेम॒न्तः ।

०२ प्रत्यवरूढो नो ...{Loading}...

मूलम्

प्र॒त्यव॑रूढो नो हेम॒न्तः ।

हरदत्तः

हेमन्तप्रत्यवरोहणम् - प्रत्यवरूढ इति ॥ नः अस्माभिः हेमन्तः ऋतु प्रत्यवरूढः नवस्वस्तरे संवेष्टुं हेमन्तमृतुं प्रति खटायाः वरोहाम इत्युक्तं भवति ॥

०३ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...

प्र᳓ति क्षत्रे᳓, प्र᳓तितिष्ठामि राष्ट्रे᳓ ।

०४ प्रत्यश्वेषु प्रतितिष्ठामि ...{Loading}...

प्र᳓त्य् अ᳓श्वेषु, प्र᳓तितिष्ठामि गो᳓षु ।

०५ प्रतिप्रजायां प्रतितिष्ठामि ...{Loading}...

प्र᳓ति प्रजा᳓यां, प्र᳓तितिष्ठामि भ᳓व्ये+++(=मङ्गले)+++ ।

०६ इह धृतिरिह विधृतिः ...{Loading}...

इह᳓ +++(स्वस्तरे)+++ धृ᳓तिर्, इह᳓ वि᳓धृतिः ।

०७ इह रन्तिरिह रमतिः ...{Loading}...

इह᳓ र᳓न्तिर्, इह᳓ र᳓मतिः ।

०३ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...

मूलम्

प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।

हरदत्तः

संवेशनमन्त्राः - प्रतिक्षत्र इति ॥ नवस्वस्तरे संविशन् अहं क्षत्रादिष्वेव प्रति तिष्ठामीत्यर्थः ।

०४ प्रत्यश्वेषु प्रतितिष्ठामि ...{Loading}...

मूलम्

प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।

०५ प्रतिप्रजायां प्रतितिष्ठामि ...{Loading}...

मूलम्

प्रति॑प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये॑ ।

हरदत्तः

भव्यं मङ्गलम् ।

०६ इह धृतिरिह विधृतिः ...{Loading}...

मूलम्

इ॒ह धृति॑रि॒ह विधृ॑तिः ।

हरदत्तः

इह स्वस्तरे धृतिः प्रीतिः विधृतिः स्वधैर्ये रन्ति रतिः रमतिः पुत्रादिभिः क्रीडनम् ॥

०७ इह रन्तिरिह रमतिः ...{Loading}...

मूलम्

इ॒ह रन्ति॑रि॒ह रम॑तिः ।

०८ स्योना पृथिवि ...{Loading}...

१५ स्योना पृथिवि ...{Loading}...

स्योना᳓+++(=सुखरूपा)+++ पृथिवि भव+
अनृक्षरा᳓+++(=कण्टकादिरहिता)+++ निवे᳓शनी ।
य᳓च्छा नश् श᳓र्म सप्र᳓थाः+++(=सकीर्तिः)+++ ।

०८ स्योना पृथिवि ...{Loading}...

मूलम्

स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒श्शर्म॑ स॒प्रथाः॑ ।

विश्वास-टिप्पनी

भव॑ इत्य् उदात्तो दोषाय। शाकले तन् नास्ति।

हरदत्तः

उत्तराभ्यां पृथिवीमभिमृशति - स्योना पृथिवीति ॥ गता ॥

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

मूलम्

बडि॒त्था पर्व॑तानाङ्खि॒द्रम्बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ म॒हि॒नि॒ ।

हरदत्तः

बडित्थेति ॥ बट् सत्यं इत्था इत्थं अनेन वक्ष्यमाणप्रकारेण पर्वतानां मेघानां खिद्रं छिद्रं छेदनं विभर्षि धारयसि करोषि हे पृथिवि । हे भूमि प्रवत्वति । प्रवणवति या त्वं मह्ना स्वेन महिम्ना प्रजिनोषि तर्पयसि । कान्? देवान् । हे महिनि । महति । ओषधीभिः पशुभिश्च देवा इज्यन्ते तेन च पार्थिवाः तैः च तृप्ता देवाः प्रवर्षणार्थं मेघान्भिन्दन्ति एतेन प्रकारेण पर्वतानां खिद्रं विभर्षीति ॥

१० आ त्वा ...{Loading}...

आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।

१० आ त्वा ...{Loading}...

मूलम्

आ त्वा॑ वहन्तु॒ हर॑य॒स्सचे॑तसश्श्वे॒तैरश्वै॑स्स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्मम॑ ह॒व्याय॑ शर्व ।

हरदत्तः

अथेशानबलिः । ईशानमावाहयति - आ त्वेति ॥ हरयो हरितवर्णाः अश्वाः त्वा त्वां आवहन्तु सचेतसः अभिप्रायज्ञाः श्वेतैः अश्वैः सह केतुमद्धिः केतुर्ध्वजः तद्युक्तैः वाताजिरैः । अज गति क्षेपणयोः । वातगतिभिः आयाहि । किमर्थं? मम हव्याय मदीयस्य हविष उपभोगाय । हे शर्व ॥

११ उपस्पृशतु मीढ्वान् मीढुषे ...{Loading}...

उ᳓पस्पृशतु मीढ्वा᳓न्, मीढु᳓षे स्वा᳓हा।

१२ उपस्पृशतु मीढुषी मीढुष्यै ...{Loading}...

उ᳓पस्पृशतु मीढु᳓षी मीढु᳓ष्यै स्वा᳓हा ।

१३ जयन्त उपस्पृश जयन्ताय ...{Loading}...

जयन्त᳓ +उपस्पृश जयन्ता᳓य+++(=स्कन्दाय)+++ स्वा᳓हा ।

१४ भवाय देवाय स्वाहा ...{Loading}...

+++(हवनम्)+++
भवा᳓य देवा᳓य स्वा᳓हा।

१५ शर्वाय देवाय स्वाहा ...{Loading}...

शर्वा᳓य देवा᳓य स्वा᳓हा।

१६ ईशानाय देवाय स्वाहा ...{Loading}...

ई᳓शानाय देवा᳓य स्वा᳓हा।

१७ पशुपतये देवाय स्वाहा ...{Loading}...

पशुप᳓तये देवा᳓य स्वा᳓हा।

१८ रुद्राय देवाय स्वाहा ...{Loading}...

रुद्रा᳓य+++(=रोदयित्रे)+++ देवा᳓य स्वा᳓हा।

१९ उग्राय देवाय स्वाहा ...{Loading}...

उग्रा᳓य देवा᳓य स्वा᳓हा।

२० भीमाय देवाय स्वाहा ...{Loading}...

भीमा᳓य देवा᳓य स्वा᳓हा।

२१ महते देवाय स्वाहा ...{Loading}...

महते᳓ देवा᳓य स्वा᳓हा ।

२२ भवस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

भव᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२३ शर्वस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

शर्व᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२४ ईशानस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

ई᳓शानस्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२५ पशुपतेर्देवस्य पत्न्यै स्वाहा ...{Loading}...

पशुप᳓तेर् देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२६ रुद्रस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

रुद्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२७ उग्रस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

उग्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२८ भीमस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

भीम᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

२९ महतो देवस्य पत्न्यै स्वाहा ...{Loading}...

महतो᳓ देव᳓स्य प᳓त्न्यै स्वा᳓हा ।

३० जयन्ताय स्वाहा ...{Loading}...

जयन्ता᳓य स्वा᳓हा ।

११ उपस्पृशतु मीढ्वान् मीढुषे ...{Loading}...

मूलम्

उप॑स्पृशतु मी॒ढ्वान्मी॒ढुषे॒ स्वाहा॑ ।

हरदत्तः

ओदनमुपस्पर्शयति-उपस्पृशत्विति ॥ उपस्पृशतु स्वीकरोतु मीढ्वान् मध्यमस्थानो रुद्रो वर्षिता इति नैरुक्ताः । जगदुपादाने स्ववीर्यस्य सेक्तेति पौराणिकाः । तस्मै मीढुषे ।

१२ उपस्पृशतु मीढुषी मीढुष्यै ...{Loading}...

मूलम्

उप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।

हरदत्तः

मीढुषी मध्यमस्थाना वाक् रुद्रस्य पत्नीति नैरुक्ताः । जगत्प्रतिकृतिरूपेति पौराणिकाः । तस्यै मीढुष्यै ।

१३ जयन्त उपस्पृश जयन्ताय ...{Loading}...

मूलम्

ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ ।

हरदत्तः

जयन्तः स्कन्दः तस्मै ।

१४ भवाय देवाय स्वाहा ...{Loading}...

मूलम्

भ॒वाय॑ दे॒वाय॒ स्वाहा॑

हरदत्तः

भवा दयोऽष्टौ भगवतो मूर्तयः । ताश्च- आपो भूर्मातरिश्वाऽग्निस्सूर्थो दीक्षित एव च । आकाशश्चन्द्र इत्येषामधिष्ठात्रयश्च तास्स्मृताः ॥ इत्येषा पुराणप्रकिया । अथवा - भावयतीति भवः । अन्तर्भावि तण्यर्थः । समस्तस्य जगतः कर्ता ।

१५ शर्वाय देवाय स्वाहा ...{Loading}...

मूलम्

श॒र्वाय॑ दे॒वाय॒ स्वाहा॑

हरदत्तः

शर्वः संहर्ता । शॄ हिंसायाम् ।

१६ ईशानाय देवाय स्वाहा ...{Loading}...

मूलम्

ईशा॑नाय दे॒वाय॒ स्वाहा॑

हरदत्तः

ईशानाः ईश्वरस्सर्वस्य ।

१७ पशुपतये देवाय स्वाहा ...{Loading}...

मूलम्

पशु॒पत॑ये दे॒वाय॒ स्वाहा॑

हरदत्तः

पशुपतिः पशवो द्विपादश्च चतुष्पादश्च तेषां पाता ।

१८ रुद्राय देवाय स्वाहा ...{Loading}...

मूलम्

रु॒द्राय॑ दे॒वाय॒ स्वाहा॑

हरदत्तः

रुद्रो रोदयिता संहारकाले ।

१९ उग्राय देवाय स्वाहा ...{Loading}...

मूलम्

उ॒ग्राय॑ दे॒वाय॒ स्वाहा॑

हरदत्तः

उग्रः अनभिभवनीयः उग्रं हास्य राष्ट्रमव्यथ्यं भवति । इति दर्शनात् ।

२० भीमाय देवाय स्वाहा ...{Loading}...

मूलम्

भी॒माय॑ दे॒वाय॒ स्वाहा॑

हरदत्तः

बिभ्यत्यस्मात्सर्वाणि भूतानीति भीमः ।

२१ महते देवाय स्वाहा ...{Loading}...

मूलम्

मह॒ते दे॒वाय॒ स्वाहा॑

हरदत्तः

महान् सर्वेभ्यः ।

२२ भवस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

हरदत्तः

भवस्य देवस्य इत्यादयोऽप्यनेनैव न्यायेन गताः ॥

२३ शर्वस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२४ ईशानस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२५ पशुपतेर्देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२६ रुद्रस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२७ उग्रस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२८ भीमस्य देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

२९ महतो देवस्य पत्न्यै स्वाहा ...{Loading}...

मूलम्

मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑

३० जयन्ताय स्वाहा ...{Loading}...

मूलम्

ज॒य॒न्ताय॒ स्वाहा॑ ।

३१ अग्नये स्विष्टकृते ...{Loading}...

अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाँ समर्द्धयि॒त्रे स्वाहा॑ ।

३१ अग्नये स्विष्टकृते ...{Loading}...

मूलम्

अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाँ समर्द्धयि॒त्रे स्वाहा॑ ।

हरदत्तः

स्विष्टकृन्मन्त्रः - अग्नय इति ॥ स्विष्टकृते रुद्रोऽग्निस्विष्टकृत् । सुहुतं जुहोति करोतीति सुहुतहुत् तस्मै आहुतीनां कामानां च समर्धयित्रे संवर्धयित्रे प्रापयित्रे वा अग्नये ॥

३२ स्वस्ति नः ...{Loading}...

स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।

३२ स्वस्ति नः ...{Loading}...

मूलम्

स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।

हरदत्तः

उपस्थानम् - स्वस्ति न इति ॥ आहुतिभिः पूर्णामुखो देवः नः यथाऽस्माकं स्वस्ति भवति तथा परिक्रामतु सञ्चरतु ॥

३३ गृहपोपस्पृश गृहपाय ...{Loading}...

(उत्तरस्याम्)
गृहपो᳓पस्पृश। गृहपा᳓य स्वा᳓हा ।

३४ गृहप्युपस्पृश गृहप्यै ...{Loading}...

गृहप्य् उ᳓पस्पृश। गृहप्यै᳓ स्वा᳓हा ।

३५ घोषिण उपस्पृशत ...{Loading}...

(मध्ये ।)
घोषि᳓ण उ᳓पस्पृशत। घोषि᳓भ्यः स्वा᳓हा ।

३६ श्वासिन उपस्पृशत ...{Loading}...

(दक्षिणस्याम् ।)
श्वासि᳓न उ᳓पस्पृशत। श्वासि᳓भ्यः स्वा᳓हा ।

३७ विचिन्वन्त उपस्पृशत ...{Loading}...

(उत्तरस्याम्)
विचिन्व᳓न्त उ᳓पस्पृशत। विचिन्व᳓द्भ्यः स्वा᳓हा ।

३८ प्रपुन्वन्त उपस्पृशत ...{Loading}...

(मध्ये ।)
प्रपुन्व᳓न्त उ᳓पस्पृशत। प्रपुन्व᳓द्भ्यः स्वा᳓हा ।

३९ समश्नन्त उपस्पृशत ...{Loading}...

(दक्षिणस्याम् ।)
समश्न᳓न्त उ᳓पस्पृशत। समश्न᳓द्भ्यः स्वा᳓हा ।

४० देवसेना उपस्पृशत ...{Loading}...

(दश देवसेनाभ्यः दश॥)
देवसेना᳓ उ᳓पस्पृशत। देवसेना᳓भ्यः स्वा᳓हा ।

४१ या आख्याता याश्चानाख्याता ...{Loading}...

या᳓ आ᳓ख्याता या᳓श् चा᳓नाख्याता
देवसेना᳓ उ᳓पस्पृशत।
देवसेना᳓भ्यः स्वा᳓हा ।

३३ गृहपोपस्पृश गृहपाय ...{Loading}...

मूलम्

गृ॒ह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ ।

हरदत्तः

पर्णदानं - गृहपेति ॥ गृहान् पातीति गृहपः देवः नमो रुद्राय वास्तोऽष्पतये इति दर्शनात् । देवस्य वा गृहपो गृहपालः नन्दीश्वरकुमारः । हे गृहप गृहपते उपस्पृश इमं बलिं गृहाण गृहपाय तुभ्यं स्वाहा ददामि ।

३४ गृहप्युपस्पृश गृहप्यै ...{Loading}...

मूलम्

गृ॒ह॒प्युप॑स्पृश गृह॒प्यै स्वाहा॑ ।

हरदत्तः

गृहपी गृहपस्य देवी । हे गृहपि ।

३५ घोषिण उपस्पृशत ...{Loading}...

मूलम्

घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा॑ ।

हरदत्तः

घोषिणो घोषवन्तः

३६ श्वासिन उपस्पृशत ...{Loading}...

मूलम्

श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्यः॒ स्वाहा॑ ।

हरदत्तः

श्वासिनः श्वासवन्तः ।

३७ विचिन्वन्त उपस्पृशत ...{Loading}...

मूलम्

वि॒चि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा॑ ।

हरदत्तः

विचिन्वन्तः विपूर्वश्चिनोतिरन्वेषणार्थः । अन्विष्यन्तः ।

३८ प्रपुन्वन्त उपस्पृशत ...{Loading}...

मूलम्

प्र॒पु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।

हरदत्तः

प्रापुन्वन्तः शोधयन्तः ।

३९ समश्नन्त उपस्पृशत ...{Loading}...

मूलम्

स॒म॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒ स्वाहा॑ ।

हरदत्तः

समश्नन्तः सहाश्नन्तः ।

४० देवसेना उपस्पृशत ...{Loading}...

मूलम्

दे॒व॒से॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॑ ।

हरदत्तः

एते देवस्य सर्वगणाः । हे देवसेनाः उपस्पृशत देवसेनाभ्यो युष्मभ्यं स्वाहा ।

४१ या आख्याता याश्चानाख्याता ...{Loading}...

मूलम्

या आख्या॑ता॒ याश्चाना॑ख्याता देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॑ ।

हरदत्तः

या । आख्याताः अस्मिन्मन्त्रगणे याश्चानाख्याताः ता यूयं देवसेनाः ।

४२ द्वारापस्पृश द्वारापाय ...{Loading}...

द्वारापो᳓पस्पृश। द्वारापा᳓य स्वा᳓हा ।

४३ द्वाराप्युपस्पृश द्वाराप्यै ...{Loading}...

द्वाराप्य् उ᳓पस्पृश द्वाराप्यै᳓ स्वा᳓हा ।

४४ अन्वासारिण उपस्पृशत ...{Loading}...

+++(देव्या)+++ अन्वासारि᳓ण उ᳓पस्पृशत। अन्वासारि᳓भ्यस् स्वा᳓हा +++(→मध्ये द्वे)+++।

४५ निषङ्गिन्नुपस्पृश निषङ्गिणे ...{Loading}...

निषङ्गि᳓न्न् +++(जयन्त!)+++ उ᳓पस्पृश।
निषङ्गि᳓णे स्वा᳓हा +++(→दक्षिणस्यां द्वे)+++।

४२ द्वारापस्पृश द्वारापाय ...{Loading}...

मूलम्

द्वा॒रा॒पोप॑स्पृश द्वारा॒पाय॒ स्वाहा॑ ।

हरदत्तः

द्वारापः देवस्य द्वारपालः

४३ द्वाराप्युपस्पृश द्वाराप्यै ...{Loading}...

मूलम्

द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।

हरदत्तः

द्वारापरी देव्याः द्वारापालिनी ।

४४ अन्वासारिण उपस्पृशत ...{Loading}...

मूलम्

अ॒न्वा॒सा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्य॒स्स्वाहा॑ ।

हरदत्तः

अन्वासारिणोऽपि देव्या एवानुचरा अन्तः पुरेऽधिकृताः

४५ निषङ्गिन्नुपस्पृश निषङ्गिणे ...{Loading}...

मूलम्

नि॒ष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॑ ।

हरदत्तः

हे निषङ्गिन् इषुधिमन् । जयन्तस्येदमामन्त्रणम् ॥

४६ नमो निषङ्गिणे ...{Loading}...

नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++

४६ नमो निषङ्गिणे ...{Loading}...

मूलम्

नमो॑ निष॒ङ्गिणे

हरदत्तः

शिक्यं वृक्षे आसजति- नमो निषङ्गिण इति ॥ इषुधि निषङ्गशब्दौ पर्यायौ इह तु निषङ्ग इति इषुव्यतिरिक्तानां शस्राणामावासस्थानम् । एतावदेव यजु, न तु रुद्रेषु पठितस्य प्रतीक ग्रहणम् । यदि तथैव स्यात् नमो निषङ्गिण इषुधिमत इत्येतत् इति ब्रूयात् । यथा - आशासानेत्येषा तत्सवितुर्वरेण्यमित्येषा इति । अत्र रुद्रान् जपेत् । रुद्रा अन्यत्र व्याख्याताः ॥

४७ क्षेत्रस्य पतिना ...{Loading}...

क्षे᳓त्रस्य प᳓तिना वयँ᳓
हिते᳓नेव जयामसि ।
गा᳓म् अ᳓श्वम् पोषयित्न्व्+++(=पोषयिताता)+++
आ᳓ स᳓ नो मृडा+++(=सुखय)+++तीदृ᳓शे +++(कर्मणि)+++।

४८ क्षेत्रस्य पते मधुमन्तम् ...{Loading}...

क्षे᳓त्रस्य पते म᳓धुमन्तम् +++(गोयूथ-)+++ऊर्मि᳓न् -
धेनु᳓र् इव प᳓यो अस्मा᳓सु धुक्ष्व ।
मधुश्-चु᳓तङ्, घृत᳓म् इव सु᳓पूतम्
ऋत᳓स्य नᳶ प᳓तयो मृडयन्तु+++(=सुखयन्तु)+++ ।

४७ क्षेत्रस्य पतिना ...{Loading}...

मूलम्

क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गामश्व॑म्पोषयि॒त्न्वा स नः॑ मृ॒डा॒ती॒दृशे॑ ।

हरदत्तः

क्षेत्रस्य पतेरुपस्थानमन्त्रौ - क्षेत्रस्येति ॥ क्षेत्रस्य पतिना वयं हितेनेव मित्रादिना जयामसि जेतव्यं जयामः । स च क्षेत्रपतिः नः अस्माकं गामश्वं च पोषयित्नु । लिङ्गव्यत्ययः । पोषयिता आकारस्समुच्चये मृडाति सुखकर्माऽयं मृडयेत् सुखयेत् ईदृशे कर्मणि कृते ।

४८ क्षेत्रस्य पते मधुमन्तम् ...{Loading}...

मूलम्

क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु ।

हरदत्तः

हे क्षेत्रस्य पते मधुमन्तं मधुस्वादेन क्षीरादिना युक्तं ऊर्मि ऊम्यार्कारं गावां समुदायम् । तस्य विशेषणं - मधुश्रुतं घृतमिव सुपूत मिति च । भवति कश्चित् मधुमान् न च मधुश्रुत्, यथा घटादि दृढम् । भवति कश्चित् मधुश्चुत् न च मधुमान्, यथा मधुभाजनस्य छिद्रम् । अतः मधुमन्तं मधुश्रुतमिति द्वयमुपात्तम्, यथा मधुमन्तो मधुश्रुत् मधुमांश्च, तद्वदुभयगुणविशिष्टं घृतमिव सुपूतं वस्रादिना सुष्ठु शोधितं एवंभूतं गवामूर्ध्नि अस्मासु धुक्ष्व क्षर धेनुरिव पयः यथा धेनुः पयो दुग्धे तद्वत् । किञ्च - त्वत्प्रसादात् । ऋतस्य यज्ञस्य पतयः अग्न्यादयः नः अस्मान् मृडयन्तु सुखयन्तु ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने अष्टादशः खण्डः