०१ परमेष्ठ्यसि परमाम् ...{Loading}...
+++(अगारस्तूपे स्थितः)+++ प॒र॒मे॒ष्ठ्य् असि॑।
पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।
०१ परमेष्ठ्यसि परमाम् ...{Loading}...
मूलम्
प॒र॒मे॒ष्ठ्यसि॑ पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।
हरदत्तः
आग्रयणे हुतशेषं पिण्डीकृत्योत्तरेण यजुषाऽगारस्तूपे उद्विद्वेत् परमेष्ट्यसीति ॥ हे ओदनपिण्ड परमेष्ठ्यसि इदानीं परमे स्थाने स्थितोऽसि मां च परमां श्रियं गमय ॥
०२ प्रत्यवरूढो नो ...{Loading}...
प्र॒त्यव॑रूढो नो हेम॒न्तः ।
०२ प्रत्यवरूढो नो ...{Loading}...
मूलम्
प्र॒त्यव॑रूढो नो हेम॒न्तः ।
हरदत्तः
हेमन्तप्रत्यवरोहणम् - प्रत्यवरूढ इति ॥ नः अस्माभिः हेमन्तः ऋतु प्रत्यवरूढः नवस्वस्तरे संवेष्टुं हेमन्तमृतुं प्रति खटायाः वरोहाम इत्युक्तं भवति ॥
०३-०७ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...
प्रति॑ क्ष॒त्रे, प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्य् अश्वे॑षु॒, प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जायां॒, प्रति॑तिष्ठामि॒ भव्ये॑+++(=मङ्गले)+++ ।
इ॒ह +++(स्वस्तरे)+++ धृति॑र्, इ॒ह विधृ॑तिः ।
इ॒ह रन्ति॑र्, इ॒ह रम॑तिः ।
०३-०७ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...
मूलम्
प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये॑ ।
इ॒ह धृति॑रि॒ह विधृ॑तिः ।
इ॒ह रन्ति॑रि॒ह रम॑तिः ।
हरदत्तः
संवेशनमन्त्राः - प्रतिक्षत्र इति ॥ नवस्वस्तरे संविशन् अहं क्षत्रादिष्वेव प्रति तिष्ठामीत्यर्थः । भव्यं मङ्गलम् । इह स्वस्तरे धृतिः प्रीतिः विधृतिः स्वधैर्ये रन्ति रतिः रमतिः पुत्रादिभिः क्रीडनम् ॥
०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...
+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।
०८ स्योना पृथिवि ...{Loading}...
मूलम्
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒श्शर्म॑ स॒प्रथाः॑ ।
हरदत्तः
उत्तराभ्यां पृथिवीमभिमृशति - स्योना पृथिवीति ॥ गता ॥
०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...
बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++
०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...
मूलम्
बडि॒त्था पर्व॑तानाङ्खि॒द्रम्बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ म॒हि॒नि॒ ।
हरदत्तः
बडित्थेति ॥ बट् सत्यं इत्था इत्थं अनेन वक्ष्यमाणप्रकारेण पर्वतानां मेघानां खिद्रं छिद्रं छेदनं विभर्षि धारयसि करोषि हे पृथिवि । हे भूमि प्रवत्वति । प्रवणवति या त्वं मह्ना स्वेन महिम्ना प्रजिनोषि तर्पयसि । कान्? देवान् । हे महिनि । महति । ओषधीभिः पशुभिश्च देवा इज्यन्ते तेन च पार्थिवाः तैः च तृप्ता देवाः प्रवर्षणार्थं मेघान्भिन्दन्ति एतेन प्रकारेण पर्वतानां खिद्रं विभर्षीति ॥
१० आ त्वा ...{Loading}...
आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।
१० आ त्वा ...{Loading}...
मूलम्
आ त्वा॑ वहन्तु॒ हर॑य॒स्सचे॑तसश्श्वे॒तैरश्वै॑स्स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्मम॑ ह॒व्याय॑ शर्व ।
हरदत्तः
अथेशानबलिः । ईशानमावाहयति - आ त्वेति ॥ हरयो हरितवर्णाः अश्वाः त्वा त्वां आवहन्तु सचेतसः अभिप्रायज्ञाः श्वेतैः अश्वैः सह केतुमद्धिः केतुर्ध्वजः तद्युक्तैः वाताजिरैः । अज गति क्षेपणयोः । वातगतिभिः आयाहि । किमर्थं? मम हव्याय मदीयस्य हविष उपभोगाय । हे शर्व ॥
११ -३० उपस्पृशतु मीढ्वान्मीढुषे ...{Loading}...
उप॑स्पृशतु मी॒ढ्वान्, मी॒ढुषे॒ स्वाहा।
उप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।
ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒+++(=स्कन्दाय)+++ स्वाहा॑ ।
हवनम्
भ॒वाय॑ दे॒वाय॒ स्वाहा॑।
श॒र्वाय॑ दे॒वाय॒ स्वाहा।
ईशा॑नाय दे॒वाय॒ स्वाहा॑।
पशु॒पत॑ये दे॒वाय॒ स्वाहा॑।
रु॒द्राय॑+++(=रोदयित्रे)+++ दे॒वाय॒ स्वाहा।
उग्राय॑ दे॒वाय॒ स्वाहा॑।
भी॒माय॑ दे॒वाय॒ स्वाहा॑।
मह॒ते दे॒वाय॒ स्वाहा॑ ।
भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा।
ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ ।
ज॒य॒न्ताय॒ स्वाहा॑ ।
११ -३० उपस्पृशतु मीढ्वान्मीढुषे ...{Loading}...
मूलम्
उप॑स्पृशतु मी॒ढ्वान्मी॒ढुषे॒ स्वाहोप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।
ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ ।
भ॒वाय॑ दे॒वाय॒ स्वाहा॑ श॒र्वाय॑ दे॒वाय॒ स्वाहेशा॑नाय दे॒वाय॒ स्वाहा॑ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ रु॒द्राय॑ दे॒वाय॒ स्वाहो॒ग्राय॑ दे॒वाय॒ स्वाहा॑ भी॒माय॑ दे॒वाय॒ स्वाहा॑ मह॒ते दे॒वाय॒ स्वाहा॑ ।
भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहेशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहो॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ ।
ज॒य॒न्ताय॒ स्वाहा॑ ।
हरदत्तः
ओदनमुपस्पर्शयति-उपस्पृशत्विति ॥ उपस्पृशतु स्वीकरोतु मीढ्वान् मध्यमस्थानो रुद्रो वर्षिता इति नैरुक्ताः । जगदुपादाने स्ववीर्यस्य सेक्तेति पौराणिकाः । तस्मै मीढुषे । मीढुषी मध्यमस्थाना वाक् रुद्रस्य पत्नीति नैरुक्ताः । जगत्प्रतिकृतिरूपेति पौराणिकाः । तस्यै मीढुष्यै । जयन्तः स्कन्दः तस्मै । भवा दयोऽष्टौ भगवतो मूर्तयः । ताश्च- आपो भूर्मातरिश्वाऽग्निस्सूर्थो दीक्षित एव च । आकाशश्चन्द्र इत्येषामधिष्ठात्रयश्च तास्स्मृताः ॥ इत्येषा पुराणप्रकिया । अथवा - भावयतीति भवः । अन्तर्भावि तण्यर्थः । समस्तस्य जगतः कर्ता । शर्वः संहर्ता । शॄ हिंसायाम् । ईशानाः ईश्वरस्सर्वस्य । पशुपतिः पशवो द्विपादश्च चतुष्पादश्च तेषां पाता । रुद्रो रोदयिता संहारकाले । उग्रः अनभिभवनीयः उग्रं हास्य राष्ट्रमव्यथ्यं भवति । इति दर्शनात् । बिभ्यत्यस्मात्सर्वाणि भूतानीति भीमः । महान् सर्वेभ्यः । भवस्य देवस्य इत्यादयोऽप्यनेनैव न्यायेन गताः ॥
३१ अग्नये स्विष्टकृते ...{Loading}...
अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा॑ ।
३१ अग्नये स्विष्टकृते ...{Loading}...
मूलम्
अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा॑ ।
हरदत्तः
स्विष्टकृन्मन्त्रः - अग्नय इति ॥ स्विष्टकृते रुद्रोऽग्निस्विष्टकृत् । सुहुतं जुहोति करोतीति सुहुतहुत् तस्मै आहुतीनां कामानां च समर्धयित्रे संवर्धयित्रे प्रापयित्रे वा अग्नये ॥
३२ स्वस्ति नः ...{Loading}...
स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।
३२ स्वस्ति नः ...{Loading}...
मूलम्
स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।
हरदत्तः
उपस्थानम् - स्वस्ति न इति ॥ आहुतिभिः पूर्णामुखो देवः नः यथाऽस्माकं स्वस्ति भवति तथा परिक्रामतु सञ्चरतु ॥
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
- उत्तरस्याम्
- गृ॒ह॒पोप॑स्पृश। गृह॒पाय॒ स्वाहा॑ ।
- गृ॒ह॒प्युप॑स्पृश। गृह॒प्यै स्वाहा॑ ।
- मध्ये ।
- घो॒षिण॒ उप॑स्पृशत। घो॒षिभ्यः॒ स्वाहा॑ ।
- दक्षिणस्याम् ।
- श्वा॒सिन॒ उप॑स्पृशत। श्वा॒सिभ्यः॒ स्वाहा॑ ।
- उत्तरस्याम्
- वि॒चि॒न्वन्त॒ उप॑स्पृशत। विचि॒न्वद्भ्यः॒ स्वाहा॑ ।
- मध्ये ।
- प्र॒पु॒न्वन्त॒ उप॑स्पृशत। प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।
- दक्षिणस्याम् ।
- स॒म॒श्नन्त॒ उप॑स्पृशत। सम॒श्नद्भ्यः॒ स्वाहा॑ ।
- दश देवसेनाभ्यः दश
- दे॒व॒से॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
- या आख्या॑ता॒ याश् चाना॑ख्याता देवसे॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
मूलम्
गृ॒ह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ ।
गृ॒ह॒प्युप॑स्पृश गृह॒प्यै स्वाहा॑ ।
घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा॑ ।
श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्यः॒ स्वाहा॑ ।
वि॒चि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा॑ ।
प्र॒पु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।
स॒म॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒ स्वाहा॑ ।
दे॒व॒से॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॑ ।
या आख्या॑ता॒ याश्चाना॑ख्याता देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॑ ।
हरदत्तः
पर्णदानं - गृहपेति ॥ गृहान् पातीति गृहपः देवः नमो रुद्राय वास्तोऽष्पतये इति दर्शनात् । देवस्य वा गृहपो गृहपालः नन्दीश्वरकुमारः । हे गृहप गृहपते उपस्पृश इमं बलिं गृहाण गृहपाय तुभ्यं स्वाहा ददामि । गृहपी गृहपस्य देवी । हे गृहपि । घोषिणो घोषवन्तः श्वासिनः श्वासवन्तः । विचिन्वन्तः विपूर्वश्चिनोतिरन्वेषणार्थः । अन्विष्यन्तः । प्रापुन्वन्तः शोधयन्तः । समश्नन्तः सहाश्नन्तः । एते देवस्य सर्वगणाः । हे देवसेनाः उपस्पृशत देवसेनाभ्यो युष्मभ्यं स्वाहा । या । आख्याताः अस्मिन्मन्त्रगणे याश्चानाख्याताः ता यूयं देवसेनाः ।
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
- द्वा॒रा॒पोप॑स्पृश। द्वारा॒पाय॒ स्वाहा॑ ।
- द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।
- +++(देव्या)+++ अ॒न्वा॒सा॒रिण॒ उप॑स्पृशत। अन्वासा॒रिभ्य॒स् स्वाहा॑ +++(→मध्ये द्वे)+++।
- नि॒ष॒ङ्गिन्न् +++(जयन्त!)+++ उप॑स्पृश। निष॒ङ्गिणे॒ स्वाहा॑ +++(→दक्षिणस्यां द्वे)+++।
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
मूलम्
द्वा॒रा॒पोप॑स्पृश द्वारा॒पाय॒ स्वाहा॑ ।
द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।
अ॒न्वा॒सा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्य॒स्स्वाहा॑ ।
नि॒ष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॑ ।
हरदत्तः
द्वारापः देवस्य द्वारपालः द्वारापरी देव्याः द्वारापालिनी । अन्वासारिणोऽपि देव्या एवानुचरा अन्तः पुरेऽधिकृताः हे निषङ्गिन् इषुधिमन् । जयन्तस्येदमामन्त्रणम् ॥
४६ नमो निषङ्गिणे ...{Loading}...
नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++
४६ नमो निषङ्गिणे ...{Loading}...
मूलम्
नमो॑ निष॒ङ्गिणे
हरदत्तः
शिक्यं वृक्षे आसजति- नमो निषङ्गिण इति ॥ इषुधि निषङ्गशब्दौ पर्यायौ इह तु निषङ्ग इति इषुव्यतिरिक्तानां शस्राणामावासस्थानम् । एतावदेव यजु, न तु रुद्रेषु पठितस्य प्रतीक ग्रहणम् । यदि तथैव स्यात् नमो निषङ्गिण इषुधिमत इत्येतत् इति ब्रूयात् । यथा - आशासानेत्येषा तत्सवितुर्वरेण्यमित्येषा इति । अत्र रुद्रान् जपेत् । रुद्रा अन्यत्र व्याख्याताः ॥
४७ -४८ क्षेत्रस्य पतिना ...{Loading}...
क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गाम् अश्व॑म् पोषयि॒त्न्व्+++(=पोषयिताता)+++ आ स नः॑ मृ॒डा॒+++(=सुखय)+++ती॒दृशे॑ +++(कर्मणि)+++।
क्षेत्र॑स्य पते॒ मधु॑मन्तम् +++(गोयूथ-)+++ऊ॒र्मिन् - धे॒नुर् इ॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व - म॒धु॒श्-चुत॑ङ्, घृ॒तम् इ॑व॒ सुपू॑तम्।
ऋ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु+++(=सुखयन्तु)+++ ।
४७ -४८ क्षेत्रस्य पतिना ...{Loading}...
मूलम्
क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गामश्व॑म्पोषयि॒त्न्वा स नः॑ मृ॒डा॒ती॒दृशे॑ ।
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु ।
हरदत्तः
क्षेत्रस्य पतेरुपस्थानमन्त्रौ - क्षेत्रस्येति ॥ क्षेत्रस्य पतिना वयं हितेनेव मित्रादिना जयामसि जेतव्यं जयामः । स च क्षेत्रपतिः नः अस्माकं गामश्वं च पोषयित्नु । लिङ्गव्यत्ययः । पोषयिता आकारस्समुच्चये मृडाति सुखकर्माऽयं मृडयेत् सुखयेत् ईदृशे कर्मणि कृते । हे क्षेत्रस्य पते मधुमन्तं मधुस्वादेन क्षीरादिना युक्तं ऊर्मि ऊम्यार्कारं गावां समुदायम् । तस्य विशेषणं - मधुश्रुतं घृतमिव सुपूत मिति च । भवति कश्चित् मधुमान् न च मधुश्रुत्, यथा घटादि दृढम् । भवति कश्चित् मधुश्चुत् न च मधुमान्, यथा मधुभाजनस्य छिद्रम् । अतः मधुमन्तं मधुश्रुतमिति द्वयमुपात्तम्, यथा मधुमन्तो मधुश्रुत् मधुमांश्च, तद्वदुभयगुणविशिष्टं घृतमिव सुपूतं वस्रादिना सुष्ठु शोधितं एवंभूतं गवामूर्ध्नि अस्मासु धुक्ष्व क्षर धेनुरिव पयः यथा धेनुः पयो दुग्धे तद्वत् । किञ्च - त्वत्प्रसादात् । ऋतस्य यज्ञस्य पतयः अग्न्यादयः नः अस्मान् मृडयन्तु सुखयन्तु ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने अष्टादशः खण्डः