०१ इन्द्र जहि ...{Loading}...
इन्द्र॑ जहि दन्द॒शूकं॑
प॒क्षिणं॒ यस् स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ् च द॒शन्त॑ञ् च॒
सर्वा॒ꣳ॒स् तान् इ॑न्द्र जंभय॒+++(=स्तम्भय)+++ स्वाहा॑ ।
०१ इन्द्र जहि ...{Loading}...
मूलम्
इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ्च द॒शन्त॑ञ्च॒ सर्वा॒ꣳ॒ स्तानि॑न्द्र जंभय॒ स्वाहा॑ ।
हरदत्तः
समिद्धोमः - इन्द्रेति ॥ हे इन्द्र । जहि अस्माकं बाधकं दन्दशूकं सर्पं पक्षिणं पक्षाकाराभ्यां पार्श्वाभ्यां युक्तं यस्सरीसृपः सर्पणस्वभावः दंक्ष्णन्तं दंशने प्रवर्तिष्यमाणं दशन्तं प्रवर्तमानं च सर्वांस्तान् एवंविधान् हे इन्द्र । जम्भय स्तम्भय । आख्यातभेदादामन्त्राणभेदः ॥
०२ अप्सुजात सरेवृद्ध ...{Loading}...
अ॒प्सु जा॑त॒ सरे॑ वृद्ध
दे॒वाना॒म् अपि॑ हस्त्य ।
त्वम् अ॑ग्न इन्द्र॒-प्रेषि॑त॒स्
स नो॒ मा हिꣳ॑सीः॒ स्वाहा॑ ।
०२ अप्सुजात सरेवृद्ध ...{Loading}...
मूलम्
अ॒प्सुजा॑त॒ सरे॑वृद्ध दे॒वाना॒मपि॑हस्त्य ।
त्वम॑ग्न इन्द्र॒ प्रेषि॑त॒स्स नो॒ मा हिꣳ॑सीः॒ स्वाहा॑ ।
हरदत्तः
अप्स्विति ॥ अफ्सु जात । वैद्युतरूपेण सरे सरसि समुद्रे वृद्ध बाडव-स्वरूपेण देवानां हस्त्य । हस्ते भव अपिः पादपूरणः एवम्भूत । हे अग्ने त्वं इन्द्रप्रेशितः कर्माणि करोषि । वयं च इन्द्रस्य भक्ताः । स त्वं नः अस्मान् मा हिंसीः सर्पकृता हिंसा यथा अस्माकं न भवति तथा कुर्वित्यर्थः ॥
०३ त्राणमसि परित्राणमसि ...{Loading}...
त्राण॑म् असि।
प॒रि॒त्राण॑म् असि।
प॒रि॒धिर् अ॑सि ।
अन्ने॑न मनु॒ष्याꣳ॑स् त्रायसे॒, तृणैः॑ प॒शून्, ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्त् स्व॒धया॑ पि॒तॄन्त् स्वाहा॑ ।
०३ त्राणमसि परित्राणमसि ...{Loading}...
मूलम्
त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि ।
अन्ने॑न मनु॒ष्याꣳ॑ स्त्रायसे॒ तृणैः॑ प॒शून्ग॒र्तेन॑ स॒र्पान् य॒ज्ञेन॑ दे॒वान्त्स्व॒धया॑ पि॒तॄन्त्स्वाहा॑ ।
हरदत्तः
त्राणमसीति ॥ न केवलं त्राणं, परित्राणमसि सर्वतस्त्राणमसि परिधिरसि परित्राणाय यस्सर्वतो निधीयते स परिधिः सोऽप्यसि अन्नेन मनुष्यान् त्रायसे बहिस्तावदग्निरन्नं पचति, भुक्तं च जरयति वैश्वानररूपेण । नृणैः पशून् त्रायसे तृणान्यग्निर्जनयति वृष्टेरग्न्यायत्तत्वात् अग्नौ प्रास्ताहुतिः इति दर्शनात् । गर्तेन सर्पान् त्रायसे गर्तो बिलम् । सूर्यांशुसन्तप्ता हि भूमिः बिलानि दर्शयति सूर्यश्चाग्नेर्नातीव भिन्नः, स हि अस्तं गतोऽग्निं प्रविशति । बिलाच्च निर्गतानां सर्पाणां ध्रुवो वधः । अत इदमुच्यते - गर्तेन सर्पास्त्रायस इति । यज्ञेन देवान् त्रायसे हव्यवाहनत्वात् । स्वधया पितॄन् त्रायसे कव्यवाहनत्वात् । तदेवमाग्नेय्येषा ॥
०४ तत्सत्यं यत्तेऽमावास्यायाञ्च ...{Loading}...
+++(सर्पाधिपते!)+++ तत् स॒त्यं यत् ते॑ ऽमावा॒स्या॑याञ् च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिꣳ हर॑न्ति॒।
सर्व॑ उदर-स॒र्पिणः॑ तत् +++(बलिं)+++ ते॒ प्रेर॑ते॒+++(=प्राप्नुवन्ति)+++, त्वयि॒ संवि॑शन्ति।
त्वयि॑ नस् स॒तस्+++(=आश्रितान्)+++, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++
०४ तत्सत्यं यत्तेऽमावास्यायाञ्च ...{Loading}...
मूलम्
तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ विष॑ब॒लिꣳ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ ।
तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
हरदत्तः
आज्याहुतिमन्त्राः - तत्सत्यमिति ॥ सर्पाणामधिपतिस्तूयते । यत्तेऽमावास्यायां च पौर्णमास्यां च विषबलिं हरन्ति विषभयनिवृत्त्यर्थं बलिं हरन्ति मनुष्याः । सर्वे च उदरसर्पिणः सर्पाः तत् बलिं ते त्वत्तः प्रेरते प्राप्नुवन्ति । प्राप्य च त्वयि संविशन्ति त्वामाश्रित्य वर्तन्त इति यत्तत्सत्यमित्यर्थः । ततश्च त्वयि नस्सतः त्वदाश्रयानस्मान् त्वयि सद्भ्यः त्वदाश्रयेभ्यः सर्पेभ्यः रक्षार्थं परिदेहि यथा ते न हिंस्युः वर्षाभ्यश्च परिदेहि वर्षर्तौ सर्पा बहुलीभवन्तीति तस्मै व परिदानम् । ऋतुना वा संवत्सरो लक्ष्यते । वर्षाभ्यः वर्षार्थं, यथा नः अस्मान् संवत्सरे न हिंस्युः तथा सर्वेभ्यः परिदेहि ॥
०५ नमो अस्तु ...{Loading}...
नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥
०५ नमो अस्तु ...{Loading}...
मूलम्
नमो॑ अस्तु स॒र्पेभ्यो॑ ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥
हरदत्तः
नमो अस्तु सर्पेभ्य इति ॥ ये के च यावन्तः पृथिवीमनु श्रिताः ये अन्तरिक्षे ये दिवि च श्रिताः तेभ्यः सर्पेभ्यः नमः अस्तु ॥
०६ येऽदो रोचने ...{Loading}...
ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
०६ येऽदो रोचने ...{Loading}...
मूलम्
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
हरदत्तः
येऽद इति ॥ ये सर्पाः
अदः - सप्तम्या लुक् अमुष्मिन्
रोचने दीप्ते स्थाने
दिवः सम्बन्धिनि
ये वा सूर्यस्य रश्मिषु सर्पाः येषां सर्पाणां अप्सु सदः स्थानं कृतं तेभ्यः सर्पेभ्यो नमः ॥
०७ या इषवो ...{Loading}...
या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
०७ या इषवो ...{Loading}...
मूलम्
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒द्गरनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो नमः॑ ॥
हरदत्तः
या इति ॥ या इषवः । इषुशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता । ये सर्पाः यातुधानानां इषुभूताः ये वा वनस्पतीन् अनु श्रिताः ये वा अवटेषु बिलेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
०८ नमो अस्तु ...{Loading}...
नमो॑ अस्तु स॒र्पेभ्यो॒
ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
+++(उपक्रमे)+++ तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि ।
+++(मार्गशीर्ष्यां तु)+++ तेभ्य॑ इ॒मं ब॒लिम् अ॑हार्षम् ।
०८ नमो अस्तु ...{Loading}...
मूलम्
नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒
य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि ।
तेभ्य॑ इ॒मं ब॒लिम॑हार्षम् ।
हरदत्तः
बलिहरणमन्त्रः - नमो अस्त्विति ॥ ये पार्थिवाः पृथिव्यां भवाः ये आन्तरिक्ष्याः अन्तरिक्षे भवाः । भवे छन्दसि इति यत् छान्दसत्वादादिवृद्धिः । ये दिव्याः दिवि भवाः ये दिश्याः दिक्षु च भवाः तेभ्यः सर्पेभ्यः नमो अस्तु इमं बलिं हरिष्यामि एवं आमार्गशीर्ष्याः । मार्गशीर्ष्यां तु तेभ्य इमं बलिं अहार्षमिति हृतवानस्मि ॥
०९-१० तक्षक वैशालेय ...{Loading}...
तक्ष॑क॒, वैशा॑लेय- धृ॒तरा॑ष्ट्रैरावतस् ते जी॑वा॒स्,
त्वयि॑ नस् स॒तस्, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑कस् ते वै॑शाले॒यो जी॑वा॒स् …।
+++(स्वरः शोधितः।)+++
०९-१० तक्षक वैशालेय ...{Loading}...
मूलम्
तक्ष॑क॒ वैशा॑लेय धृ॒तरा॑ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑क॒स्ते वै॑शाले॒यो जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(“ते” इत्यत्र स्वरश् चिन्त्यः। )+++
हरदत्तः
उपस्थानमन्त्राः - तक्षकेति ॥ हे तक्षक । तस्यैव विशेषणं वैशालेय विशालाया अपत्य, धृतराष्ट्रश्चासावैरावतश् चेति धृतराष्ट्रैरावतः एवंनामा सर्पः ते तव जीवाः प्राणाः, प्राणानां बहुत्वाद् बहुवचनम् । ऐरावताख्यस्सर्पः ते प्राणाः । त्वयि नस्सत इति गतम् । त्वयि सद्भ्यः जीवेभ्यः इति विशेषः । एवं हे धृतराष्ट्रैरावत तक्षक वैशालेयस्ते जीवाः इत्यादि । अन्योन्यस्मै परिदानमुभाभ्यां मन्त्राभ्याम् ॥
११ -१२ अहिंसातिबलस्ते जीवास्त्वयि ...{Loading}...
अहि॑ꣳसातिब॒लस्ते जी॑वा॒स् …।
अति॑बलाहि॒ꣳ॒सस्ते जी॑वा॒स् …।
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++
११ -१२ अहिंसातिबलस्ते जीवास्त्वयि ...{Loading}...
मूलम्
अ॒हि॒ꣳ॒सा॒ति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
अ॒ति॒ब॒ला॒हि॒ꣳ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(स्वरश् चिन्त्यः।)+++
हरदत्तः
अहिंसेति ॥ अहिंसोनाम सर्पः । तथा अतिबलः । हे अहिंस अतिबल जीवा इत्यादि । हे अतिबल अहिंसस्ते जीवा इत्यादि च । अत्राप्यन्योन्यस्मै परिदानम् ॥
१३ ये दन्दशूकाः ...{Loading}...
ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्- ताꣳस् त्वम् इ॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श् श॒फिन॒स्, सन्ति॑ द॒ण्डिन॒स्, ते वो॒ नेद् +धि॒नसा॒न्, न्येद् यू॒यम् अ॒स्मान् हि॒नसा॑त ।
१३ ये दन्दशूकाः ...{Loading}...
मूलम्
ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताꣳस्त्वमि॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श्श॒फिन॒स्सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त ।
हरदत्तः
यइति ॥ ये दन्दशूकाः सर्पाः पार्थिवाः तान् त्वम् । सर्पराजं प्रति वचनम् । इतः अस्मात् गृहात् परोगव्यूति गव्यूतिः क्रोशयुगं ततः परस्तात् निवेशय । सर्वानेव सर्पान् प्रत्याह सन्तीति । वै प्रसिद्धौ । नः अस्माकं गृहे शफिनः शफवन्तो गवादयः सन्ति ये युष्मान् मृद्गीयुः । सन्ति च दण्डिनः दण्डहस्ताः पुरुषः ये युष्मान् प्रहरेयुः । ते शफिनो दण्डहस्ताश्च वः युष्मान् नेत् नैव हिनसात् हिंस्युः । न्येत् नैव । छान्दसो यकारः यूयमस्मान् हिनसात न हिंस्यात । यदि यूयमस्मान् न हिंस्यात तेऽपि युष्मान् न हिंस्युरित्यर्थः । उपसंवादे पञ्चमो लकारः । उपसंवादः परि भाषणं कर्तव्ये पणबन्धः ॥
१४ समीची नामासि ...{Loading}...
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्। तस्या॑स् ते॒ ऽग्निर् अधि॑पतिर्, असि॒तो र॑क्षि॒ता।
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
१४ समीची नामासि ...{Loading}...
मूलम्
स॒मीची॒ नामा॑सि॒ प्राची॒दिक्तस्या॑स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
हरदत्तः
समीची नामेति । समीची नामासि प्राची दिक् या प्राची दिक् सा त्वं समीचीनामासीत्यर्थः । तस्यास्तेऽग्निरधिपतिः अश्रितो नाम सर्पः ते रक्षिता यश्चाधिपतिः अग्निः यश्च गोप्ता असितः ताभ्यां नमः तौ नः अस्मान् मृडयतां सुखयताम् । एतावानंशः परेशकृतः प्रथमपुरुषयोगात् । शेषः प्रत्यक्षकृतः वामिति युष्मच्छब्दयोगात् । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं पुरुषं वां युवयोः जम्भे । बहुषु एकवचनम् । जम्भेषु दन्तेषु दधामि । वचनव्यत्ययः । दध्मः स्थापयामः भक्षणार्थम् ॥
१५ -१९ ओजस्विनी नामासि ...{Loading}...
मन्त्रः
ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्।
तस्या॑स् त॒ इन्द्रोऽधि॑पतिः, पृदा॑कू र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
प्राची॒ नामा॑सि प्र॒तीची॒ दिक्।
तस्या॑स् ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्।
तस्या॑स् ते॒ वरु॑णोऽधि॑पतिस् ति॒रश्च॑राजी र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्।
तस्या॑स् ते॒ बृह॒स्पति॒र् अधि॑पतिः श्वि॒त्रो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
व॒शिनी॒ नामा॑सी॒यं दिक्।
तस्या॑स् ते॒ य॒मो ऽधि॑पतिः क॒ल्माष॑-ग्रीवो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
१५ -१९ ओजस्विनी नामासि ...{Loading}...
मूलम्
ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या॑स्त॒ इन्द्रोऽधि॑पतिः पृदा॑कू र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या॑स्ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या॑स्ते॒ वरु॑णोऽधि॑पतिस्ति॒रश्च॑राजी र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
हरदत्तः
ओजस्विनीत्यादि ॥ सर्वत्राधिपतयः प्रसिद्धाः रक्षितारः सर्पाः रक्षिता इत्यादेश्च सर्वेष्वनुषङ्गः । ओजस्विनी पृदाक् रक्षिता । प्राची - स्वजो रक्षिता । अवस्थावा - तिरश्चराजी रक्षिता । अधिपत्नी - श्वित्रो रक्षिता । वशिनी - कल्माषग्रीवो रक्षिता । बृहती दिक् ऊर्ध्वा दिक् । इयं दिक् अधो दिक् । असिता दयो रूढिशब्दाः । यथाकथंचिद्वा योज्याः । अवस्थावेत्यत्र ङीब्रेफौ छान्दसत्वान्न कृतौ ॥
२० -२५ हेतयो नामस्थ ...{Loading}...
हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
२० -२५ हेतयो नामस्थ ...{Loading}...
मूलम्
हे॒तयो॒ नाम॑स्थ॒ तेषां॑ वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो वा॑तना॒मं
तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि।
नि॒लि॒म्पा नाम॑स्थ॒ तेषां॑ वो दक्षि॒णा गृ॒हा पि॒तरो॑ व॒ इष॑वः॒ सग॑रो वातना॒मं
तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
व॒ज्रिणो॒ नाम॑स्थ॒ तेषां॑ वः प॒श्चाद्गृ॒हा स्वप्नो॑व॒ इष॑वो॒ गह्व॑रो वातना॒मं
तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
अ॒वस्थावा॑नो॒ नाम॑स्थ॒ तेषां॑ व उत्त॒रद्गृ॒हा आपो॑ व॒ इषवः॒ समु॒द्रो वा॑तना॒मं
तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
अधि॑पतयो॒ नाम॑स्थ॒ तेषां॑ व उ॒परि॑ गृ॒हा व॒र्षं व॒ इष॒वोऽव॑स्वान् वातना॒मं
तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
क्र॒व्या नाम॑स्थ॒ तेषां॑ व इ॒ह गृ॒हा अन्नं॑ व॒ इष॑वो निमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
हरदत्तः
हेतयो नाम स्थेति ॥ हेतिप्रभृतयः सर्पाः । गन्धर्वा इत्येके । यूयं हेतयो नाम स्थ तेषां वः पुरः पूर्वस्यां दिशि गृहाः अग्निर्व इषवः सलिलो वातनामम् । सलिलः सगरः गह्वरः समुद्रः अवस्वान् निमिष इति षडप्याकाशवाचिनः । व्युत्पत्तिस्तु यथाकथं चित् । वाताशनास्सर्पाः । तस्य वातस्य नामयिता उपस्थापयिता, वातस्य आकाशप्रभवत्वात् । नपुंसकलिङ्गं तु सामान्योपक्रमात्वात् । तेभ्यो वः हेतिभ्यो नमः । ते यूयं नः मृडयत सुखयत । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं वो युष्माकं जम्भे दन्तेषु दधामि । वचनव्यत्ययः, दध्मः । एतेनोत्तरे पञ्च मन्त्रा व्याख्यताः । वात नामम् इत्यादेश्च सर्वत्रानुषङ्गः । निलिम्पा नाम स्थ - सगरो वातनामम् । वज्रिणो नाम स्थ-गह्वरो वातनामम् । अवस्थावानो नाम स्थ - समुद्रो वातानामम् । अधिपतयो नाम स्थ - अवस्वान् वातनामम् । क्रव्या नामस्थ - निमिषो वातनामम् ॥
२६ अपश्वेतपदा जहि ...{Loading}...
अप॑ श्वेत +++(सर्पाधिपते)+++ प॒दा+++(वि३)+++ ज॑हि॒+++(→हन)+++
पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीर् इ॒मास् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
ति॒स्रश्च॑ रा॒जब॑न्धवीः ।
२६ अपश्वेतपदा जहि ...{Loading}...
मूलम्
अप॑श्वेतप॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः ।
हरदत्तः
प्रत्येत्य गृहपरिषेचनमन्त्रौ - अप श्वेतेति ॥ श्वेतो नाम सर्पाणामधिपतिः । हे श्वेत पदा पादेन अपजहि क्षोदय । पूर्वेण च पद अपरेण च । गमनदशायामेतदुच्यते, तत्र हि पूर्वापरौ पादौ भवतः । अपहन्तव्यमाह - सप्त च मानुषीरिमाः सर्पजातीः, ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे । तिस्रश्च राजबन्धवीः राजसम्बन्धिनी तिस्रः इति दश सर्पाजातयः ॥
२७ न वै ...{Loading}...
न वै श्वे॒तस्या॑ऽध्याचा॒रे+++(=आधिपत्ये)+++
ऽहि॑र् ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒+++(=विदर्बपुत्राय)+++ नमो॒
नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (17)
२७ न वै ...{Loading}...
मूलम्
न वै श्वे॒तस्या॑द्ध्याचा॒रेऽहि॑र्ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (१७)
हरदत्तः
नवा इति ॥ श्वेतस्य नागराजस्य अध्याचारे आधिपत्ये अहिः सर्पः कंचन कंचिदपि मनुष्यं न वै जघान अतः श्वेताय वैदर्बाय विदर्बपुत्राय नमः आदरार्थं पुनर्वचनम् - नमः श्वेताय वैदर्वाय ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने सप्तदशः खण्डः