2 17

०१ इन्द्र जहि …{Loading}…

इ᳓न्द्र जहि दन्दशू᳓कं
पक्षि᳓णं य᳓स् सरीसृपः᳓ ।
दंक्ष्य᳓न्तञ् च दश᳓न्तञ् च
स᳓र्वाँस् ता᳓न् इन्द्र जंभय+++(=स्तम्भय)+++ स्वा᳓हा ।

मूलम्

इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ्च द॒शन्त॑ञ्च॒ सर्वाँ॒ स्तानि॑न्द्र जंभय॒ स्वाहा॑ ।

हरदत्तः

समिद्धोमः - इन्द्रेति ॥ हे इन्द्र । जहि अस्माकं बाधकं दन्दशूकं सर्पं पक्षिणं पक्षाकाराभ्यां पार्श्वाभ्यां युक्तं यस्सरीसृपः सर्पणस्वभावः दंक्ष्णन्तं दंशने प्रवर्तिष्यमाणं दशन्तं प्रवर्तमानं च सर्वांस्तान् एवंविधान् हे इन्द्र । जम्भय स्तम्भय । आख्यातभेदादामन्त्राणभेदः ॥

०२ अप्सुजात सरेवृद्ध …{Loading}…

अप्सु᳓ जात स᳓रे वृद्ध
देवा᳓नाम् अ᳓पि हस्त्य ।
त्व᳓म् अग्न इन्द्र-प्रे᳓षितस्
स᳓ नो मा᳓ हिँसीः स्वा᳓हा ।

मूलम्

अ॒प्सुजा॑त॒ सरे॑वृद्ध दे॒वाना॒मपि॑हस्त्य ।
त्वम॑ग्न इन्द्र॒ प्रेषि॑त॒स्स नो॒ मा हिँ॑सीः॒ स्वाहा॑ ।

हरदत्तः

अप्स्विति ॥ अप्सु जात । वैद्युतरूपेण सरे सरसि समुद्रे वृद्ध बाडव-स्वरूपेण देवानां हस्त्य । हस्ते भव अपिः पादपूरणः एवम्भूत । हे अग्ने त्वं इन्द्रप्रेशितः कर्माणि करोषि । वयं च इन्द्रस्य भक्ताः । स त्वं नः अस्मान् मा हिंसीः सर्पकृता हिंसा यथा अस्माकं न भवति तथा कुर्वित्यर्थः ॥

०३ त्राणमसि परित्राणमसि …{Loading}…

त्रा᳓णम् असि।
परित्रा᳓णम् असि।
परिधि᳓र् असि ।
अ᳓न्नेन मनुष्याँ᳙स् त्रायसे, तृ᳓णैः पशू᳓न्, गर्ते᳓न सर्पा᳓न्, यज्ञे᳓न देवा᳓न्त्, स्वध᳓या पितॄ᳓न्त् स्वा᳓हा ।

मूलम्

त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि ।
अन्ने॑न मनु॒ष्याँ॑ स्त्रायसे॒ तृणैः॑ प॒शून्ग॒र्तेन॑ स॒र्पान् य॒ज्ञेन॑ दे॒वान्त्स्व॒धया॑ पि॒तॄन्त्स्वाहा॑ ।

हरदत्तः

त्राणमसीति ॥ न केवलं त्राणं, परित्राणमसि सर्वतस्त्राणमसि परिधिरसि परित्राणाय यस्सर्वतो निधीयते स परिधिः सोऽप्यसि अन्नेन मनुष्यान् त्रायसे बहिस्तावदग्निरन्नं पचति, भुक्तं च जरयति वैश्वानररूपेण । नृणैः पशून् त्रायसे तृणान्यग्निर्जनयति वृष्टेरग्न्यायत्तत्वात् अग्नौ प्रास्ताहुतिः इति दर्शनात् । गर्तेन सर्पान् त्रायसे गर्तो बिलम् । सूर्यांशुसन्तप्ता हि भूमिः बिलानि दर्शयति सूर्यश्चाग्नेर्नातीव भिन्नः, स हि अस्तं गतोऽग्निं प्रविशति । बिलाच्च निर्गतानां सर्पाणां ध्रुवो वधः । अत इदमुच्यते - गर्तेन सर्पास्त्रायस इति । यज्ञेन देवान् त्रायसे हव्यवाहनत्वात् । स्वधया पितॄन् त्रायसे कव्यवाहनत्वात् । तदेवमाग्नेय्येषा ॥

०४ तत्सत्यं यत्तेऽमावास्यायाञ्च …{Loading}…

+++(सर्पाधिपते!)+++ त᳓त् सत्यं᳓ य᳓त् ते ऽमावास्या᳙याञ् च पौर्णमास्या᳓ञ् च विषबलिँ᳓+++(←स्वरः शोधितः)+++ ह᳓रन्ति स᳓र्व उदर-सर्पि᳓णः
त᳓त् +++(बलिं)+++ ते प्रे᳓रते+++(=प्राप्नुवन्ति)+++, त्व᳓यि सं᳓विशन्ति।
त्व᳓यि नस् सत᳓स्+++(=आश्रितान्)+++, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++

मूलम्

तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ विष॑ब॒लिँ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ ।
तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।

हरदत्तः

आज्याहुतिमन्त्राः - तत्सत्यमिति ॥ सर्पाणामधिपतिस्तूयते । यत्तेऽमावास्यायां च पौर्णमास्यां च विषबलिं हरन्ति विषभयनिवृत्त्यर्थं बलिं हरन्ति मनुष्याः । सर्वे च उदरसर्पिणः सर्पाः तत् बलिं ते त्वत्तः प्रेरते प्राप्नुवन्ति । प्राप्य च त्वयि संविशन्ति त्वामाश्रित्य वर्तन्त इति यत्तत्सत्यमित्यर्थः । ततश्च त्वयि नस्सतः त्वदाश्रयानस्मान् त्वयि सद्भ्यः त्वदाश्रयेभ्यः सर्पेभ्यः रक्षार्थं परिदेहि यथा ते न हिंस्युः वर्षाभ्यश्च परिदेहि वर्षर्तौ सर्पा बहुलीभवन्तीति तस्मै व परिदानम् । ऋतुना वा संवत्सरो लक्ष्यते । वर्षाभ्यः वर्षार्थं, यथा नः अस्मान् संवत्सरे न हिंस्युः तथा सर्वेभ्यः परिदेहि ॥

०५ नमो अस्तु …{Loading}…

न᳓मो अस्तु सर्पे᳓भ्यो
ये᳓ के᳓ च पृथिवी᳓म् अ᳓नु।
ये᳓ अन्त᳓रिक्षे ये᳓ दिवि᳓
ते᳓भ्यस् सर्पे᳓भ्यो न᳓मः॥

मूलम्

नमो॑ अस्तु स॒र्पेभ्यो॑ ये के च॑ पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥

सायण-टीका

ये केचित्सर्पाः पृथिवीमनुगतास्तेभ्यः सर्पेभ्यो नमोऽस्तु । अन्तरिक्षे यक्षगन्धर्वादिलोके वर्तमाना ये सर्पा ये च दिवि द्युलोके वर्त-माना राहुप्रभृतयस्तभ्येः सर्पेभ्यो नमोऽस्तु ।

हरदत्तः

नमो अस्तु सर्पेभ्य इति ॥ ये के च यावन्तः पृथिवीमनु श्रिताः ये अन्तरिक्षे ये दिवि च श्रिताः तेभ्यः सर्पेभ्यः नमः अस्तु ॥

०६ येऽदो रोचने …{Loading}…

ये᳙ ऽदो᳓, रोचने᳓ दिवो᳓,
ये᳓ वा सू᳓र्यस्य रश्मि᳓षु ।
ये᳓षाम् अप्सु᳓ स᳓दः कृतं᳓
ते᳓भ्यः सर्पे᳓भ्यो न᳓मः ॥

मूलम्

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

सायण-टीका

दिविऽन्तरिक्षस्य रोचने भासकेऽदोऽमुष्मिन्सूर्यस्य मण्डले मे सर्पा वसन्ति, ये चान्ये सूर्यस्य रश्मिष्वस्माभिरद्दश्यमाना वर्तन्ते, येषामन्ये-षां सर्पाणामप्स जलमध्ये सदः स्थानं कृतं, तेभ्यः सर्पेभ्यः कृत्स्नेभ्यो न मोऽस्तु ।

हरदत्तः

येऽद इति ॥ ये सर्पाः
अदः - सप्तम्या लुक् अमुष्मिन्
रोचने दीप्ते स्थाने
दिवः सम्बन्धिनि
ये वा सूर्यस्य रश्मिषु सर्पाः येषां सर्पाणां अप्सु सदः स्थानं कृतं तेभ्यः सर्पेभ्यो नमः ॥

०७ या इषवो …{Loading}…

या᳓ इ᳓षवो यातुधा᳓नानां
ये᳓ वा व᳓नस्प᳓तीँर् अ᳓नु ।
ये᳓ वाऽवटे᳓षु+++(→बिलेषु)+++ शे᳓रते
ते᳓भ्यः सर्पे᳓भ्यो न᳓मः ॥

मूलम्

या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒द्गरनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो नमः॑ ॥

सायण-टीका

याः सर्पजातयो यातुधानानां रक्षसामिषवो बाणरूपा १९३६ वर्तन्ते, ये चान्ये वनस्पतींश्चन्दनादिवृक्षाननुवेष्ट्यावस्थिताः, ये चान्येऽवटेषु बिलेषु शेरते, तेभ्यः सर्पेभ्यो नमोऽस्तु ।

हरदत्तः

या इति ॥ या इषवः । इषुशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता । ये सर्पाः यातुधानानां इषुभूताः ये वा वनस्पतीन् अनु श्रिताः ये वा अवटेषु बिलेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

०८ नमो अस्तु …{Loading}…

न᳓मो अस्तु सर्पे᳓भ्यो
ये᳓ पा᳓र्थिवा य᳓ आन्तरिक्ष्या᳙ ये᳓ दिव्या᳙ ये᳓ दिश्याः᳙ ।
+++(उपक्रमे)+++ ते᳓भ्य इमं᳓ बलिँ᳓ हरिष्यामि ।
+++(मार्गशीर्ष्यां तु)+++ ते᳓भ्य इमं᳓ बलि᳓म् अहार्षम् ।

मूलम्

नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒
य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
तेभ्य॑ इ॒मं ब॒लिँ ह॑रिष्यामि ।
तेभ्य॑ इ॒मं ब॒लिम॑हार्षम् ।

हरदत्तः

बलिहरणमन्त्रः - नमो अस्त्विति ॥ ये पार्थिवाः पृथिव्यां भवाः ये आन्तरिक्ष्याः अन्तरिक्षे भवाः । भवे छन्दसि इति यत् छान्दसत्वादादिवृद्धिः । ये दिव्याः दिवि भवाः ये दिश्याः दिक्षु च भवाः तेभ्यः सर्पेभ्यः नमो अस्तु इमं बलिं हरिष्यामि एवं आमार्गशीर्ष्याः । मार्गशीर्ष्यां तु तेभ्य इमं बलिं अहार्षमिति हृतवानस्मि ॥

०९ तक्षक वैशालेय …{Loading}…

त᳓क्षक, वै᳓शालेय - धृत᳓राष्ट्रैरावतस् ते+++(←ते᳓)+++ जीवा᳓स्,
त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि ।

१० धृतराष्ट्रैरावत …{Loading}…

धृ᳓तराष्ट्रैरावत+++(→धृत᳓राष्ट्रैरावत)+++ त᳓क्षकस् ते+++(←ते᳓)+++ वैशालेयो᳓ जीवा᳓स् …।

मूलम्

तक्ष॑क॒ वैशा॑लेय धृ॒तरा॑ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(“ते” इत्यत्र स्वरश् चिन्त्यः। )+++

हरदत्तः

उपस्थानमन्त्राः - तक्षकेति ॥ हे तक्षक । तस्यैव विशेषणं वैशालेय विशालाया अपत्य, धृतराष्ट्रश्चासावैरावतश् चेति धृतराष्ट्रैरावतः एवंनामा सर्पः ते तव जीवाः प्राणाः, प्राणानां बहुत्वाद् बहुवचनम् । ऐरावताख्यस्सर्पः ते प्राणाः । त्वयि नस्सत इति गतम् । त्वयि सद्भ्यः जीवेभ्यः इति विशेषः । अन्योन्यस्मै परिदानमुभाभ्यां मन्त्राभ्याम् ॥

मूलम्

धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑क॒स्ते वै॑शाले॒यो जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(“ते” इत्यत्र स्वरश् चिन्त्यः। )+++

हरदत्तः

एवं हे धृतराष्ट्रैरावत तक्षक वैशालेयस्ते जीवाः इत्यादि ॥

११ अहिंसातिबल …{Loading}…

अ᳓हिँसातिबल᳓स् ते जीवा᳓स् [त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि । ]
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

१२ अतिबलाहिंस …{Loading}…

अ᳓तिबलाहिँस᳓स् ते जीवा᳓स् [त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि । ]
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

मूलम्

अ॒हिँ॒सा॒ति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(स्वरश् चिन्त्यः।)+++

हरदत्तः

अहिंसेति ॥ अहिंसोनाम सर्पः । तथा अतिबलः । हे अहिंस अतिबल जीवा इत्यादि । अत्राप्यन्योन्यस्मै परिदानम् ॥

मूलम्

अ॒ति॒ब॒ला॒हिँ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(स्वरश् चिन्त्यः।)+++

हरदत्तः

हे अतिबल अहिंसस्ते जीवा इत्यादि च ॥

१३ ये दन्दशूकाः …{Loading}…

ये᳓ दन्दशू᳓काः पा᳓र्थिवास्-
ताँ᳓स् त्व᳓म् इतः᳓ परो᳓ ग᳓व्यूतिं नि᳓वेशय ।
स᳓न्ति वै᳓ नश् शफि᳓नस्,
स᳓न्ति दण्डि᳓नस्,
ते᳓ वो ने᳓द् +धिन᳓सान्,
न्ये᳓द् यूय᳓म् अस्मा᳓न् हिन᳓सात ।

मूलम्

ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताँस्त्वमि॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श्श॒फिन॒स्सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त ।

हरदत्तः

यइति ॥ ये दन्दशूकाः सर्पाः पार्थिवाः तान् त्वम् । सर्पराजं प्रति वचनम् । इतः अस्मात् गृहात् परोगव्यूति गव्यूतिः क्रोशयुगं ततः परस्तात् निवेशय । सर्वानेव सर्पान् प्रत्याह सन्तीति । वै प्रसिद्धौ । नः अस्माकं गृहे शफिनः शफवन्तो गवादयः सन्ति ये युष्मान् मृद्गीयुः । सन्ति च दण्डिनः दण्डहस्ताः पुरुषः ये युष्मान् प्रहरेयुः । ते शफिनो दण्डहस्ताश्च वः युष्मान् नेत् नैव हिनसात् हिंस्युः । न्येत् नैव । छान्दसो यकारः यूयमस्मान् हिनसात न हिंस्यात । यदि यूयमस्मान् न हिंस्यात तेऽपि युष्मान् न हिंस्युरित्यर्थः । उपसंवादे पञ्चमो लकारः । उपसंवादः परि भाषणं कर्तव्ये पणबन्धः ॥

१४ समीची नामासि …{Loading}…

समी᳓ची ना᳓मासि प्रा᳓ची दि᳓क्।
त᳓स्यास् ते ऽग्नि᳓र् अ᳓धिपतिर्, असितो᳓ रक्षिता᳓।

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

Keith

Thou art the eastern quarter, the favourable by name; of thee as such Agni is the overlord, the black (snake) the guardian; the overlord and the guardian, to them homage; may they be gentle to us; him whom we hate and who hateth us I place within the jaws of you two.

मूलम्

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक् ।
तस्या॑स् ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता ।
यश् चाधि॑पति॒र् यश् च॑ गो॒प्ता , ताभ्या॒न् नम॒स् , तौ नो॑ मृडयताम् ।
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँ वा॒ञ् जम्भे॑ दधामि ।

भट्टभास्कर-टीका

समीची नाम त्वमसि सम्यग्गमना प्राची दिक् । तस्यास्तेऽग्रिरधिपतिः असितो नाम कृष्णः सर्पो रक्षिता । तस्यास्तव योधिपतिः अग्निः यश्च गोप्ता ताभ्यां अधिपतिरक्षितृभ्यां नमः । तौ नः अस्माकं मृडयतां सुखयताम् । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं वां जम्भे युवयोरास्ये दधामि भक्षयितुम् ।

हरदत्तः

समीची नामेति । समीची नामासि प्राची दिक् या प्राची दिक् सा त्वं समीचीनामासीत्यर्थः । तस्यास्तेऽग्निरधिपतिः अश्रितो नाम सर्पः ते रक्षिता यश्चाधिपतिः अग्निः यश्च गोप्ता असितः ताभ्यां नमः तौ नः अस्मान् मृडयतां सुखयताम् । एतावानंशः परेशकृतः प्रथमपुरुषयोगात् । शेषः प्रत्यक्षकृतः वामिति युष्मच्छब्दयोगात् । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं पुरुषं वां युवयोः जम्भे । बहुषु एकवचनम् । जम्भेषु दन्तेषु दधामि । वचनव्यत्ययः । दध्मः स्थापयामः भक्षणार्थम् ॥

१५ ओजस्विनी नामासि …{Loading}…

ओजस्वि᳓नी ना᳓मासि दक्षिणा᳓ दि᳓क्।
त᳓स्यास् त इ᳓न्द्रो᳓ऽधिपतिः, पृदाकू᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

१६ प्राची नामासि …{Loading}…

प्रा᳓ची ना᳓मासि प्रती᳓ची दि᳓क्।
त᳓स्यास् ते सो᳓मो᳓ऽधिपतिः स्वजो᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

१७ अवस्थावा नामासि …{Loading}…

अवस्था᳓वा ना᳓मास्य् उ᳓दीची दि᳓क्।
त᳓स्यास् ते व᳓रुणो᳓ऽधिपतिस् तिर᳓श्चराजी+++(→अथर्ववेदे तिरश्च᳓)+++ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

१८ अधिपत्नी नामासि …{Loading}…

अ᳓धिपत्नी ना᳓मासि बृहती᳓ दि᳓क्।
त᳓स्यास् ते बृ᳓हस्प᳓तिर् अ᳓धिपतिः श्वित्रो᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

१९ वशिनी नामासि …{Loading}…

वशि᳓नी ना᳓मासीयं᳓ दि᳓क्।
त᳓स्यास् ते यमो᳓ ऽधिपतिः कल्मा᳓ष-ग्रीवो रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

Keith

Thou art the southern quarter, the mighty by name; of thee as such Indra is the overlord, the scorpion, &c.

मूलम्

ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या॑स्त॒ इन्द्रोऽधि॑पतिः पृदा॑कू र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।

भट्टभास्कर-टीका

ओजस्विनी नाम त्वमसि दक्षिणा दिक् । तस्यास्ते तव इन्द्रोधिपतिः । पृदाकुर्नाम सर्पोऽजगरः । रक्षितेत्यादिकं सर्वत्रानुषज्यते ।

हरदत्तः

ओजस्विनीत्यादि ॥ सर्वत्राधिपतयः प्रसिद्धाः रक्षितारः सर्पाः रक्षिता इत्यादेश्च सर्वेष्वनुषङ्गः । ओजस्विनी पृदाक् रक्षिता । असिता दयो रूढिशब्दाः । यथाकथंचिद्वा योज्याः ॥

Keith

Thou art the western quarter, the forward by name; of thee as such [1] Soma is the overlord, the viper, &c.

मूलम्

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या॑स्ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।

भट्टभास्कर-टीका

प्राची नामासि त्वम् । प्रकृष्टगमना प्रतीची दिक् । तस्यास्ते सोमोधिपतिः स्वजो नाम सर्पो रक्षिता । स्वस्मिन् जायत इति स्वजः स्वायत्तबलः । स्वजनशील इत्येके ।

हरदत्तः

प्राची - स्वजो रक्षिता ॥

Keith

Thou art the northern quarter, the stable by name; of thee as such Varuna is overlord, the striped snake, &c.

मूलम्

अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या॑स्ते॒ वरु॑णोऽधि॑पतिस्ति॒रश्च॑राजी रक्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।

भट्टभास्कर-टीका

अवस्थावा नामासि त्वं अवस्थापयित्री उदीची दिक् । ‘आतो मनिन्’ इति वनिप्, व्यत्ययेन ङीप् रेफयोरभावः, मत्वर्थीयो वा वकारः । तस्यास्ते वरुणोधिपतिः तिरश्चराजिर्नाम सर्पो रक्षिता तिरश्चीना राजयोऽस्य सन्तीति ।

हरदत्तः

अवस्थावा - तिरश्चराजी रक्षिता । अवस्थावेत्यत्र ङीब्रेफौ छान्दसत्वान्न कृतौ ॥

Keith

Thou art the great quarter, the lady paramount by name; of thee as such Brhaspati is overlord, the white, &c.

मूलम्

अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या॑स्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।

भट्टभास्कर-टीका

अधिपत्नी नामासि त्वं बृहती ऊर्ध्वा दिक् । तस्यास्ते बृहस्पतिरधिपतिः श्वित्रो नाम सर्पो रक्षिता श्वयनशीलः श्वित्रः ।

हरदत्तः

अधिपत्नी - श्वित्रो रक्षिता । बृहती दिक् ऊर्ध्वा दिक् ॥

Keith

Thou art this quarter, the powerful by name; of thee as such Yama is the overlord, the spotted necked (snake) the guardian; the overlord and the guardian, to them homage; may they be gentle to us; him whom we hate and [2] who hateth us I place within the jaws of you two.

मूलम्

व॒शिनी॒ नामा॑सी॒यं दिक्तस्या॑स्ते॒ य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।

भट्टभास्कर-टीका

वशिनी नाम त्वमसि वशवतीति । इयं अधरा दिक् । तस्यास्ते यमोधिपतिः कल्माषग्रीवो नाम सर्पो रक्षिता ॥

हरदत्तः

वशिनी - कल्माषग्रीवो रक्षिता । इयं दिक् अधो दिक् ॥

२० हेतयो नामस्थ …{Loading}…

हेत᳓यो ना᳓म स्थ, ते᳓षां वः पुरो᳓ गृहा᳓, अग्नि᳓र् व इ᳓षवः, सलिलो᳓ वात-नाम᳓म्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२१ निलिम्पा नाम …{Loading}…

निलिम्पा᳓ ना᳓म स्थ, ते᳓षां वो दक्षिणा᳓ गृहा᳓, पित᳓रो व इ᳓षवः, स᳓गरो वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२२ वज्रिणो नाम …{Loading}…

वज्रि᳓णो ना᳓म स्थ, ते᳓षां वः पश्चा᳓द् गृहा᳓, स्व᳓प्नो व इ᳓षवो, ग᳓ह्वरो वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२३ अवस्थावानो नाम …{Loading}…

अवस्था᳓वानो ना᳓म स्थ, ते᳓षां व उत्तरा᳓द् गृहा᳓, आ᳓पो व इ᳓षवः, समुद्रो᳓ वातनाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२४ अधिपतयो नाम …{Loading}…

अ᳓धिपतयो ना᳓म स्थ, ते᳓षां व उप᳓रि गृहा᳓, वर्षं᳓ व इ᳓षवो᳓, ऽवस्वान् वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२५ क्रव्या नाम …{Loading}…

क्रव्या᳓ ना᳓म स्थ पा᳓र्थिवास्, ते᳓षां व इह᳓ गृहा᳓, अ᳓न्नं व इ᳓षवो, निमिषो᳓ वातनाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

Keith

Ye are missiles by name; your houses are in the east; your arrows are Agni; the water, &c.

मूलम्

हे॒तयो॒ नाम॑ स्थ ।
तेषाव्ँ॑ वᳶ पु॒रो गृ॒हाः ।
अ॒ग्निर् व॒ इष॑वस् सलि॒लः ।

भट्टभास्कर-टीका

यथा सर्पाहुतिः तथा गन्धर्वा हेतयो हन्तारो नाम शत्रूणाम् । तेषां वः युष्माकं पुरः पूर्वस्यां दिशि गृहाः । ‘पूर्वाधर’ इत्यसिप्रत्ययः । अग्नितुल्या युष्माकमिषवः ताद्धर्म्यात्ताच्छब्द्यम् । सलिल इति वातनामं वातस्य नाम । येऽस्याग्रेः प्रेरयितारः । ‘अनसतान्नपुंसकात्’ इत्यच् समासान्तः । वातनाममित्यादि सर्वत्रानुषज्यते । अन्यतरतोनुषङ्गाम्नाना एते । उभयतोनुषङ्गाम्नानाः सर्पाहुतयः । तेभ्यो वो नम इत्यादि व्याख्यातमेव ॥

हरदत्तः

हेतयो नाम स्थेति ॥ हेतिप्रभृतयः सर्पाः । गन्धर्वा इत्येके । यूयं हेतयो नाम स्थ तेषां वः पुरः पूर्वस्यां दिशि गृहाः अग्निर्व इषवः सलिलो वातनामम् । सलिलः सगरः गह्वरः समुद्रः अवस्वान् निमिष इति षडप्याकाशवाचिनः । व्युत्पत्तिस्तु यथाकथं चित् । वाताशनास्सर्पाः । तस्य वातस्य नामयिता उपस्थापयिता, वातस्य आकाशप्रभवत्वात् । नपुंसकलिङ्गं तु सामान्योपक्रमात्वात् । तेभ्यो वः हेतिभ्यो नमः । ते यूयं नः मृडयत सुखयत । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं वो युष्माकं जम्भे दन्तेषु दधामि । वचनव्यत्ययः, दध्मः । एतेनोत्तरे पञ्च मन्त्रा व्याख्यताः । वात नामम् इत्यादेश्च सर्वत्रानुषङ्गः ॥

Keith

Ye are smearers by name [3]; your houses are in the south, your arrows are the fathers; the ocean, &c.

मूलम्

नि॒लि॒म्पा नाम॑ स्थ ।
तेषाव्ँ॑ वो दक्षि॒णा गृ॒हाः ।
पि॒तरो॑ व॒ इष॑व॒स् सग॑रः ।

हरदत्तः

निलिम्पा नाम स्थ - सगरो वातनामम् ॥

Keith

Ye are the bearers of the bolt by name; your houses are in the west, your arrows are sleep; the cleft, &c.

मूलम्

व॒ज्रिणो॒ नाम॑ स्थ ।
तेषाव्ँ॑वᳶ प॒श्चाद्गृ॒हाः ।
स्वप्नो॑ व॒ इष॑वः गह्व॑रो।

भट्टभास्कर-टीका

5वज्रिणो नाम गन्धर्वास्स्थ ॥ तेषां पश्चादपरस्यां दिशि गृहाः । ‘पश्चपश्चात्’ इति निपात्यते । स्वप्नः स्वापनकारिणः शत्रूणां व इषवः ॥ 6गह्वर इति वातस्य नाम ।

हरदत्तः

वज्रिणो नाम स्थ-गह्वरो वातनामम् ॥

Keith

Ye are the stable by name; your houses are in the north; your arrows are the waters; the sea, &c.

मूलम्

अ॒व॒स्थावा॑नो॒ नाम॑ स्थ ।
तेषाव्ँ॑ व उत्त॒राद्गृ॒हाः ।
आपो॑ व॒ इष॑वः समु॒द्रो …।

भट्टभास्कर-टीका

अवस्थावानो नाम गन्धर्वास्स्थ अवस्थापयितारः । पूर्ववद्वनिप् । तेषामुत्तरादुत्तरस्यां दिशि गृहाः । ‘उत्तराधरदक्षिणादातिः’ । आपः व्यापनशीलाः इषवः ॥ 7समुद्र इति वातनाम ।

हरदत्तः

अवस्थावानो नाम स्थ - समुद्रो वातानामम् ॥

Keith

Ye are overlords by name; your houses are above; your arrows are the rain; the helper, &c.

मूलम्

अधि॑पतयो॒ नाम॑ स्थ ।
तेषाव्ँ॑ व उ॒परि॑ गृ॒हाः ।
व॒र्षव्ँ व॒ इष॒वोऽव॑स्वान् ।

भट्टभास्कर-टीका

अधिपतयो नाम गन्धर्वात्स्थ । तेषां व उपरि ऊर्ध्वायां दिशि गृहाः । ‘उपर्युपरिष्टात्’ इति निपात्यते । वर्ष वृष्यमाणा वा वृष्टिहेतवो वा इषवः । अवस्वानिति वातस्य नाम ॥

हरदत्तः

अधिपतयो नाम स्थ - अवस्वान् वातनामम् ॥

Keith

Ye are the raw-flesh eaters by name, of the earth; your houses are bore [4]; your arrows are food; winking is the name of the wind; to you homage; be ye gentle to us; him whom we hate and who hateth us I put in your jaws.

मूलम्

क्र॒व्या नाम॑ स्थ॒ पार्थि॑वाः ।
तेषाव्ँ॑ व इ॒ह गृ॒हाः ।
अन्नव्ँ॑व॒ इष॑वो निमि॒षो वा॑तना॒मम् ।
तेभ्यो॑ वो॒ नमः॑ ।
ते नो॑ मृडयत ।
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि ।

भट्टभास्कर-टीका

8गन्धर्वाः [क्रव्या नाम गन्धर्वाः] पार्थिवास्स्थ तेषां वः इह पृथिव्यां गृहाः । ‘इदमो हः’ । अन्नं अन्नहेतवो युष्माकमिषवः । निमिष इति वातस्य नाम ॥

हरदत्तः

क्रव्या नामस्थ - निमिषो वातनामम् ॥

२६ अपश्वेतपदा जहि …{Loading}…

अ᳓प श्वेत +++(सर्पाधिपते)+++ पदा᳓+++(वि३)+++ जहि+++(→हन)+++
पू᳓र्वेण चा᳓परेण च ।
सप्त᳓ च मा᳓नुषीर् इमा᳓स् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
तिस्र᳓श्च राज᳓बन्धवीः ।

मूलम्

अप॑श्वेतप॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः ।

हरदत्तः

प्रत्येत्य गृहपरिषेचनमन्त्रौ - अप श्वेतेति ॥ श्वेतो नाम सर्पाणामधिपतिः । हे श्वेत पदा पादेन अपजहि क्षोदय । पूर्वेण च पद अपरेण च । गमनदशायामेतदुच्यते, तत्र हि पूर्वापरौ पादौ भवतः । अपहन्तव्यमाह - सप्त च मानुषीरिमाः सर्पजातीः, ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे । तिस्रश्च राजबन्धवीः राजसम्बन्धिनी तिस्रः इति दश सर्पाजातयः ॥

२७ न वै …{Loading}…

न᳓ वै᳓ श्वेत᳓स्याऽध्याचारे᳓+++(=आधिपत्ये)+++
ऽहिर् जघा᳓न क᳓ञ्चन᳓ ।
श्वेता᳓य वैदर्वा᳓य+++(=विदर्बपुत्राय)+++ न᳓मो
न᳓मः श्वेता᳓य वैदर्वा᳓य ॥ (17)

मूलम्

न वै श्वे॒तस्या॑द्ध्याचा॒रेऽहि॑र्ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (१७)

हरदत्तः

नवा इति ॥ श्वेतस्य नागराजस्य अध्याचारे आधिपत्ये अहिः सर्पः कंचन कंचिदपि मनुष्यं न वै जघान अतः श्वेताय वैदर्बाय विदर्बपुत्राय नमः आदरार्थं पुनर्वचनम् - नमः श्वेताय वैदर्वाय ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने सप्तदशः खण्डः