०१ कूर्कुरस्सुकूर्कुरः कूर्कुरो ...{Loading}...
कू॒र्कु॒रस्+++(=श्वा)+++ सुकू॑र्कु॒रः
कू॑र्कु॒रो+++(=श्वा)+++ वा॑लबन्ध॒नः ।
उ॒परि॑ष्टा॒द् यद् एजा॑य+++(=आगच्छति)+++
+++(कुतः - )+++ तृ॒तीय॑स्या इ॒तो दि॒वः ।
०१ कूर्कुरस्सुकूर्कुरः कूर्कुरो ...{Loading}...
मूलम्
कू॒र्कु॒रस्सुकू॑र्कु॒रः कू॑र्कु॒रो वा॑लबन्ध॒नः ।
उ॒परि॑ष्टा॒द्यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः ।
हरदत्तः
श्वग्रहगृहीतस्यावोक्षणमन्त्राः - कूर्कृर इति ॥ कूर्कुरः शुन एतन्नाम । सुकूर्कुरः सुष्ठु कूर्कुर इति शब्दस्य कर्ता । एवम्भूत एकश्श्वा । वालबन्धनश्चापर कूर्कुरः वालेन योऽन्यान् बध्नाति । उपरिष्टात् उपरिलोकात् यत् सुपां सुलुक् इति सोर्लुक् । यः एजाय एतेर्लिटि छान्दसो जकारः एयाय आगच्छति । कुत उपरिष्टात्? तृतीयस्या इतः दिवः अस्य लोकस्य तृतीया द्यौः मध्ये अन्तरिक्षम् ॥
०२ औलब इत्तमुपाह्व ...{Loading}...
औल॑ब॒ इत् तम् उपा॑ह्वयथा॒-
ऽर्जीञ्+++(=ऋजेः पुत्रान्)+++ - छ्या॒मश् श॒बलः॑ ।
अ॒धोरा॑म+++(=अधोभागे कृष्णवर्णः)+++ उलुंब॒लस्+++(=उरुबलः)+++ सा॑रमे॒यो
ह॒ धाव॑ति समु॒द्रम्+++(→अन्तरिक्षं)+++ अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।
०२ औलब इत्तमुपाह्व ...{Loading}...
मूलम्
औल॑ब॒ इत्तमुपा॑ह्व यथा॒र्जीञ्छ्या॒मश्श॒बलः॑ ।
अ॒धोरा॑म उलुंब॒लस्सा॑रमे॒यो ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत् ।
हरदत्तः
औलव इति उलवस्यापत्यं औलवः । प्रत्येकं सम्बन्धादेकवचनम् । इच्छब्दोऽनर्थकः । तं श्वानं उपाह्वयथ । लोडर्थे लट् । उपशब्दोऽपेत्यस्यार्थे । उपाह्वयथ । यथा इतः अपगतो भवति तथा शब्दानुच्चारयत हे परिचारकाः । मदीया इत्यर्थः । आर्जीन् ऊर्जेः पुत्राश्चान्यानु उपाह्वयतेत्येव के पुनस्ते? श्यामः श्यामवर्णः शबलः शबलवर्णः अधोरामः अधोभागे कृष्णवर्णः उलुम्बलः उरुबलः ऋजेः पुत्रा एते चत्वारः तेषामेतानि नामानि अन्वर्थानि । अथ सारमेयः सरमानाम देवशुनी तस्या अपत्पं सारमेयः अपरश्श्वा । हशब्दोऽनर्थकः । धावति आधावति समुद्रं अन्तरिक्षं अवचाकशत् । पश्यन् ।
०३ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...
बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++
०३ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...
मूलम्
बि॒भ्रन्निष्क॑ञ्च रु॒क्मञ्च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः ।
सुबी॑रिण॒ सृज॒ सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् ।
हरदत्तः
बिभ्रन्निति ॥ बिभ्रत् धारयन् निष्कं च रुक्मं च आभरणे । शुनामग्रं प्रधानं सुवीरिण इति तस्य नाम । तं प्रत्याह - हे सुबीरिण । सृजसृज इमं बालं विसृज हे शुनक अतिभक्षक सृज विसृज एकव्रात्य एकस्मिन् व्राते गणे शुनां मध्येप्रधान सुवीरिणस्यैवैते विशेषणे । सृज विसृज छत् भर्त्सन शब्दोऽयम् । यथा लोके छि इति ॥
०४ तत्सत्यं यत् ...{Loading}...
तत् स॒त्यं यत् -
त्वेन्द्रो॑ ऽब्रवी॒द् “गाः +++(अपहृताः)+++ स्पा॑शय॒स्वे"ति॒+++(←स्पश बाधनस्पर्शनयोः)+++।
तास् त्व२ꣳ स्पा॑शयि॒त्वा ऽऽग॑च्छ॒स्,
त+++(त्व)+++न् त्वा॑ ऽब्रवी॒द् +++(इन्द्रः-)+++
“अवि॑द॒+++(ः)+++ हा?” इत्य्,
“अवि॑द॒ꣳ॒ ही"ति॒ +++(त्वमवदः)+++,
“वरं॑ वृणी॒ष्वे"ति॑
“कुमा॒रम् ए॒वाहं वरं॑ वृण॒” इत्य॑ब्रवीः ।
वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम् अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।
+++(तथेमम् बाधसे।)+++
०४ तत्सत्यं यत् ...{Loading}...
मूलम्
तत्स॒त्यं यत् त्वेन्द्रो॑ ऽब्रवी॒द् गाः स्पा॑शय॒स्वेति॑।
तास्त्व२ꣳ स्पा॑शयि॒त्वा ऽऽग॑च्छ॒स् त्वन् त्वा॑ ऽब्रवी॒द् अवि॑द॒ हा (३)
इत्यवि॑द॒ꣳ॒ हीति॒ वरं॑ वृणी॒ष्वेति॑ कुमा॒रमे॒वाहं वरं॑ वृण॒ इत्य॑ब्रवीः ।
वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒चाक॑शत् ।
हरदत्तः
तत्सत्यमिति ॥ अत्रेतिहासमाचक्षते - असुरा देवगवीरपहृत्य गिरिदुर्गे स्थापयित्वा द्वारमपिदधुः । तत इन्द्रः सरमापुत्रं सुवीरिणमाहूय अब्रवीत् । हे सुवीरिण । गत्वा जानीहि कैरापहृता गावः क्व तिष्ठन्तीति । ज्ञात्वा च अपहर्तृन् बाधयित्वा लब्ध्वैव गा आगच्छेति । स तथाऽकरोत् । तस्मै चागताय वरमदादिन्द्र इति । तदिदमत्रोच्यते- तत्सत्यं यत् त्वामिन्द्रः अब्रवीत् गाः अपहृताः स्पाशयस्व । स्पश बाधनस्पर्शनयोः, इह तु बाधनपूर्वके लाभे द्रष्टव्यः । बाधित्वा लभस्वेति त्वं च ताः स्पाशयित्वा बाधेन लब्ध्वा इन्द्रं प्रत्यागच्छः तं त्वा त्वां इन्द्रः अब्रवीत् अविद । छान्दसो विसर्ज नीयस्य लोपः अविदः लब्धवानसि । हा इति प्रश्नद्योतको निपातः तस्य प्रश्ने प्लुतः । ततस्त्वमिन्द्रमब्रवीः - अविदं हीति । अविदं लब्धवानस्मि । हीति अभ्युपगमं द्योतयति । पुनरिन्द्रोऽब्रवीत् वरं वृणीष्वेति । त्वं च पुरनब्रवीः कुमारमेवाहं वरं वृणे इति । कुमारानहं वा बाधेयेति । तदेतत्स्रर्वं सत्यम्, यदिदानी इमं बालं बाधसे । त्वं हि विगृह्य विकृष्य बहू प्लवसे आगच्छसि आकाश नदीं वा तरीस दिव आगच्छन् । तथा च बह्वृचाः सरमासूक्ते अधीयते - कथं रसाया अतरः पयांसि इति । रसा आकाशनदी । द्यामवचाकशत् आकाशं पश्यन् ॥
०५ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...
बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++
०५ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...
मूलम्
बि॒भ्रन्निष्क॑ञ्च रु॒क्मञ्च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः ।
सुबी॑रिण॒ सृज॒ सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् ।
हरदत्तः
बिभ्रन्निष्कं चेति ॥ गतम् ॥
०६ तत्सत्यं यत्ते ...{Loading}...
तत् स॒त्यं यत् ते॑ सर॒मा
मा॒ता लोहि॑तः पि॒ता ।
अ॒मी एके॑ स-रस्य॒का अ॑व॒धाव॑त
तृ॒तीय॑स्या इ॒तो दि॒वः ।
०६ तत्सत्यं यत्ते ...{Loading}...
मूलम्
तत्स॒त्यं यत्ते॑ सर॒मा मा॒ता लोहि॑तः पि॒ता ।
अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑त तृ॒तीय॑स्या इ॒तो दि॒वः ।
हरदत्तः
तत्सत्यमिति ॥ तत् सत्यं यत्ते सरमा नाम माता रोहितो नाम पिता । अथान्ये श्वानः अमी यूयं एके केचित् सरस्यकाः सरसि भवाः रस्येन रसनीयेन मांसादिना वा सहिता अवधावति धावत । लकारस्य व्यत्ययः अधोमुखा आगच्छथ । कुतः? तृतीयस्या इतो दिवः ॥
०७ तेकश्च ससरमतण्डश्च ...{Loading}...
तेक॑श् च ससरम-त॒ण्डश् च॒ तूल॑श् च॒ वितू॑ल॒श् चार्जु॑नश् च॒ लोहि॑तश् च +++(यूयम्)+++।
दु॒ला ह॒ नाम॑ वो मा॒ता।
मन्था॑क॒को ह॑ वः पि॒ता ।
स॒न्+++(→हन्ति)+++ तक्षा॑ हन्ति च॒क्री वो॒, +++(अतो)+++ न सीस॑रीदत+++(=उपसर्पत)+++ ।+++(र४)+++
०७ तेकश्च ससरमतण्डश्च ...{Loading}...
मूलम्
तेक॑श्च ससरमत॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च ।
दु॒ला ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑ वः पि॒ता ।
स॒न्तक्षा॑ हन्ति च॒क्रीवो॒ न सीस॑रीदत ।
हरदत्तः
के पुनस्ते? तेक इति ॥ तेकः ससरमतण्डः तूलः वितूलः अर्जुनः लोहितः इति षट् । वः युष्माकं दुला नाम माता मन्थाकको नाम च पिता । अत्रागतान् वः अस्मत्परिचारकः तक्षा चक्री चक्रवान् आयुधहस्तः संहन्ति सम्यक् हनिष्यति अतश्च न सीसरीदत नोपसर्पत ॥
०८ छदपेहि सीसरम ...{Loading}...
छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
सम् अ॑श्वा॒ वृष॑णः+++(=वर्षणसमर्थाः बलवन्तः)+++ प॒दो न+++(=इव)+++ सीस॑रीदत+++(=अपसर्पत)+++ ।
०८ छदपेहि सीसरम ...{Loading}...
मूलम्
छद॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर ।
सम॑श्वा॒ वृष॑णः प॒दो न सीस॑रीदत ।
हरदत्तः
इमावपरौ सरमायाः पुत्रौ सीसरमस्सीसरश्च । तौ प्रत्याह -छदपेहीति ॥ हे सीसरम । सारमेय अपेहि अपगच्छ । हे सीसर । सारमेय नमस्ते अस्तु समित्यस्याख्यातेन सम्बन्धः । अश्वाः मदीयाः वृषाणः वर्षणसमर्थाः बलवन्तः पदो न पादा इव संसीसरीदत । पुरुषव्यत्ययः संसर्पन्तु संसर्पतं युवा प्रतियद्यत्तागच्छथः ॥
०९ छदपेहि सीसरम ...{Loading}...
छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
श्वान॒म् इच् छ्वा ऽद॒न्, न पु॑रुष॒ञ् छत् ।+++(र५)+++
०९ छदपेहि सीसरम ...{Loading}...
मूलम्
छद॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर ।
श्वान॒मिच्छ्वाद॒न्न पु॑रुष॒ञ्छत् ।
हरदत्तः
छदपेहीति ॥ गतम् । सर्वानेव शुनः प्रत्याह - श्वानमित् श्वानमेव श्वा यः कश्चिदिहागतः अदत् अत्तु न पुरुषं इमं कुमारम् । छत् भर्त्सनशब्दोऽयम् ॥
१० एते ते ...{Loading}...
ए॒ते ते॒ प्रति॑दृश्येते
समा॒नव॑सने उ॒भे +++(मातरौ)+++।
ते अ॒हꣳ सा॒र+++(मे)+++ये॑ण॒
मुस॑ले॒ना ऽव॑हन्म्य् उ॒लूख॑ले ।
१० एते ते ...{Loading}...
मूलम्
ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने उ॒भे ।
ते अ॒हꣳ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले ।
हरदत्तः
शङ्खग्रहहगृहीतस्याभिमन्त्रणमन्त्रौ - एते इति ॥ ते प्रसिद्धे एते शङ्खग्रहाणां मातरौ प्रतिदृश्ये ते अवलोक्येते समानवसने सरूपवस्रे उभे, ते अहं उलूखले कृत्वा सारयेण सारमयेन दृढेनं मुसलेन अवहन्मि ॥
११ हतश्शङ्खो हतश्शङ्खपिता ...{Loading}...
ह॒तश् श॒ङ्खो ह॒तश् श॑ङ्खपि॒ता
ह॒तश् श॑ङ्ख-कुतुर्व॒कः+++(=कुहिंसकः)+++ ।
अप्ये॑षाꣳ स्थ॒पति॑र्+++(=स्वामी)+++ ह॒तः ।
११ हतश्शङ्खो हतश्शङ्खपिता ...{Loading}...
मूलम्
ह॒तश्श॒ङ्खो ह॒तश्श॑ङ्खपि॒ता ह॒तश्श॑ङ्खकुतुर्व॒कः ।
अप्ये॑षाꣳ स्थ॒पति॑र्ह॒तः ।
हरदत्तः
हतश्शङ्ख इति ॥ शङ्खः शङ्खग्रहो हतः । शङ्खपिता हतः । शङ्खकुतुर्वकः कुतुर्वको हिंसकः कुत्सितः तुर्वकः, शङ्खश्चासौ कुतुर्वकश्च शङ्खकुतुर्वकः अयं च हतः । अप्येषां शङ्खानां स्थपतिः स्वामी हतः ॥
१२ ऋषिर्बोधः प्रबोधस्स्वप्नो ...{Loading}...
ऋषि॑र् बो॒धः+++(=बोधायनगोत्रकृत्)+++ प्रबो॑ध॒स्
स्वप्नो॑ मात॒रिश्वा॑ ।
ते ते॑ प्रा॒णान्त् स्प॑रि॒ष्यन्ति॒+++(=पालयिष्यन्ति)+++
मा भै॑षी॒र् न म॑रि॒ष्यसि॑ ।
१२ ऋषिर्बोधः प्रबोधस्स्वप्नो ...{Loading}...
मूलम्
ऋषि॑र्बो॒धः प्रबो॑ध॒स्स्वप्नो॑ मात॒रिश्वा॑ ।
ते ते॑ प्रा॒णान्त्स्प॑रि॒ष्यन्ति॒ मा भै॑षी॒र्न म॑रि॒ष्यसि॑ ।
हरदत्तः
उत्तरया उदकुम्भेन शिरस्तोऽवनयति -ऋषिर्बोध इति ॥ यस्य गोत्रं बोधायनः स बोध ऋषिः प्रबोधः प्रबुद्धता स्वप्नः स्वापः मातरिश्वायुः ते एते ते तव प्राणान् स्परिष्यन्ति पालयिष्यन्ति अतश्च न मरिष्यसि ततो मा भैषीः हे कुमार ।
१३-१५ जग्धो मशको ...{Loading}...
ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ ।
ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टि॒स् स्वाहा॑ ।
ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑क॒स् स्वाहा॑ ॥ +++(र५ विन्यासे ऽत्र सर्पाकृतिः)+++
१३-१५ जग्धो मशको ...{Loading}...
मूलम्
ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ ।
ज॒ग्धो व्य॑द्ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टि॒स्स्वाहा॑ ।
ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑द्ध्व॒रो ज॒ग्धो मश॑क॒स्स्वाहा॑ ॥ (१६)
हरदत्तः
सर्पबलौ किंशुकहोममन्त्राः - जग्ध इति ॥ जग्धः भक्षितः मशकः तन्नामा सर्पः । एवं व्यध्वरः । वितृष्टिः सर्पः स्पष्टमन्यत् ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने षोडशः खण्डः